Wednesday, January 10, 2024

Shloka 59 - Sri Varadarajastava





        Click on the image to open:
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
 नाभ्या इति श्रुतिविपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्च सूत्रम् ॥५९॥
T: Oh, the four-armed Lord Śrī Varadarāja, the leader of the Yadu clan when You are Śrī Kṛṣṇa, the outer space did not arise from Your navel. Because Your navel arose from that space. It appears that the case endings in the Vedic statement नाभ्या असीदन्तरिक्षम् are inverted. These statements are followed even by Jaimini when he says पशोश्च etc.
Explanation: The middle of the Lord's torso is expansive and subtle. So it is often described by mystic poets as अन्तरिक्ष outer space, in the middle of the navel. So the poet says that the Lord's navel comes from outer space. But what about the assertion in the exalted Puruṣasūktam, नाभ्या आसिइदन्तरिक्षम् - outer space in creation emerged from the Lord's navel? This contradicts the poet's view here! The poet proposes that we interchange the case endings to mean, " the Lord's navel  emerged from outer space." He also advances the argument that Jaimini has explained in his Mīmāmsā  the Vedic assertion: पशोश्च विप्रकर्षस्तन्मध्ये विधानात् which is recast with a different case ending by commentators as विप्रकर्षात् to secure a better understanding. The poet wants to follow suit and recast even the Puruṣasūktam statement! We must understand that the basis for the poet's imagination is his perceiving the middle torso of  Lord Śrī Varadarāja as very subtle and beyond our grasp like outer space. This is a poetic licence indeed. 

व्याकरणांशाः
मूलम्
नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् ।
नाभ्या इति श्रुतिविपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्च सूत्रम् ॥५९॥
पदच्चेदः
नाभेः, अभूत्, तव, चतुर्भुज, न,अन्तरिक्षम्, यत्, नाभिः, एव, यदुनेतः, इयम्, ततः, अभूत्, नाभ्या, इति, श्रुति-विपर्ययगे, विभक्ती, ताम्, जैमिनेः, अनुससार, पशोः, च, सूत्रम्
सन्धयः
नाभेः+अभूत्, नाभिः+एव, यदुनेतः*+इयम्, जैमिनेः+अनुससार= ससजुषो रुः (* आर्ष)
न+अन्तरिक्षम्= अकः सवर्णे दीर्घः
अन्तरिक्षम्, इयम्, ताम् = मोऽनुस्वारः
यत्+नाभिः=झलां जशोऽन्ते, यरोऽनुनासिकेऽनुनासिको वा
ततः+अभूत्= ससजुषो रुः, अतोरोरप्लुदापल्तुते, आद्गुणः, एङः पदान्तादति
पशोः+च= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
चतुर्भुज! यदुनेतः! तव नाभेः अन्तरिक्षम् न अभूत् यत् इयम् नाभिः एव ततः अभूत्! नाभ्या इति श्रुति-विपर्ययगे विभक्ती । ताम् जैमिनेः पशोः च सूत्रम् अनुससार ।
Translation
Oh, Four-armed Lord, chief of the Yadus! From your navel did not stem the outer space, as I see that Your navel has indeed emerged from outer space. The Vedic statement starting with Nābhyā had interchanged the Vibhaktis (first and fifth). This was recast while interpreting by the Jaimini school with the Sūtram, Paśośca etc.
सुबन्तप्रक्रिया
नाभेः, जैमिनेः= इ, पुं, ५.१, ङसिँ, घेङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
चतुर्भुज= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
न, यत्, एव, ततः, इति, च = अव्ययम्
अन्तरिक्षम्, सूत्रम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
नाभिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यदुनेतः= ऋ, १.१ सम्बोधनम्, ऋतो ङिसर्वनामस्थानयोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, खरवसानयोर्विसर्जनीयः
इयम्= इदम्, स्त्री, २.२, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
नाभ्या= इ, स्त्री, ३.१, टा, इको यणचि
श्रुति-विपर्ययगे= आ, स्त्री, १.२, औ, औङ आपः, आद्गुणः
विभक्ती = इ, स्त्री, १.२, औ, प्रथमयोः पूर्वसवर्णः
ताम् = तद्, स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, अमि पूर्वः
पशोः= उ, पुं, ५.१,ङसिँ, घेङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
अभूत्, भू, भ्वादि, परस्मैपदी,लुङ्, प्रथमपुरुषः, एकवचनम्
अनुससार= अनु+सृ, भ्वादि, परस्मैपदी, लिट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
चतुर्भुज= चत्वारः भुजाः यस्य सः, हे, बहुव्रीहिः
यदुनेतः= यदूनां नेता, हे, षष्ठीतत्पुरुषः
श्रुति-विपर्ययगे= श्रुतेः विपर्ययम्, षष्ठीतत्पुरुषः, तस्मिन् गच्छति या, ते सप्तमीतत्पुरुषः