Showing posts with label Kulashekhara. Show all posts
Showing posts with label Kulashekhara. Show all posts

Sunday, April 14, 2024

Sri Mukundamala - Conclusion

 


॥ ॐ नमो भगवते वासुदेवाय ॥

यस्य प्रियौ स्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूतां
तेनाम्बुजाक्षचरणामुब्जषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥४०॥

Translation: This devotional poem Mukundamālā has been composed by the King Kulaśekhara whose had two friends Padma and Śara, great Vedic scholars, exemplary Brahmins, and accomplished poets.
Notes; Even in appending his own name and identity, the poet is so humble that he mentions his two friends, exalted Brahmin scholars. Thereby he is indicating that although a king, he also cultivated the company of the devout and the scholarly. That explains the great personality of Rājā Kulaśekhara who has composed this superb poem of ardent devotion and spiritual thought.

Happy Vishu Yugaadi to all!



व्याकरणांशाः
यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशरावभूतां
तेनाम्बुजाक्षचरणामुब्जषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥४०॥
यस्य, प्रियौ, श्रुति-धरौ, कवि-लोक-वीरौ, मित्रे, द्वि-जन्म-वर-पद्म-शरौ, अभूताम्, तेन, अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन, राज्ञा, कृता, कृतिः, इयम्, कुलशेखरेण
सन्धयः
पद्म-शरौ+अभूताम्= एचोऽयवायावः
अभूताम्, इयम्= मोऽनुस्वारः
तेन+अम्बुज+अक्ष,-चरण+अम्बुज= अकः सवर्ने दीर्घः
कृतिः+इयम्= ससजुषो रुः
आकाङ्क्षा-अन्वयः
यस्य प्रियौ श्रुति-धरौ कवि-लोक-वीरौ मित्रे द्वि-जन्म-वर-पद्म-शरौ अभूताम् तेन अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन राज्ञा कुलशेखरेण इयम् कृतिः कृता
This devotional poem Mukundamālā has been composed by the King Kulaśekhara whose had two friends Padma and Śara, great Vedic scholars, exemplary Brahmins, and accomplished poets.
सुबन्तप्रक्रिया
यस्य = यद्, पुं, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
प्रियौ, स्रुति-धरौ, कवि-लोक-वीरौ, द्वि-जन्म-वर-पद्म-शरौ = अ, पुं, १.२, औ, वृद्धिरेचि (प्रथमयोः..निषिद्धः नादिचि सूत्रेण)
मित्रे = अ, नपुं, १.२, औ, नपुंसकाच (औङः शी आदेशः). आद्गुणः
तेन = तद्, पुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसमिनात्स्याः, आद्गुणः
अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
राज्ञा = न्, पुं, ३.१, टा, अल्लोपो नः, स्तोः श्चुना श्चुः
कृता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
कृतिः = इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इयम् = इदम्, स्त्री, १.१, सुँ, इदमो मः, यः सौ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
कुलशेखरेण= अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
अभूताम् = भू सत्तयाम्, भ्वादिः, परस्मैपदी, लुङ्, प्रथमपुरुषः, द्विवचनम्
समासाः, तद्धिताः, कृदन्ताः
श्रुति-धरौ= श्रुतिं धरति, उपपद, तौ
कवि-लोक-वीरौ= कवीनां लोकक़् ६तत्, तस्य वीरौ, ६तत्
मित्रे= [मिद्यति स्निह्यति, मिट्-त्र, मि-त्र वा, मित्रम्, द्विवचनम्
द्वि-जन्म-वर-पद्म-शरौ= जन्मनोः द्वयम् द्विजन्म, द्विजन्म यस्य सः द्विजन्मः, तेषां वरौ, वरौ पद्मश्च शरश्च पद्मशरौ द्वन्द्वः, वरौ पद्मशरौ कर्मधारयः
अम्बुज-अक्ष-चरण-अम्बुजषट्पदेन= अम्भुजमिव अक्षि यस्य सः उपमानपूर्वपदबहुव्रीहिः, तस्य चरणम्, ६तत्, चरणम् अम्बुजमिव उपमानोत्तरपदकर्मधारयः, अम्बुजस्य समीपे स्थितः षट्पदः (षट् पदानि यस्य सः बहुव्रीहिः) ६तत्

***

॥ ॐ नमो भगवते वासुदेवाय ॥



Saturday, April 13, 2024

Sri Mukundamala - 39


॥ ॐ नमो भगवते वासुदेवाय ॥

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये। 
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥३९॥
Translation: To the Lord whose beautiful body is decorated with star-like drops of water sprinkled by the waves of the Milky Ocean, who is lying in Yoganidra comfortably on the bed formed by the Adishesha snake, who is the beloved consort of Lakṣmī, who destroyed the demon Madhu to recover the Vedas, our prayers!

Listen to this rendered so beautifully by Sangeetha Kalanidhi Bombay Jayashri here!


Notes: This is an expression of poetic ecstasy as the devotee meditates on the Lord.
व्याकरणांशाः
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥३९॥
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये,भोगि-भोग-शयनीय-शायिने, माधवाय, मधु-विद्विषे, नमः
सन्धयः
शीकर+आसार= अकः सवर्णे दीर्घः
नमः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये भोगि-भोग-शयनीय-शायिने माधवाय मधु-विद्विषे नमः
To the Lord whose beautiful body is decorated with star-like drops of water sprinkled by the waves of the Milky Ocean, who is lying in Yoganidra comfortably on the bed formed by the Adishesha snake, who is the beloved consort of Lakṣmī, who destroyed the demon Madhu to recover the Vedas, our prayers!
सुबन्तप्रक्रिया
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये = इ, स्त्री, ४.१, ङे, (विकल्पेन) घेर्ङिति, एचोऽयवायावः
भोगि-भोग-शयनीय-शायिने = न्, पुं, ४.१, ङे, वर्णमेलनम्
माधवाय =अ, पुं, ४.१, ङे, ङेर्यः, सुपि च
मधु-विद्विषे = ष्, पुं, ४.१, ङे, वर्णमेलनम्
नमः = नमस् अव्ययम्
तिङन्तप्रक्रिया
अस्तु अध्याहारः = असँ भुवि, अदादिः परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये= चारु मूर्तिः कर्मधारयः, क्षीरसागरस्य तरङ्गाः, तैः उत्वादितः शिकरः आसारः (कर्मधारयः), ३तत् मध्यमपदलोपी, तेन तारकिता चारु मूर्तिः, ३तत्, मूर्तिः यस्य सः, मूर्तिः, तस्मै
भोगि-भोग-शयनीय-शायिने= भोगिनः भोगम् शयनम् ६तत्, कर्मधारयः, तस्मिन् शेते इति शायिन् कृदन्तः, तस्मै
माधवाय= मायाः धवः ६तत्, तस्मै
मधु-विद्विषे= मधोः विद्विष् ६तत्, तस्मै

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Friday, April 12, 2024

Sri Mukundamala - 38


॥ ॐ नमो भगवते वासुदेवाय ॥

ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितं
समाहितानां सतताभयप्रदंते यान्ति सिद्धिं परमां च वैष्णवीम् ॥३८॥
Translation: Those that meditate on Lord Viṣṇu, the Infinite, Inexhaustible and Eternal, situated always within the lotus of their hearts, constantly granting protection and grace to those established in His meditation, shall proceed to ultimate beatitude, the supreme state called Vaiṣṇavī.

Notes: This continues the statement from the previous stanzas. The devotee contrasts the fate of those not immersed in the Lord's names with the progress made by those meditating on the Lord. 


व्याकरणांशाः
ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितं
समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां च वैष्णवीम् ॥३८॥
ध्यायन्ति, ये, विष्णुम्, अनन्तम्, अव्ययम्, हृत्-पद्म-मध्ये, सततम्, व्यवस्थितम्, समाहितानाम्, सतत-अभयप्रदम्, ते, यान्ति, सिद्धिम्, परमाम्, च, वैष्णवीम्
सन्धयः
अव्ययम्, व्यवस्थितम्, समाहितानाम्, सतत-अभयप्रदम्, सिद्धिम्, परमाम् = मोऽनुस्वारः
हृत्-पद्म= झलां जशोऽन्ते, खरि च
सतत+अभयप्रदम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययम् हृत्-पद्म-मध्ये सततम् व्यवस्थितम् समाहितानाम् सतत-अभयप्रदम् ते यान्ति सिद्धिम् परमाम् च वैष्णवीम्
Those that meditate on Lord Viṣṇu, the Infinite, Inexhaustible and Eternal, situated always within the lotus of their hearts, constantly granting protection and grace to those established in His meditation, shall proceed to ultimate beatitude, the supreme state called Vaiṣṇavī.
सुबन्तप्रक्रिया
ये = यद् सर्वनाम, पुं, १.३, जस्, जसः शी, आद्गुणः
विष्णुम्= उ, पुं, २.१, अम्, अमि पूर्वः
अनन्तम्, अव्ययम्, व्यवस्थितम्, सतत-अभयप्रदम् = अ, पुं, २.१, अम्, अमि पूर्वः
हृत्-पद्म-मध्ये = अ, नपुं, ७.१, ङि, आद्गुणः
सततम्, च = अव्ययम्
समाहितानाम्= अ, पुं, ६.३, आम्, हर्स्वनद्यापो नुट्, नामि
ते = तद्, पुं, १.३, जस्, जसः शी, आद्गुणः
सिद्धिम् = इ, स्त्री, २.१, अम्, अमि पुर्वः
परमाम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
वैष्णवीम् = ई. स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
ध्यायन्ति = ध्यै चिन्तायाम् ,भ्वादिः परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
यान्ति = या प्रापणे, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
विष्णुम्= विशति सर्वभूतानि विशन्ति सत्वभूतान्यस्मिन् इति वा, तम्
अनन्तम्, अव्ययम्= अन्तः नास्ति यस्य, व्ययः नास्ति यस्य, नञ्बहुव्रीहिः, तम्
हृत्-पद्म-मध्ये= ह्र्त् पद्ममिव, उपमानोत्तरपदकर्मधारयः, तस्य मध्यम् ६तत्, तस्मिन्
व्यवस्थितम्= विशेषेण अव+ष्ठा, कर्तरि क्त कृदन्तः
समाहितानाम्= सम् + आ + डुधाञ् (धारणपोषणयोः)'क्तः' कृदन्तः, तेषाम्
वष्णवीम्= विष्णोः इयम्, तद्धितः, ताम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Wednesday, April 10, 2024

Sri Mukundamala - 36, 37 continued

Melukote Śrī Celuvanārāyaṇa
॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तवप्रिय चक्रपाणे 
श्रीपद्मनाभ अच्युतकैटभारे श्रीराम पद्माक्श हरे मुरारे ॥३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्न गोविन्द दामोदर माधवेति 
वकुत्ं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥३७॥
Translation: "Oh, Lord of Devī Śrī, Nārāyaṇa, Vāsudeva, Śrī Kṛṣna, the One deeply in love with His devotees, the One holding the Cakra that wards off all evil, the One with the lotus in His navel out of which arose the Creator Brahma himself, the Infallible Lord, the Destroyer of the demon Kaiṭabha, Lord Śrī Rāma, the Lotus-eyed One, Hari, Murāri,  Ananta, Vaikunṭha, Mukunda, Kṛṣṇa, Govinda, Dāmodara, and Mādhava!!!" - thus every man is fully capable of chanting the Lord̍s blissful, auspicious names; but yet, no one does it! Alas! How woeful is the condition of us people!

Notes: The predominant sentiment that flows through a true devotee is one of compassion, or Karuṇa. Buddha and Kṛṣna epitomise this sentiment because it is man's highest expression of divinity. The devotee naturally feels that the people who are too engrossed in this world to remember the Lord's name constantly are passing up the greatest opportunity afforded to a thinking and seeking being called man.

व्याकरणांशाः
श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीपद्मनाभ अच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति
वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥३७॥
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, कैटभारे, श्रीराम, पद्माक्ष, हरे, मुरारे, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव, इति, वक्तुम्, समर्थः, अपि, न, वक्ति, कश्चित्, अहो, जनानाम्, व्यसन-अभि-मुख्यम्
सन्धयः
माधव+इति= आद्गुणः
वक्तुम्, जनानाम्= मोऽनुस्वारः
समर्थः+अपि= स्तोसजुषो रुः, रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
व्यसन+अभि-मुख्यम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे श्रीपद्मनाभ अच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधव इति वक्तुम् समर्थः अपि न वक्ति कश्चित्! अहो जनानाम् व्यसन-अभि-मुख्यम्
"Oh, Lord of Devī Śrī, Nārāyaṇa, Vāsudeva, Śrī Kṛṣna, the One deeply in love with His devotees, the One holding the Cakra that wards off all evil, the One with the lotus in His navel out of which arose the Creator Brahma himself, the Infallible Lord, the Destroyer of the demon Kaiṭabha, Lord Śrī Rāma, the Lotus-eyed One, Hari, Murāri, Ananta, Vaikunṭha, Mukunda, Kṛṣṇa, Govinda, Dāmodara, and Mādhava!!!" - thus every man is fully capable of chanting the Lord̍s blissful, auspicious names; but yet, no one does it! Alas! How woeful is the predilection of us people!
Notes: The devotee empathises with the people lost in worldly pursuits and with no inclination at all to take the Lord's name. He remarks that this is indeed the most grievous aspect of their life, not their material sufferings or lost opportunities in this world.

सुबन्तप्रक्रिया
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, श्रीराम, पद्माक्ष, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
कैटभारे, हरे, मुरारे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः
इति, अपि, न, अहो = अव्ययम्
वक्तुम् = वच्, तुमुन् कृदन्तः अव्ययम्
समर्थः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कश्चित् = कः + चित्, किम् सर्वनाम, १.१, सुँ, किमः कः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जनानाम् = अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
व्यसन-अभि-मुख्यम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
वक्ति = वचँ परिभाषणे, अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
श्रीनाथ= श्रियः नाथः, हे ६तत्
श्रीकृष्ण,श्रीपद्मनाभ, श्रीराम= श्रीमान् कृष्ण/पद्मनाभ/राम = कर्मधारयः
नारयण= नराणां समूहो नारं तत्रायनं स्थानं यस्य नारायणः रेफात् परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धिगुहानिवासाच्छुद्धचैतन्यमित्यर्थः । हे
वासुदेव= वसुदेवस्यापत्यमिति। वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । हे
भक्तप्रिय= भक्ताः प्रियाः यस्य सः, बहुव्रीहिः, हे
अच्युत= च्युतिः नास्ति यस्य, अच्युतः, हे
कैटभारे= कैटभस्य अरिः, हे, ६तत्
श्रीनाथ, नारयण, वासुदेव, श्रीकृष्ण, भक्तप्रिय, चक्रपाणे, श्रीपद्मनाभ, अच्युत, कैटभारे, श्रीराम, पद्माक्ष, हरे, मुरारे, अनन्त, वैकुण्ठ, मुकुन्द, कृष्ण, गोविन्द, दामोदर, माधव, इति, वक्तुम्, समर्थः, अपि, न, वक्ति, कश्चित्, अहो, जनानाम्, व्यसन-अभि-मुख्यम्
मुरारे= मुरस्य अरिः, हे, ६तत्
अनन्त= न अन्तम् यस्य सः, हे
वैकुण्ठ= विगता कुण्ठा यस्य सः, स्वार्थे अण्, हे
मुकुन्द= मुकं ददाति इति मुकुन्दः, हे, ६तत्
कृष्ण= कर्षतीति कृष्णः, हे
गोविन्द= गाः उपनिषद्वाचः विन्दति, गां भुवं धेनुं स्वर्गं वेदं वा विन्दति । हे
दामोदर= दाम उदरे यस्य बहुव्रीहिः, हे
माधव= मायाः लक्ष्म्याः धवः । हे, ६तत्
व्यसन-अभि-मुख्यम्= व्यसनम् अभिमुख्यम् (प्रादि), कर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥
Post: Edit

Sri Mukundamala - 36, 37




Melukote Śrī Celuvanārāyaṇa
॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीनाथ नारयण वासुदेव श्रीकृष्ण भक्तवप्रिय चक्रपाणे 
श्रीपद्मनाभ अच्युतकैटभारे श्रीराम पद्माक्श हरे मुरारे ॥३६॥
अनन्त वैकुण्ठ मुकुन्द कृष्न गोविन्द दामोदर माधवेति 
वकुत्ं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥३७॥
Translation: "Oh, Lord of Devī Śrī, Nārāyaṇa, Vāsudeva, Śrī Kṛṣna, the One deeply in love with His devotees, the One holding the Cakra that wards off all evil, the One with the lotus in His navel out of which arose the Creator Brahma himself, the Infallible Lord, the Destroyer of the demon Kaiṭabha, Lord Śrī Rāma, the Lotus-eyed One, Hari, Murāri,  Ananta, Vaikunṭha, Mukunda, Kṛṣṇa, Govinda, Dāmodara, and Mādhava!!!" - thus every man is fully capable of chanting the Lord̍s blissful, auspicious names; but yet, no one does it! Alas! How woeful is the condition of us people!

Notes and grammar will follow tomorrow.


***
॥ ॐ नमो भगवते वासुदेवाय ॥

Monday, April 8, 2024

Sri Mukundamala - 35




Melukote Śrī Celuvanārāyaṇa
॥ ॐ नमो भगवते वासुदेवाय ॥

नमामि नारायणपादपङ्कजम्
करोमि नारायणपूजनं सदा।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥३५॥
Translation: I bow down to Nārāyaṇa's lotus feet; I worship the Lord always; I chant the holy and purifying name of Nārāyaṇa; I meditate on the Eternal Principle of Nārāyaṇa!
Notes: This is the witness in the devotee remarking on his state of mind. 


व्याकरणांशाः
नमामि नारायणपादपङ्कजम्
करोमि नारायणपूजनं सदा।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥३५॥
नमामि, नारायणपादपङ्कजम्, करोमि, नारायणपूजनम्, सदा,वदामि, नारायणनाम, निर्मलम्, स्मरामि, नारायणतत्त्वम्, अव्ययम्
सन्धयः
नारायणपूजनं, निर्मलं= मोऽनुस्वारं
आकाङ्क्षा-अन्वयः
नमामि नारायणपादपङ्कजम् करोमि नारायणपूजनम् सदावदामि नारायणनाम निर्मलम् स्मरामि नारायणतत्त्वम् अव्ययम्
I bow down to Nārāyaṇa's lotus feet; I worship the Lord always; I chant the holy and purifying name of Nārāyaṇa; I meditate on the Eternal Principle of Nārāyaṇa!
सुबन्तप्रक्रिया
नारायणपादपङ्कजम्, नारायणपूजनम्, निर्मलम्, नारायणतत्त्वम्, अव्ययम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
सदा = अव्ययम्
नारायणनाम= न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
तिङन्तप्रक्रिया
नमामि= णमँ प्रह्वत्वे शब्दे च, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
करोमि=डुकृञ् करणे, तनादिः परस्मै(उभय)पदी, लट्, उत्तमपुरुषः, एकवचनम्
वदामि = वदँ व्यक्तायां वाचि, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
स्मरामि = स्मृ आध्याने, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नारायणपादपङ्कजम्= पादः पङ्कजमिव, उपमानकर्मधारयः, नारायणस्य पादपङ्कजम्, ६तत्, तत्
नारायणपूजनम्= नारायणस्य पूजनम्, तत्, ६तत्
नारायणनाम= नारायणस्य नाम, तत्, ६तत्
निर्मलम्= मलं नास्ति यस्य, नञ् बहुव्रीहिः, तत्
नारायणतत्त्वम्= नारायण इति तत्त्वम् सम्भावनाकर्मधारयः, तत्
अव्ययम् = व्ययः नास्ति यस्य, नञ्बहुव्रीहिः, तत्
उत्-हर्तुम्= उत्+हृ, तुमुन्, कृदन्तः, अव्ययम्
हरे= हरतीति भवम् हरिः उपपद, हे
पुरुषोत्तमः= पुरुषाणाम् उत्तमः ६तत्



***
॥ ॐ नमो भगवते वासुदेवाय ॥