Sunday, March 17, 2024

Sri Mukundamala - 12



Mahabalipuram

॥ ॐ नमो भगवते वासुदेवाय ॥

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानां 
विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥१२॥
Translation: For all of us humans, drowned in the ocean of worldliness, buffetted by strong waves of likes and dislikes, tortured by the weight of carrying the sons, daughters and wives through life, repeatedly sinking in the waters of deadly sense-attractions, without any boat to cross, indeed there SHALL BE one saviour when we surrender to the boat called Bhagavān Viṣṇu!
Notes: Only for someone who has never beheld the frightening immensity of an ocean, is this metaphor difficult to understand. The ocean has always held a fatal fascination for man. The first step to cross the ocean is a boat. When someone is lost and drowning in a titanic ocean, that too burdened by worldly bonds, attracted to senses, buffeted by pain and pleasure, is there any hope of survival, let alone of getting across? Yes, emphatically Yes, says Kulaśekhara. It is none other than Bhagavān Viṣṇu. This is a powerful message. There is no hope in this world other than Bhagavān. 

One of the Dhyānaślokas of ŚrīmadBhagavadgītā is this:
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्नघोरमकरा दुर्योधनावर्तिनी उत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः     ॥
The deadly murderous river flanked by Bhīṣma and Droṇa (who appeared impartial but served Duryodhana), the waters of Jayadratha who killed Abhimanyu against rules of war, Śakuni the deceiver blue lotus,  infested by the crocodile called Śalya(betrayer),  Kṛpa the force of flow, agitated by huge waves called Karṇa, deadly sharks called  Aśvatthāma and Vikarna,  with whirlpool called Duryodhana- even that river was indeed crossed by Pāṇḍavas, was it not, just because their boatman was none other than Keśava!?! Nothing is impossible for one surrendered to Bhagavān!

व्याकरणांशाः
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानां
विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥१२॥
भव-जलधि-गतानाम्, द्वन्द्व-वात-आहतानाम्, सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम्, विषम-विषय-तोये, मज्जताम्, अप्लवानाम्, भवतु, शरणम्, एकः, विष्णु-पोतः, नराणाम्
सन्धयः
भव-जलधि-गतानाम्, द्वन्द्व-वात-आहतानाम्, सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम्, अप्लवानाम्= मोऽनुस्वारः
वात+आहतानाम्, भार+आर्दितानाम्= अकः सवर्ने दीर्घः
एकः+विष्णु-पोतः+नराणाम्= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
भव-जलधि-गतानाम् द्वन्द्व-वात-आहतानाम् सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम् विषम-विषय-तोये मज्जताम् अप्लवानाम् नराणाम् एकः विष्णु-पोतः शरणम् भवतु
For all of us humans, drowned in the ocean of worldliness, buffetted by strong waves of likes and dislikes, tortured by the weight of carrying the sons, daughters and wives through life, repeatedly sinking in the waters of deadly sense attractions, without any boat to cross, indeed there SHALL BE one saviour, when we surrender to the boat called Bhagavān Viṣṇu!
सुबन्तप्रक्रिया
भव-जलधि-गतानाम्, द्वन्द्व-वात-आहतानाम्, सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम्, अप्लवानाम्= अ, पुं, ६.३, आम्, ह्रस्वनद्याओपो नुट्, नामि
विषम-विषय-तोये = अ, नपुं, ७.१, ङि, आद्नुणः
मज्जताम्= त्, पुं, ६.३, आम्, वर्णमेलनम्
शरणम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एकः, विष्णु-पोतः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नराणाम्= अ, पुं, ६.३, आम्, ह्रस्वनद्याओपो नुट्, नामि, अट्कुप्वाङ्नुम्व्यवायेपि
तिङन्तप्रक्रिया
भवतु= भू सत्तायाम्, भ्वादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
भव-जलधि-गतानाम्= भवः एव जलधिः अवधारणाकर्मधारयः, जलधिं गताः २तत्, तेषाम्
द्वन्द्व-वात-आहतानाम्= द्वन्द्वः वातः कर्मधारयः, तेन आहताः, ३ तत्, तेषाम्
सुत-दुहितृ-कलत्र-त्राण-भार-आर्दितानाम्=सुतः च, दुहिता च, कलत्रम् च, इतरेतरद्वन्द्वः, -कलत्राणां त्राणम् ६तत्, तस्य भारः, ६तत्, तेन आर्दिताः, ३तत्, तेषाम्
विषम-विषय-तोये=विषमः विषयः कर्मधारयः, विषयःएव तोयम्, अवधारणाकर्मधारयः, तस्मिन्
अप्लवानाम्= प्लवः नास्ति अस्य, नञ्बहुव्रीहिः, तेषाम्
***
॥ ॐ नमो भगवते वासुदेवाय ॥