Thursday, March 21, 2024

Sri Mukundamala - 16


॥ ॐ नमो भगवते वासुदेवाय ॥


जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं 
पाणिद्वन्द्व समर्चय अच्युतक्थाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं 
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥१६॥
Translation: Oh, tongue, sing of Keśava! Oh, mind, meditate on Muraripu, i.e. Kṛṣṇa! Oh my two hands, worship Śrīdhara! Oh, my two ears, busy yourselves listening to Acyutakathās! Oh, my two eyes, feast on the vision of Kṛṣṇa! Oh, my two feet, go to Hari's temple! Oh, nose, inhale the fragrance of Tulasī placed on Mukunda's feet! Oh, my head, bow down to Adhokṣaja, i.e. Viṣṇu!

Notes: Depending on how you perceive it, the devotee is now ordering or pleading with his organs of perception and action to engage in worship. This is like a horse trainer asking the horses to run the course a certain way. As Kṛṣṇa says, this is an ongoing affair and constant practice and detachment are a must for any success -  अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते।

व्याकरणांशाः
जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चय अच्युतक्थाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥१६॥
जिह्वे, कीर्तय, केशवम्, मुररिपुम्, चेतः, भज, श्रीधरम्, पाणिद्वन्द्व, समर्चय, अच्युत-क्थाः, श्रोत्रद्वय, त्वम्, शृणु, कृष्णम्, लोकय, लोचनद्वय, हरेः, गच्छ, अङ्घ्रियुग्म, आलयम्,
जिघ्र, घ्राण, मुकुन्द-पाद-तुलसीम्, मूर्धन्, नम,अधोक्षजम्
सन्धयः
केशवम्, मुररिपुम्, श्रीधरम्, त्वम्,, कृष्णम्, आलयम्, तुलसीम् = मोऽनुस्वारः
चेतः+भज= ससजुषो रुः, हशि च, आद्नुणः
अच्युत-क्थाः+श्रोत्रद्वय=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
हरेः+गच्छ= ससजुषो रुः
गच्छ+अङ्घ्रियुग्म, अङ्घ्रियुग्म+आलयम्, नम+अधोक्षजम् = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
जिह्वे केशवम् कीर्तय! चेतः मुररिपुम् भज! पाणिद्वन्द्व श्रीधरम् समर्चय! श्रोत्रद्वय त्वम् अच्युत-क्थाः शृणु! लोचनद्वय कृष्णम् लोकय! अङ्घ्रियुग्म हरेः आलयम् गच्छ !
जिघ्र मुकुन्द-पाद-तुलसीम् घ्राण ! मूर्धन् अधोक्षजम् नम!
Oh, tongue, sing of Keśava! Oh, mind, meditate on Muraripu, i.e. Kṛṣṇa! Oh my two hands, worship Śrīdhara! Oh, my two ears, busy yourselves listening to Acyutakathās! Oh, my two eyes, feast on the vision of Kṛṣṇa! Oh, my two feet, go to Hari's temple! Oh, nose, inhale the fragrance of Tulasī placed on Mukunda's feet! Oh, my head, bow down to Adhokṣaja, i.e. Viṣṇu!
सुबन्तप्रक्रिया
जिह्वे = आ, स्त्री, १.१ सम्बोधनम्, सुँ, सम्बुद्धौ च, एङ्ह्रस्वात् सम्बुद्धेः
केशवम्, श्रीधरम्, कृष्णम्, अधोक्षजम्, आलयम्= अ, पुं, २.१, अम्, अमि पूर्वः
मुररिपुम्= उ, पुं, २.१, अम्, अमि पूर्वः
चेतः= स्, नपुं, १.१ सम्बोधनम्, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पाणिद्वन्द्व, श्रोत्रद्वय, लोचनद्वय, अङ्घ्रियुग्म, जिघ्र== अ, नपुं, १.१ सम्बोधनम्,सुँ, अतोऽम्, अमि पूर्वः, एङ्ह्रस्वात् सम्बुद्धेः
अच्युत-क्थाः= आ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वम्= युष्मद्, १.१, सम्बोधनम्, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
हरेः= इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुकुन्द-पाद-तुलसीम्= ई, स्त्री, २.१, अम्, अमि पूर्वः
मूर्धन् = न्, पुं, १.१ सम्बोधनम्, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, न ङिसम्बुद्ध्योः
तिङन्तप्रक्रिया
कीर्तय= कॄतँ संशब्दने, चुरादिः परस्मैपदी (उभयपदी), लोट्, मध्यमपुरुषः, एकवचनम्
भज = भजँ सेवायाम्, भ्वादिः, परस्मैपदी (उभयपदी), लोट्, मध्यमपुरुषः, एकवचनम्
समर्चय = सम्+अर्चँ पूजायाम् भ्वादिः, णिजन्ते परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
श्रुणु परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
लोकय= लोकृँ दर्शने, भ्वादिः, णिजन्ते, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
गच्छ = गमॢँ गतौ, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
घ्राण = घ्रा गन्धोपादाने, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
नम = णमँ प्रह्वत्वे, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
केशवम्=केशाः प्रशस्ताः संत्यस्य, मध्यमपदलोपी, बहुव्रीहिः, तम्
मुररिपुम्= मुरस्य रिपुः, ६तत्, तम्
श्रीधरम्= श्रियाः धरः, ६तत्/ श्रियं धरति उपपद, तम्
पाणिद्वन्द्व= पाण्योः द्वन्द्वम्, हे ६तत्
अच्युत-क्थाः= अच्युतस्य कथाः, ताः, ६तत्
श्रोत्रद्वय= श्रोत्रोः द्वयम्, ६तत्, हे
कृष्णम्= कर्षतीति अरीन् कृष्णः, तम्, २ तत्
लोचनद्वय= लोचनयोः द्वयम्, हे, ६तत्
हरेः= हरतीति पापानि, उपपद, तस्य
अङ्घ्रियुग्म= अङ्घ्र्योः युग्मम्, ६तत्, हे
मुकुन्द-पाद-तुलसीम्= मुकुन्दस्य पादम् ६तत्, तस्मिन् स्थिता तुलसी ७तत्, ताम्
अधोक्षजम्= (अधः ज्ञातृत्वाभावात् हीनम् अक्षजं प्रत्यक्षज्ञानं यस्य सः, बहुव्रीहिः, तम्
***
॥ ॐ नमो भगवते वासुदेवाय ॥