Tuesday, January 9, 2024

Shloka 58 - Sri Varadarajastava





        Click on the image to open:

संप्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
 संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥५८॥
T: Oh, Lord Śrī Varadarāja, the ornamental girdle on Your waist is comparable to  Udayaśaila, and Your exposed waist is like the vast sky is illumined by the red rays by the sparkling gem akin to Surya. Those whose dark night of worldliness is ending are fortunate to witness this sunrise of the divine gem.      
Explanation: The poet describes the sparkling gem at the centre of the Lord's ornamental girdle as the sun. The waist girdle called Sārasana privides as it were the setting of an eastern mountain Udayācala for the sun to rise and shine. The exposed waist of the Lord is akin to the vast sky that glows at dawn.  Just as the sun appears at the end of the night, this gem shines at the end of the darkness of the worldly cycle of birth and death. Those whose dark night is ending are the emancipated pure devotees. Only they are fortunate to get a glimpse of this sun-like gem. This figure of speech is Rūpālaṅkāra.
व्याकरणांशाः
मूलम्
संप्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥५८॥
पदच्चेदः
संप्राप्य, सारसन-मध्यतल-उदयाद्रिम्, मध्याम्बरम्, मसृणयन्, अरुणैः, मयूखैः, संवीक्ष्यते, सुकृतिभिः, मणिः, एषः, पूषा, संसार-रात्रि-उपरतिम्, गतवद्भिः, एव
सन्धयः
सारसन-मध्यतल-उदयाद्रिम्, मध्याम्बरम्, संसार-रात्रि-उपरतिम्= मोऽनुस्वारः
मध्य+अम्बरम्= अकः सवर्णे दीर्घः
मसृणयन्+अरुणैः=ङमो ह्रस्वादचि ङमुण्नित्यम्
अरुणैः+मयूखैः, सुकृतिभिः+मणिः, मणिः+एषः, गतवद्भिः+एव = ससजुषो रुः
एषः+पूषा= एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
एषः मणिः पूषा एव संप्राप्य सारसन-मध्यतल-उदयाद्रिम् मध्याम्बरम् अरुणैः मयूखैः मसृणयन् सुकृतिभिः संसार-रात्रि-उपरतिम् गतवद्भिः संवीक्ष्यते
Translation
This brilliant gem is the sun himself, rising over the ornamental girdle of Yours sitting like the eastern peak, and suffusing it and the large sky that is Your waist with his golden rays. He is seen rising only by those of good deeds who have overcome the effects of the dark night of worldly suffering.
सुबन्तप्रक्रिया
संप्राप्य, एव = अव्ययम्
सारसन-मध्यतल-उदयाद्रिम्= इ, पुं, २.१, अम्, अमि पूर्वः
मध्याम्बरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मसृणयन्= त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दिइर्घात् सुतिस्यप्कृतम् हल्
अरुणैः, मयूखैः, सुकृतिभिः, गतवद्भिः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मणिः = इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एषः = एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पूषा = न्, पुं, १.१, सुँ, सौ च, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, नलोपः प्रातिपदिकान्तस्य
संसार-रात्रि-उपरतिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
संवीक्ष्यते= सम्+ईक्ष्, भ्वादि, आत्मनेपदी, कर्मणी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सारसन-मध्यतल-उदयाद्रिम्= सारसन इति मध्यतलम्, सम्भावनाकर्मधारयः, तलम्, उदयाद्रिमिव= उपमानोत्तरपदकर्मधारयः
मध्याम्बरम्= अम्बरमिव मध्यम् = उपमानोत्तरपदकर्मधारयः
सुकृतिभिः= सुष्टा कृतिः येषां ते, तैः
संसार-रात्रि-उपरतिम्= संसारः एव रात्रिः, सम्भावनापूर्वपदकर्मधारयः, रात्रेः उपरतिः, ताम्, षष्ठीतत्पुरुषः