Wednesday, January 31, 2024

Shloka 80 - Sri Varadarajastava



        Click on the image to open:

नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदामुद्राम् ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥८०॥
T:  Oh Lord Śrī Varadarāja, Your very name means the one who gives boons and fulfills the devotee's desires graciously. That is the reason why You do not hold Your hand in the Mudra of Abhaya. The scholar learned in Āgama  will not accept the mere form as attestation of the Śruti declaration.
Explanation:  Many deities hold their hands in the Mudra of giving. This is not depicted in the idol of Śrī Varadarāja. But the poet argues that since His very name means Vara-Da i.e. the gracious giver of boons, there is therefore no need for the deity to explicitly show the hand in that Mudra. According to Mīmāmsakas,  Śruti is the final evidence for any understanding, not Liṅga as a deity image (empirical depiction).  Thus there is no problem in the Abhaya Mudra not being shown for 'Vara-Da" here. We can quote lines from the Vāmana Purāṇa in this context:
आर्थिभ्यो वै वरं दत्ते प्रणतार्तिविनाशनः । आख्यां वरदराजेति ययौ नित्यं कृतार्थयन् ॥
This has been cited in Appayya Dīkṣita's Kuvalayānanda as  विश्वप्रसिद्धतरविप्रकुलप्रसूतेर्यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् (Vāmana, born as the son of the world's most reputed Brahmin parents, did not even need to sport a sacred thread to establish himself as a Brahmin.)

व्याकरणांशाः
मूलम्
नामैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । ।
न ह्यागमोदितरसः श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥८०॥
पदच्चेदः
नाम, एव, ते, वरद, वाञ्छित-दातृ-भावम्, व्याख्याति, अतः, न, वहसे, वर-दान-मुद्राम्, न, हि, आगम-उदित-रसः श्रुति-सिद्धम्, अर्थम्, लिङ्गेन, बोध्यम्, उररी-कुरुते, विपश्चित्
सन्धयः
नाम+एव=वृद्धिरेचि
भावम्, , अर्थम्=मोऽनुस्वारः
व्याख्याति+अतः, हि+आगम= इको यणचि
अतः+न=ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
आकाङ्क्षा-अन्वयः
वरद, ते नाम एव वाञ्छित-दातृ-भावम् व्याख्याति । अतः वर-दान-मुद्राम् न वहसे । न हि आगम-उदित-रसः विपश्चित् श्रुति-सिद्धम् अर्थम् लिङ्गेन बोध्यम् उररी-कुरुते ।
Translation
Oh, Varada, Your very name declares You as a Fulfiller of all supplicants' desires. That is why You do not hold the Vara-Dāna Mudra. Indeed, one adept in Vedas does not resort to exhibitory image elements to justify or expand on the meaning.
सुबन्तप्रक्रिया
नाम= न, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
एव, हि, न, अतः= अव्ययम्
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
वरद= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
वाञ्छित-दातृ-भावम्, अर्थम्, बोध्यम्, श्रुति-सिद्धम्= अ, पुं, २.१, अम्, अमि पूर्वः
वर-दान-मुद्राम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
लिङ्गेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
विपश्चित्= त्, पुं, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, झलां जशोऽन्ते, वाऽवसाने
तिङन्तप्रक्रिया
आख्याति=आङ्+ख्या, भ्वादिः, परस्मैपदी, लट्, प्रथपुरुषः, एकवचनम्
वहसे= वह्, भ्वादिः, आत्मनेपदी, लट्, मध्यमपुरुषः, एकवचनम्
उररीकरोति=उररी+करोति, कृ, तनादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
वरद= वरं ददाति, हे केवलसमासः
वाञ्छित-दातृ-भावम्=वाञ्छितं ददादि, तृच्, तस्य भावम् = केवलसमासः, ६तत्, तम्
वर-दान-मुद्राम्= वरस्य दानं, तस्य मुद्रा, ताम्= ६ तत्
आगम-उदित-रसः = आगमेन उदितः ३तत्, उदितः रसः, कर्मधारयः, यस्य अस्ति बहुव्रीहिः
श्रुति-सिद्धम्= श्रुत्या सिद्धः, तम् = ३ तत्
विपश्चित्= विशेषं पश्यति विप्रकृष्टं चेतति