Thursday, March 14, 2024

Sri Mukundamala - 9


Saraswati Mahal Museum, Tanjavur

॥ ॐ नमो भगवते वासुदेवाय ॥

करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ ९॥
Translation: Lost in the burning desert of worldly life, I shall plunge deep into the lake of Hari, full of lotuses in the form of His hands and feet, full of luminous fish in the form of His divine eyes, with waves splashed by His tremendous arms, deep and cool, as I drink the life-giving water in plenty, and abandon all my distress!
Notes:  Kulaśekhara visualises himself lost, burnt and dry, in the desert of this worldly life full of getting and spending, and then he sees himself in the divinely cool lake of Hari, the Lord, whose lotus-hands and lotus-feet and fish-like glowing eyes are inviting him to plunge and drink deep, enjoying the waves raised by Hari's own mighty arms. He feels totally rejuvenated and refreshed, and loses all distress! Visualisation is a powerful tool for anyone, especially for a devotee who wants to dwell in the lake of devotion!

व्याकरणांशाः
करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ ९॥
पदच्चेदः
कर-चरण-सरोजे, कान्तिमत्-नेत्र-मीने श्रम-मुषि, भुज-वीचि-व्याकुले,अगाअमार्गे, हरि-सरसि, वि-गाह्य, आपीय, तेजो-जल-ओघम्, भव-मरु-परि-खिन्नः, खेदम्,अद्य,त्यजामि
सन्धयः
कान्तिमत्ने+त्र= यरोऽनुनासिकेऽनुनासिको वा
व्याकुले+अगाअमार्गे=एङः पदान्तादति
वि-गाह्य+आपीय=अकः सवर्णे दीर्घः
तेजो+जल= ससजुषो रुः, हशि च, आद्गुणः
जल+ओघम्=वृद्धिरेचि
आकाङ्क्षा-अन्वयः
भव-मरु-परि-खिन्नः श्रम-मुषि कर-चरण-सरोजे कान्तिमत्-नेत्र-मीने भुज-वीचि-व्याकुले अगाधमार्गे हरि-सरसि वि-गाह्य, तेजो-जल-ओघम् आपीय, खेदम् अद्य त्यजामि

Lost in the burning desert of worldy life, I shall plunge deep into the lake of Hari, full of lotuses in the form of His hands and feet, full of luminous fish in the form of His divine eyes, with waves splashed by His tremendous arms, deep and cool, as I drink the life-giving water in plenty, and abandon all my distress!
सुबन्तप्रक्रिया
कर-चरण-सरोजे, भुज-वीचि-व्याकुले, अगाधमार्गे= अ, नपुं, ७.१, ङि, आद्गुणः
कान्तिमत्-नेत्र-मीने श्रम-मुषि= ष्, नपुं, ७.१, ङि, वर्णमेलनम्
हरि-सरसि= स्, नपुं, ७.१, ङि, वर्णमेलनम्
वि-गाह्य= कृदन्त-अव्ययम्
आपीय= कृदन्त-अव्ययम्
तेजो-जल-ओघम्, खेदम्= अ, पुं, २.१, अम्, अमि पूर्वः
भव-मरु-परि-खिन्नः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अद्य= अव्ययम्
तिङन्तप्रक्रिया
त्यजामि= त्यज्, भ्वादिः, परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कर-चरण-सरोजे= करश्च चरणं च, करचरणम् समाहारद्वन्द्वः, करचरणम् सरोजमिव, उपमानकर्मधारयः, सरोजमस्य अस्तीति बहुव्रीहिः, तस्मिन्
कान्तिमत्-नेत्र-मीने= कान्तिः अस्य अस्ति, कान्तिमत् (मतुप् तद्धितः), कान्तिमत् नेत्रम्, कर्मधारयः, नेत्रम् मीनमिव, उपमानकर्मधारयः, मीनम् अस्यास्ति, बहुव्रीहिः, तस्मिन्
श्रम-मुषि= श्रमं मुषति, श्रममुष् उपपदसमासः, तस्मिन्
भुज-वीचि-व्याकुले= भुजस्य वीचिः ६तत्, वीचिना व्याकुलम् ३तत्, व्याकुलमस्ति अस्य, बहुव्रीहिः, तस्मिन्
अगाधमार्गे= अगाधं मार्गम् कर्मधारयः, मार्गमस्य अस्तीति, बहुव्रीहिः, तस्मिन्
हरि-सरसि= हरि एव सरस्, तस्मिन्, अवधारणापूर्वपदकर्मधारयः
वि-गाह्य, आपीय= वि+गह्, आङ्+पा, ल्यबन्तः, कृदन्तः, अव्ययम्
भव-मरु-परि-खिन्नः= परि-खिन्नः, कर्तरि-क्त कृदन्तः, भवः एव मरुः, अवधारणापूर्वपदकर्मधारयः, मरौ परिखिन्नः ७तत्

***

॥ ॐ नमो भगवते वासुदेवाय ॥