Sunday, March 31, 2024

Sri Mukundamala -26




॥ ॐ नमो भगवते वासुदेवाय ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं तेन प्रापुः वान्ञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम्॥२६॥


Translation: By chanting the holy name Nārāyaṇa, even the sinners are redeemed and rewarded with whatever they desire. Alas, we did not chant that holy name thus far, hence we are plunged into repeated cycles of birth!
Notes:  The devotee is observing how even sinners are redeemed by chanting the holy name, with or without conviction, inadvertently even! (e.g. Ajāmila). The power of the name is thus infallible. However, a number of lives have been wasted until this birth by not chanting the Lord's name.

व्याकरणांशाः
श्रीमन्नाम प्रोच्य नारायणाख्यं तेन प्रापुः वान्ञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिन् तेन प्राप्तं गर्भवासादिदुःखम्॥२६॥
श्रीमन्नाम, प्रोच्य, नारायण-आख्यम्, तेन, प्रापुः, वान्ञ्छितम्, पापिनः, अपि, हा, नः, पूर्वम्, वाक्, प्रवृत्ता, न, तस्मिन्, तेन, प्राप्तम्, गर्भ-वास-आदि-दुःखम्
सन्धयः
श्रीमत्+नाम=यरोऽनुनासिकेऽनुनासिको वा
नारायण+आख्यम्, वास+आदि= अकः सवर्ने दीर्घः
आख्यम्, वान्ञ्छितम्, पूर्वम्, प्राप्तम्= मोऽनुस्वारः
प्रापुः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः+पूर्वम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
पापिनः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
आकाङ्क्षा-अन्वयः
श्रीमन्नाम नारायण-आख्यम् प्रोच्य तेन पापिनः अपि वान्ञ्छितम् प्रापुः ! हा पूर्वम् नः वाक् तस्मिन् न प्रवृत्ता! तेन गर्भ-वास-आदि-दुःखम् प्राप्तम्
By chanting the holy name Nārāyaṇa, even the sinners are redeemed and rewarded with whatever they desire. Alas, we did not chant that holy name thus far, hence we are plunged into repeated cycles of birth!
सुबन्तप्रक्रिया
श्रीमन्नाम = न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
नारायण-आख्यम्, वान्ञ्छितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तेन = तद्, नपुं, ३.१, टा, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः, आद्गुणः
पापिनः= न्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अपि, हा, पूर्वम्, न = अव्ययम्
नः = अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वाक् = च् स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्गात्सुतिस्यप्कृतं हल्, चोः कुः
प्रवृत्ता = आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्गात्सुतिस्यप्कृतं हल्
तस्मिन् = तद्, नपुं, ७.१, ङि, त्यदादीनामः, अतो गुणे, ङसिङ्योः स्मात्स्मिनौ
प्राप्तम्, गर्भ-वास-आदि-दुःखम् =अ, नपुं, १.१, सुँ, अतोऽम्, अमि उर्वः
तिङन्तप्रक्रिया
प्रापुः = प्र+आप्, आपॢँ व्याप्तौ, स्वादिः, परस्मैपदी, लिट्, प्रथमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रोच्य = प्र+वच् परिभाषणे, ल्यबन्तकृदन्तः
श्रीमन्नाम= श्रीः विद्यते अस्य तद्धितः, श्रीमत् नाम कर्मधारयः
नारायण-आख्यम्=नारायण इति आख्यायते उपपद, आख्यम् नाम
वान्ञ्छितम्= वाञ्छ् , क्त कृदन्तः, तम्
प्रवृत्ता= प्र+ वृतु, क्त कर्तरी, सा
प्राप्तम्= प्र+ आप्, क्त, तम्
गर्भ-वास-आदि-दुःखम् = गर्भस्य वासः ६तत्, वासः आदि यस्य सः, बहुव्रीहिः, वासादिः एव दुःखम्, अवधारणाकर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥
Post settings Labels Mukundamala,Kulashekhara, No matching suggestions Published on 30/03/2024 14:59 Links Location Search description Options Post: Edit