Friday, April 12, 2024

Sri Mukundamala - 38


॥ ॐ नमो भगवते वासुदेवाय ॥

ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितं
समाहितानां सतताभयप्रदंते यान्ति सिद्धिं परमां च वैष्णवीम् ॥३८॥
Translation: Those that meditate on Lord Viṣṇu, the Infinite, Inexhaustible and Eternal, situated always within the lotus of their hearts, constantly granting protection and grace to those established in His meditation, shall proceed to ultimate beatitude, the supreme state called Vaiṣṇavī.

Notes: This continues the statement from the previous stanzas. The devotee contrasts the fate of those not immersed in the Lord's names with the progress made by those meditating on the Lord. 


व्याकरणांशाः
ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितं
समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां च वैष्णवीम् ॥३८॥
ध्यायन्ति, ये, विष्णुम्, अनन्तम्, अव्ययम्, हृत्-पद्म-मध्ये, सततम्, व्यवस्थितम्, समाहितानाम्, सतत-अभयप्रदम्, ते, यान्ति, सिद्धिम्, परमाम्, च, वैष्णवीम्
सन्धयः
अव्ययम्, व्यवस्थितम्, समाहितानाम्, सतत-अभयप्रदम्, सिद्धिम्, परमाम् = मोऽनुस्वारः
हृत्-पद्म= झलां जशोऽन्ते, खरि च
सतत+अभयप्रदम्= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययम् हृत्-पद्म-मध्ये सततम् व्यवस्थितम् समाहितानाम् सतत-अभयप्रदम् ते यान्ति सिद्धिम् परमाम् च वैष्णवीम्
Those that meditate on Lord Viṣṇu, the Infinite, Inexhaustible and Eternal, situated always within the lotus of their hearts, constantly granting protection and grace to those established in His meditation, shall proceed to ultimate beatitude, the supreme state called Vaiṣṇavī.
सुबन्तप्रक्रिया
ये = यद् सर्वनाम, पुं, १.३, जस्, जसः शी, आद्गुणः
विष्णुम्= उ, पुं, २.१, अम्, अमि पूर्वः
अनन्तम्, अव्ययम्, व्यवस्थितम्, सतत-अभयप्रदम् = अ, पुं, २.१, अम्, अमि पूर्वः
हृत्-पद्म-मध्ये = अ, नपुं, ७.१, ङि, आद्गुणः
सततम्, च = अव्ययम्
समाहितानाम्= अ, पुं, ६.३, आम्, हर्स्वनद्यापो नुट्, नामि
ते = तद्, पुं, १.३, जस्, जसः शी, आद्गुणः
सिद्धिम् = इ, स्त्री, २.१, अम्, अमि पुर्वः
परमाम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
वैष्णवीम् = ई. स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
ध्यायन्ति = ध्यै चिन्तायाम् ,भ्वादिः परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
यान्ति = या प्रापणे, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
विष्णुम्= विशति सर्वभूतानि विशन्ति सत्वभूतान्यस्मिन् इति वा, तम्
अनन्तम्, अव्ययम्= अन्तः नास्ति यस्य, व्ययः नास्ति यस्य, नञ्बहुव्रीहिः, तम्
हृत्-पद्म-मध्ये= ह्र्त् पद्ममिव, उपमानोत्तरपदकर्मधारयः, तस्य मध्यम् ६तत्, तस्मिन्
व्यवस्थितम्= विशेषेण अव+ष्ठा, कर्तरि क्त कृदन्तः
समाहितानाम्= सम् + आ + डुधाञ् (धारणपोषणयोः)'क्तः' कृदन्तः, तेषाम्
वष्णवीम्= विष्णोः इयम्, तद्धितः, ताम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥