Monday, March 25, 2024

Sri Mukundamala - 20



॥ ॐ नमो भगवते वासुदेवाय ॥

बद्धेनानाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः
कण्ठेन स्वरगद्गदे न नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥२०॥
Translation: Oh, Lotus-eyed Lord, With folded arms in Namaskāra and bowed heads, limbs with horripilating hairs, throats choked with feeling, eyes filled with welling tears, constantly let us be enjoying the Ambrosia of Your two lotus feet, and let our lives be thus forever fulfilled!
Notes: The devotee who feels devotion wants to be in the same condition always. He does not want to slip into a material plane ever. Hence this plea. The great devotees like Prahlada, Hanuman, Meera, Chaitanya, and Ramanuja, all experienced this ecstatic bliss immersed in the Lord, with all these bodily signs.
व्याकरणांशाः
बद्धेनाञ्जलिना नतेन शिरसा गात्रैस्सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥२०॥
बद्धेन,अञ्जलिना, नतेन, शिरसा, गात्रैः, सरोमोद्गमैः, कण्ठेन, स्वर-गद्गनेन, नयनेन, उद्गीर्ण-बाष्प-अम्बुना, नित्यम्, त्वत्-चरण- अरविन्द-युगल- ध्यान-अमृत-आस्वादिनाम्, अस्माकम्, सरसीरुह-अक्ष, सततम्, सम्पद्यताम्, जीवितम्
सन्धयः
बद्धेन+अञ्जलिना, बाष्प+अम्बुना, ध्यान+अमृत-आस्वादिनाम्, सरसीरुह+अक्ष, चरण+अरविन्द= अकः सवर्णे दीर्घः
गात्रैः+सरोमोद्गमैः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सरोम+उद्गमैः, नयनेन+उद्गीर्ण= आद्गुणः
सरोमोद्गमैः+ कण्ठेन= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आस्वादिनाम्, अस्माकम्, सततम्= मोऽनुस्वारः
त्वत्+चरण= झलां जश् जशि, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
सरसीरुह-अक्ष! बद्धेन अञ्जलिना नतेन शिरसा, गात्रैः स-रोमोद्गमैः, कण्ठेन स्वर-गद्गनेन, नयनेन उद्गीर्ण-बाष्प-अम्बुना, नित्यम् त्वत्-चरण-अरविन्द-युगल-ध्यान-अमृत-आस्वादिनाम् अस्माकम् जीवितम् सततम् सम्पद्यताम्
Oh, Lotus-eyed Lord, With folded arms in Namaskāra and bowed heads, limbs with hairs horripilating, throat choked with feeling, eyes filled with welling tears, constantly let us be enjoying the Ambrosia of Your two lotus feet, and let our lives be thus forever fulfilled!
सुबन्तप्रक्रिया
बद्धेन = अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
अञ्जलिना= इ, पुं, ३.१, टा, आङो नाऽस्त्रियाम्
नतेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
शिरसा= स्, नपुं, ३.१, टा, वर्णमेलनम्
गात्रैः= अ, नपुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सरोमोद्गमैः= अ, नपुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कण्ठेन, स्वर-गद्गदेन =अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
नयनेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
उद्गीर्ण-बाष्प-अम्बुना= उ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम्
नित्यम्, सततम् = अव्ययम्
त्वत्-चरण- अरविन्द-युगल-ध्यान-अमृत-आस्वादिनाम्= न्, पुं, ६.३, आम्, वर्णमेलेनम्
अस्माकम्= अस्मद्, ६.३, आम्, आमि सर्वनाम्नः सुट्, साम आकम्, शेषे लोपः
सरसीरुह-अक्ष = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
जीवितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
सम्पद्यताम्= सम्+पद् गतौ, दिवादिः, आत्मनेपदी, भावकर्मणोः, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सरोमोद्गमैः= उद्गमः रोमः, कर्मधारयः, रोमेण सह, सहपूर्वपदबहुव्रीहिः, तैः
स्वर-गद्गनेन= गद्गदः स्वरः लर्मधारयः, स्वरः यस्य सः, तेन, बहुव्रीहिः
उद्गीर्ण-बाष्प-अम्बुना= बाष्पस्य अम्बुः ६तत्, उद्गीर्णम् अम्बुः कर्मधारयः. यस्य सः, तेन, बहुव्रीहिः
त्वत्-चरण-अरविन्द-युगल- ध्यान-अमृत-आस्वादिनाम्= अमृतं स्वादयन्ति, उपपद, चरणं अरविन्दमिव कर्मधारयः, चरणयोः युगलम् ६तत्, तव चरनारविन्दयुगलम्, ६तत्, तस्य ध्यानम्, ६तत्, ध्यानमेव अमृतम्, अवधारनापूर्वपदकर्मधारयः, अमृतं स्वादयन्ति, उपपद, तेषाम्
सरसीरुह-अक्ष= सरसीरुहमिव अक्षि, उपमानपूर्वपदकर्मधारयः, अक्षि यस्य सः, हे, बहुव्रीहिः
***
॥ ॐ नमो भगवते वासुदेवाय ॥