Saturday, March 16, 2024

Sri Mukundamala - 11



Sri Ramaswami Temple Pillar

॥ ॐ नमो भगवते वासुदेवाय ॥

मा भीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः   
नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं 
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११॥
Translation: Oh, Dull Mind! Have no dread thinking of the endless tortures in hell! These enemies surrounding sinners do not bother us, because the Supreme Śrīdhara is our Lord and Master! Give up laziness, meditate on Lord Nārāyaṇa who is reached easily through Bhakti! After all, He is the one who dispels all the sorrows of the whole world; what is then impossible for Him when it comes to His devotees!?
Notes: This thought process is typical for everyone as we think of God only when we are in distress! Here, the devotee remembers stories of the endless tortures waiting in hell for him as a sinner. Then he remembers indeed that he is surrendering to Śrīdhara Nārāyaṇa. The Supreme Lord is the abode of Śrī who is all glory, prosperity, beauty and well-being. He is also the Indweller in all of us, and the Supreme Support for all creation as He can drive away any sorrow or sin for anyone in this world. For such a Lord, is saving a true devotee like me, meditating constantly on Him with no laxity ever, a tough task!? Not at all! Hence, fear not, and simply surrender in true devotion. 
व्याकरणांशाः
मा भीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११॥
मा, भीः, मन्द-मनः, वि-चिन्त्य, बहुधा, यामीः, चिरम्, यातनाः, न, अमी, नः, प्रभवन्ति, पाप-रिपवः, स्वामी, ननु, श्रीधरः, आलस्यम्, व्यपनीय, भक्ति-सुलभम्, ध्यायस्व, नारायणम्, लोकस्य, व्यसन- अपनोदनकरः, दासस्य, किम्, न, क्षमः
सन्धयः
भीः+मन्द-मनः= ससजुषो रुः
मन्द-मनः+वि-चिन्त्य, व्यसन- अपनोदनकरः+दासस्य= ससजुषो रुः, हशि च, आद्गुणः
यामीः+चिरम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तो श्चुना श्चुः
चिरम्, आलस्यम्, भक्ति-सुलभम्,नारायणम्, किम्= मोऽनुस्वारः
यातनाः,श्रीधरः, पाप-रिपवः, क्षमः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
न+अमी, व्यसन+अपनोदन=अकः सवर्णे दीर्घः
नः+प्रभवन्ति= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
वि+अपनीय= इको यणचि
आकाङ्क्षा-अन्वयः
मन्द-मनः ! यामीः चिरम् यातनाः वि-चिन्त्य बहुधा मा भीः ! न अमी नः पाप-रिपवः प्रभवन्ति, स्वामी श्रीधरः ननु ! आलस्यम् व्यपनीय भक्ति-सुलभम् नारायणम् ध्यायस्व ! (सः) लोकस्य व्यसन- अपनोदनकरः! दासस्य किम् न क्षमः?
Oh, Dull Mind! Have no dread thinking of the endless tortures in hell! These enemies that surround sinners do not bother us, because the Supreme Śrīdhara is our Lord and Master! Give up laziness, meditate on Lord Nārāyaṇa who is reached easily through Bhakti! After all, He is the one who dispels all the sorrows of the whole world; what is then impossible for Him when it comes to His devotees!?
सुबन्तप्रक्रिया
मा, ननु, न, बहुधा, चिरम्, किम्= अव्ययम्
भीः= ई, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मन्द-मनः= स्, नपुं, १.१, सम्बोधनम्, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यामीः= ई, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यातनाः= आ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अमी = अद्स्, पुं, १.३, जस्, त्यदादीनामः, अतो गुणे, जसः शी, आद्गुणः, एतईद्बहुवचने
नः= अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पाप-रिपवः =उ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्वामी= न्, पुं, १.१, सुँ, सौ च, हल्ञ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
श्रीधरः, व्यसन- अपनोदनकरः, क्षमः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आलस्यम् =अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
भक्ति-सुलभम्, नारायणम् = अ, पुं, २.१, अम्, अमि पूर्वः
लोकस्य, दासस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
प्रभवन्ति = प्र+भू, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
ध्यायस्व = ध्यै चिन्तायाम्, भ्वादिः, आत्मनेपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
व्यपनीय = वि+अप्+नी नी णीञ् प्रापणे, ल्यबन्त-कृदन्तः
वि-चिन्त्य = वि+चिन्त् चितिँ स्मृत्याम्, ल्यबन्त-क्रिदन्तः

***
॥ ॐ नमो भगवते वासुदेवाय ॥