Sunday, January 28, 2024

Shloka 77- Sri Varadarajastava



        Click on the image to open:
आभाति देव विधृतस्तव सव्यपाणावन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्ते वसन्निव गलस्य गुरोर्गभीरध्यानक्रियोपनिषदध्ययनार्थमेषः ॥७७॥
T:  Oh, Lord known as Acyuta (The Infallible),  The famed conch Pāñcajanya in Your left hand is immaculate inside and outside, and appears to be the sincere disciple seated near You as the Supreme Guru as You propound the supreme mystical Upaniṣad in Your deep, resonant voice.
Explanation: Śrī Varadarāja's left-hand holds the conch Pāñcajanya. The Lord's deep voice is its Guru. The poet thus implies that the Lord's voice is deeper in resonance than the conch itself. To merit the teaching of the cosmic sound, the conch has purified itself inside and outside.

व्याकरणांशाः
मूलम्
आभाति देव विधृतस्तव सव्यपाणावन्तर्बहिश्च शुचिरच्युत पाञ्चजन्यः ।
अन्ते वसन्निव गलस्य गुरोर्गभीरध्यानक्रियोपनिषदध्ययनार्थमेषः ॥७७॥
पदच्चेदः
आभाति, देव, विधृतः, तव, सव्य-पाणौ, अन्तः-बहिः, च, शुचिः, अच्युत, पाञ्चजन्यः, अन्ते, वसन्, इव, गलस्य, गुरोः, गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्, एषः
सन्धयः
विधृतः+तव=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सव्य-पाणौ+अन्तः=एचोऽयवायावः
अन्तः+बहिः=ससजुषो रुः
बहिः+च=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
शुचिः॒+अच्युत= ससजुषो रुः
पाञ्चजन्यः, एषः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वसन्+इव=ङमो ह्रस्वादचि ण्गमुण्नित्यम्
गुरोः+गभीर= ससजुषो रुः
ध्यानक्रिया+उपनिषद्=आद्गुणः
अध्ययन+अर्थम्= अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
देव! अच्युत! तव सव्य-पाणौ विधृतः अन्तः-बहिः च शुचिः पाञ्चजन्यः आभाति एषः गलस्य गुरोः गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम् अन्ते वसन् इव
Translation
Oh Lord, Acyuta! In Your left hand is held the Pāñcajanya conch, pure and white inside and outside, poised near Your throat like a sincere disciple absorbing Your, supreme Guru's Upaniṣadic teaching.
सुबन्तप्रक्रिया
देव, अच्युत=अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
विधृतः, पाञ्चजन्यः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जणियः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
सव्य-पाणौ= इ, पुं, ७.१, ङि, अच्च घेः, व्रिद्धेरेचि
अन्तः-बहिः, च, अन्ते, इव= अव्ययम्
शुचिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जणियः
वसन्=त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
गलस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
गुरोः= उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्=अ, पुं, २.१, अम्, अमि पूर्वः
एषः= एतद्, पुं, १.१, सुँ, त्यदादिनामः, अतो गुणे, इदोः सः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आभाति= आङ्+भा, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
विधृतः=वि+धृ, क्त कर्मणि कृदन्तः
सव्य-पाणौ= सव्यः पाणिः कर्मधारयः, तस्मिन्
अन्तः-बहिः= अन्तश्च बह्श्च द्वन्द्वः
अच्युत= यस्य च्यितिः नास्ति, बहुव्रीहिः
पाञ्चजन्यः= पञ्चानां जन्यः ७तत्
गभीर-ध्यानक्रिया-उपनिषद्-अध्ययन-अर्थम्= ध्यानस्य क्रिया ६तत्, गभीरा ध्यानक्रिया कर्मधारयः, तेन उद्भवा उपनिषद् = ३तत्, तस्याः अध्ययनम् ६तत्, तदर्थम् ६तत्