Thursday, April 4, 2024

Sri Mukundamala -30




॥ ॐ नमो भगवते वासुदेवाय ॥

तत्त्वं ब्रुवाणानि परं परस्मात् मधुक्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥३०॥
Translation: Oh, Tongue! I bow down to you. I beg you to repeat continuously the holy names that take you to dwell in Nārāyaṇa, those that reveal with honeyed sweetness the most supreme truths of existence, and have been realised by the holy ascetics!
Notes:  The tongue is the only organ of both perception and action. In fact, all the sages and saints have said that the tongue can make or break a man's future depending on how much he can regulate it. Eating, enjoying, craving, speaking, delighting, harming, hurting, ennobling, inspiring, expressing, so many functions all depend on the tongue! here, the devotee is appealing to the tongue with bowed head, knowing its proclivities, that the honeyed name of the Lord is so sweet, so ennobling, and so rewarding of the supreme truth, that the tongue will immensely enjoy the experience of chanting the Lord's name. I just read a book of sayings by Bhagawan Sri Sathya Sai Baba explaining Nama Mahima. 

व्याकरणांशाः
तत्त्वं ब्रुवाणानि परं परस्मात् मधुक्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥३०॥
तत्त्वम्, ब्रुवाणानि, परम्, परस्मात्, मधुक्षरन्ति, इव, सताम्, फलानि, प्र-आवर्तय, प्राञ्जलिः, अस्मि, जिह्वे, नामानि, नारायण-गोचराणि
सन्धयः
तत्त्वम्, परम्, सताम्= मोऽनुस्वारः
मधुक्षरन्ति+इव, प्र-आवर्तय, प्र+अञ्जलिः= अकः सवर्णे दीर्घः
प्राञ्जलिः+अस्मि= ससजुषो रुः
आकाङ्क्षा-अन्वयः
जिह्वे! प्राञ्जलिः अस्मि! परम् परस्मात् तत्त्वम् मधुक्षरन्ति इव ब्रुवाणानि सताम् फलानि नारायण-गोचराणि नामानि प्र-आवर्तय!
Oh, Tongue! I bow down to you. I beg you to repeat continuously the holy names that dwell in Nārāyaṇa, those that reveal with honeyed sweetness the most supreme truths and have been realised by the holy ascetics!
सुबन्तप्रक्रिया
तत्त्वम्, परम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
ब्रुवाणानि, फलानि, नारायण-गोचराणि= अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकास्य झलचः, सर्वनामस्थाने चासम्बुद्धौ
परस्मात् = पर, सर्वनामस्थानम्, नपुं, ५.१, ङसिँ, ङसिङ्योः स्मात्स्मिनौ, झलां जशोऽन्ते, वाऽवसाने
मधुक्षरन्ति = त्, नपुं, १.३, जस्, जश्शसोः शिः, वा नपुंसकस्य, नश्चापदान्तस्य झलि, अनुस्वारस्य ययो परसवर्णः
इव = अव्ययम्
सताम्= त्, पुं, ६.३, आम्, वर्णमेलनम्
प्राञ्जलिः= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जिह्वे = आ, स्त्री, १.१ सम्बोधनम्, सुँ, सम्बुद्धौ च, एङ्ह्रस्वात् सम्बुद्धेः
नामानि = न्, नपुं, २.३, शस्, जश्शसोः शिः, सर्वनामस्थाने चासम्बुद्धौ
तिङन्तप्रक्रिया
प्र-आवर्तय = प्र+वृतुँ वर्तने, णिजन्त, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
अस्मि = अस् असँ भुवि , अदादिः, परस्मैपदी, लट्,उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तत्त्वम्= तस्य भावः तद्धितः
ब्रुवाणानि= ब्रूते सत् ब्रुवाणम् (अट्कुप्वाङ्नुम् व्यवायेऽपि), शानच्, तानि
मधुक्षरन्ति= मधुं क्षरति सत्, शानच्, तानि
नारायण-गोचराणि = नारायणं गोचरति सत्, तानि, उपपदसमासः, अट्कुप्वाङ्नुम् व्यवायेऽपि

***
॥ ॐ नमो भगवते वासुदेवाय ॥