Thursday, March 28, 2024

Sri Mukundamala - 23



॥ ॐ नमो भगवते वासुदेवाय ॥

शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥२३॥
Translation: Oh, my tongue! Constantly chant the Śrī Kṛṣṇa Mantra that makes human life fruitful, (for) it is the sole power to ward off all the enemies within and without, the true and complete essence extolled in the Upaniṣads, the force to lift me out of this Saṃsāra, the mechanism to separate me from the terribly evil company I am stuck in, the one magical word that confers all prosperity, the antidote to the snakebite of worldly misery!
Notes: Bhakti is the supreme method of attaining Mukti, the subject of this entire Stotram. Bhakti's magic potion is Nāmajapa. We can cite innumerable role models who have shown us that Nāmajapa works wonders. Bhagavān says in the Gītā that among Yajñas, He is Japayajña. The simple word  Rāma, or Kṛṣṇa, or Om Namo Nārāyaṇāya mentioned already, or  Om Namo Vāsudevāya, is the most powerful key to liberation and solving all earthly problems. This has been explained so beautifully in this verse. The message is to the tongue to constantly chant the holy name. This self-discipline is called Bhakti, which also needs intense effort and devotion.

व्याकरणांशाः
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥२३॥
शत्रु-च्छेद-एक-मन्त्रम्, सकलम्, उपनिषद्-वाक्य-संपूज्य-मन्त्रम्, संसार-उत्तार-मन्त्रम्, समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम्, सर्व-ऐश्वर्य-एकमन्त्रम्, व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्,जिव्हे, श्री-कृष्ण-मन्त्रम्, जप, जप, सततम्, जन्म-साफल्य-मन्त्रम्
सन्धयः
शत्रु+छेद= छे च
च्छेद+एक= व्रिद्धेरेचि
मन्त्रम्= मोऽनुस्वारः
संसार+उत्तार=आद्गुणः
सर्व+ऐश्वर्य=व्रिद्धिरेचि
आकाङ्क्षा-अन्वयः
जिह्वे श्री-कृष्ण-मन्त्रम् जप जप सततम् जन्म-साफल्य-मन्त्रम् शत्रु-च्छेद-एक-मन्त्रम् सकलम् उपनिषद्-वाक्य-संपूज्य-मन्त्रम् संसार-उत्तार-मन्त्रम् समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम् सर्व-ऐश्वर्य-एकमन्त्रम् व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्
Oh, my tongue! Constantly chant the Śrī Kṛṣṇa Mantra that makes human life fruitful, (for) it is the sole power to ward off all the enemies within and without, the true and complete essence extolled in the Upaniṣads, the force to lift me out of this Saṃsāra, the mechanism to separate me from the terribly evil company I am stuck in, the one magical word that confers all prosperity, the antidote to the snakebite of worldly misery!
सुबन्तप्रक्रिया
-मन्त्रम् = अ, पं, २.१, अम्, अमि पूर्वः ( all words that are samastapadas ending in मन्त्रम्)
सकलम् = अ, नपुं, २.१, अतोऽम्, अमि पूर्वं
जिह्वे = आ, स्त्री, १.१ सम्बोधनम्, सुँ, सम्बुद्धौ च, एङ्ह्रस्वात् सम्बुद्धेः
सततम् = अव्ययम्
तिङन्तप्रक्रिया
जप = जपँ व्यक्तायां वाचि, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
शत्रु-च्छेद-एक-मन्त्रम्= शत्रोः छेदनं (६तत्) करोति उपपद, शत्रुच्छेदम् एकम् मन्त्रम् कर्मधारयः, तम्
उपनिषद्-वाक्य-संपूज्य-मन्त्रम्= उपनिषदः वाक्यम् ६तत्, तेन संपूज्यम् ३तत्, संपूज्यम् मन्त्रम्, कर्मधारयः, तम्
संसार-उत्तार-मन्त्रम्= संसारात् उत्तरति उपपद, उत्तारम् मन्त्रम् कर्मधारयः, तम्
समुपचित-तमस्-सङ्ग-निर्याण-मन्त्रम्= सम्यक् उपचितम् प्रादिः, समुपचितम् तमः, कर्मधारयः, तस्य सङ्गः, ६तत्, तस्मात् निर्याणः ५तत्, निर्याणाय मन्त्रम् ४तत्, तम्
सर्व-ऐश्वर्य-एकमन्त्रम्= सर्वं ऐश्वर्यम् कर्मधारयः, तदर्थं एकम् मन्त्रम् (कर्मधारयः). ४तत्, तम्
व्यसन-भुजग-सन्दष्ट-सन्त्राण-मन्त्रम्= व्यसनमिति भुजगः सम्भावनापूर्वपदकर्मधारयः, तेन सन्दष्टः ३तत्, तं सन्तरति, उपपद , सन्त्राणः मन्त्रः कर्मधारयः, तम्
श्री-कृष्ण-मन्त्रम्= श्रीकृष्ण इति मन्त्रः तम्, सम्भावनापूर्वपदकर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥