Monday, April 1, 2024

Sri Mukundamala -27


॥ ॐ नमो भगवते वासुदेवाय ॥

मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव।
त्वद्भृत्यभृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोकनाथ॥२७॥

Translation: Oh, Lord who vanquished the demons Madhu and Kaiṭabha to save the Vedas! My life's fulfilment shall come from Your graciously acceding to this prayer of mine! Oh, Lord of the universe, kindly make me the servant of the servant (and remember me thus) of the servant of the servant of the servitor of the servant of Your servant!
Notes:  The devotee is clever. He knows that being born human, this is his great chance to exercise his will. He begs the Lord to fulfil his life by granting that he be the servant of the servant of the servant.... of the Lord. This way, he will have the best Satsang, he will get rid of his ego, and in turn serve the Lord! For, the devotee knows that nothing pleases the Lord more than the act of serving and pleasing His devotees.

व्याकरणांशाः
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव।
त्वद्भृत्यभृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर लोकनाथ॥२७॥
मत्-जन्मनः, फलम्, इदम्, मधु-कैटभ-अरे, मत्-प्रार्थनीय-मत्-अनुग्रहः, एषः, एव, त्वत्- भृत्य-भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-भृत्यस्य, भृत्यः, इति, माम्, स्मर, लोक-नाथ
सन्धयः
मत्-जन्मनः= झलां जश् झशि, स्तोः श्चुना श्चुः
जन्मनः+फलम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
इदम्, माम्= मोऽनुस्वारः
कैटभ+अरे= अक्ः सवर्णे दीर्घः
मत्+प्रार्थनीय=झलां जश् झशि, खरि च
मत्+अनुग्रहः= झलां जश् झशि
अनुग्रहः+एषः= ससजुषो रुः, भोभगोअघोअपूर्वस्य, लोपः शाकल्यस्य
एषः+एव, भृत्यः+इति= ससजुषो रुः, भोभगोअघोअपूर्वस्य, लोपः शाकल्यस्य
त्वत्+भृत्य=झलां जश् झशि
आकाङ्क्षा-अन्वयः
मधु-कैटभ-अरे! मत्-जन्मनः एषः मत्-प्रार्थनीय-मत्-अनुग्रहः इदम् फलम् एव। लोक-नाथ! त्वत्- भृत्य-भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-भृत्यस्य भृत्यः इति माम् स्मर!
Oh, Lord who vanquished the demons Madhu and Kaiṭabha to save the Vedas! my life's fulfilment shall come from Your graciously acceding to this prayer of mine! Oh, Lord of the universe, kindly make me and remember me the servant of the servant of the servant of the servant of the servitor of the servant of Your servant!
सुबन्तप्रक्रिया
मत्-जन्मनः = न्, नपुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
फलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
इदम्= म्, सर्वनाम, १.१, सुँ, इदमो मः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
मधु-कैटभ-अरे= इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
मत्-प्रार्थनीय-मत्-अनुग्रहः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एषः=एतद्, सर्वनाम, पुं, १.१, सुँ, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः, आदेशप्रत्यययोः
एव, इति = अव्ययम्
त्वत्- भृत्य-भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-भृत्यस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
भृत्यः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
माम् = अस्मद्, २.१, अम्, ङे प्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्ने दीर्घः, अमि पूर्वः
लोक-नाथ = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
स्मर = स्मृ आध्याने ,भ्वादिः परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मत्-जन्मनः= मम जन्म, तस्य, ६तत्
मधु-कैटभ-अरे= मधुश्च कैटभश्च, मधुकैटभौ, द्वन्द्वः, तयोः अरिः, हे, ६तत्
मत्-प्रार्थनीय-मत्-अनुग्रहः= मया प्रार्थनीयः (कृदन्तः) ३तत्, मत्प्रार्थनीयः मम अनुग्रहः ६तत्, कर्मधरयः
त्वत्-भृत्य= तव भृत्यः, ६तत्
भृत्य-भृत्यस्य= भृत्यस्य भृत्यः ६तत्, तस्य
लोक-नाथ = लोकस्य नाथः, हे, ६तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥