| व्याकरणांशाः |
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः । |
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः॥१८॥ |
| हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, नमः, नारायणाय, इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः |
| सन्धयः | | | | | |
| परमम्, हितम्, आपद्-ऊर्मि-बहुलम्, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्= मोऽनुस्वारः |
| मर्त्याः+ परमम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च |
| वः+ वक्ष्यामि, नमः+नारायणाय= ससजुषो रुः, हशि च, आद्गुणः |
| संक्षेपतः, स्थिताः, मुहुः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, , इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः |
| नारायणाय+इति=आद्गुणः |
| इति+अमुम्=इको यणचि |
| प्र+आवर्तयध्वम्= अकः सवर्णे दीर्घः |
| आकाङ्क्षा-अन्वयः | | | | |
| हे मर्त्याः! संसार-आर्णवम् आपद्-ऊर्मि-बहुलम् सम्यक् प्रविश्य स्थिताः!परमम् हितम् शृणुत! वः वक्ष्यामि संक्षेपतः! नाना-ज्ञानम् अपास्य चेतसि नमः नारायणाय इति सप्रणवम् प्रणाम-सहितम् अमुम् मन्त्रम् प्रावर्तयध्वम् मुहुः |
| Oh, mortals! Sunk as you are, comprehensively, into the ocean of Saṃsāra full of terrible waves of danger, listen to what is to your greatest benefit! I tell you in brief: Chant Oṃ Namo Nārāyaṇāya, constantly! |
| सुबन्तप्रक्रिया | | | | |
| हे मर्त्याः, स्थिताः= अ, पुं, १.३ सम्बोधनम्, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| परमम्, हितम्, नाना-ज्ञानम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
| वः= युष्मद्, पुं, ६.३, आम्, अन्वादेशे युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ |
| संक्षेपतः, मुहुः, सम्यक्, इति = अव्ययम् |
| संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम् = अ, पुं, २.१, अम्, अतोऽम् |
| चेतसि= स्, नपुं, ७.१, ङि, वर्णमेलनम् |
| नमः = अव्ययम् |
| नारायणाय = अ, पुं, ४.१, ङे, ङेर्यः, सुपि च |
| अमुम्= अदस्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः, अदसोऽसेर्दादु दो मः |
| मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्= अ, पुं, २.१, अम्, अमि पूर्वः |
| तिङन्तप्रक्रिया | | | | |
| शृणुत= श्रु, श्रवणे, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, बहुवचनम् |
| वक्ष्यामि = वच् परिभाषणे, अदादिः, परस्मैपदी, लृट्, उत्तमपुरुषः, एकवचनम् |
| प्रावर्तयध्वम्= प्र+ आङ्+वर्तयध्वम्=वृतुँ भाषायाम्, चुरादिः आत्मनेपदी, लोट्, मध्यमपुरुषः, बहुवचनम् |
| समासाः, तद्धिताः, कृदन्ताः | | | |
प्रविश्य = प्र+विश्, ल्यबन्तः कृदन्तः | | | | | |
| अपास्य= अप+अस्, ल्यबन्तः, कृदन्तः |
| संसार-आर्णवम्= संसारमेव अर्णवम्, तम् = अवधारणाकर्मधारयः |
| आपद्-ऊर्मि-बहुलम्= आपदेव ऊर्मिः, अवधारनाकर्मधारयः, तस्य बहुलम् ६ तत्, तम् |
| नाना-ज्ञानम्= केवल समासः |
| सप्रणवम्= प्रणवेन सहितं सप्रणवम् = ३ तत् |
| हे, मर्त्याः, परमम्, हितम्, शृणुत, वः, वक्ष्यामि, संक्षेपतः, संसार-आर्णवम्, आपद्-ऊर्मि-बहुलम्, सम्यक्, प्रविश्य, स्थिताः, नाना-ज्ञानम्, अपास्य, चेतसि, नमः, नारायणाय, इति, अमुम्, मन्त्रम्, सप्रणवम्, प्रणाम-सहितम्, प्रावर्तयध्वम्, मुहुः |
| प्रणामेन सहितम्= ३तत् |