Friday, March 15, 2024

Sri Mukundamala - 10


Deenabandhu Temple

॥ ॐ नमो भगवते वासुदेवाय ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् ।   
सुखतरमपरं न जातु जाने  हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥
Translation: Oh Mind! Never cease to revel in Hari, the slayer of Mura, endowed with lotus eyes and holding the Śaṅkha and Cakra, for I have never known anything else more delightful than the nectarine remembrance of the Lord's lotus feet!
Notes: This type of dialogue with one's mind is typical in many devotional hymns, and Bhajagovindam is a classic example. The devotee realises that his mind is his most disobedient accomplice, and he needs to school it. He advises the mind never to leave the nectarine remembrance of the Lord. Now who is speaking? It is the higher mind or the inner intelligence or Buddhi talking to the lower mind driven by external attractions. In any case, we all feel such a division in our minds all the time.  This is pithily stated in the Bhagavadgītā Ch.6 Sl.5 wherein Bhagavān urges the seeker to lift himself by his own effort of taming the mind, as the lower mind can be either an enemy or a friend of the higher mind of the seeker. 
व्याकरणांशाः
सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् ।
सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥
सरसिज-नयने, स-शङ्ख-चक्रे, मुरभिदि, मा, विरमस्व, चित्त, रन्तुम्, सुखतरम्, अपरम्, न, जातु, जाने, हरि-चरण-स्मरण-अमृतेन, तुल्यम्
सन्धयः
सुखतरम्= मोऽनुस्वारः
स्मरण+अमृतेन= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
चित्त! सरसिज-नयने स-शङ्ख-चक्रे मुरभिदि रन्तुम् मा विरमस्व सुखतरम् अपरम् हरि-चरण-स्मरण-अमृतेन तुल्यम् न जातु जाने
Oh Mind! Never cease to revel in Hari, the slayer of Mura, endowed with lotus eyes and holding the Śaṅkha and Cakra, for have never known anything else more delightful than the nectarine remembrance of the Lord's lotus feet!
सुबन्तप्रक्रिया
सरसिज-नयने, स-शङ्ख-चक्रे = अ, पुं, ७.१, ङि, आद्गुणः
मुरभिदि = द्, पुं, ७.१, ङि, वर्णमेलनम्
मा, न, जातु = अव्ययम्
चित्त = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
सुखतरम्, अपरम्, तुल्यम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
हरि-चरण-स्मरण-अमृतेन=अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
तिङन्तप्रक्रिया
जाने=ज्ञा, क्र्यादिः आत्मनेपदी (उभय), लट्, उत्तमपुरुषः, एकवचनम्
विरमस्व= वि+रम्, भ्वादिः, आत्मनेपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
रन्तुम् = रम्, तुमुन्, कृदन्तः, अव्ययम्
सरसिज-नयने= सरसि जायते सरसिजम् केवलसमासः, सरसिजमिव नयनम् उपमानपूर्वपदकर्मधारयः, नयनम् यस्य सः, तस्मिन्, बहुवृहिः
स-शङ्ख-चक्रे= शङ्खं च चक्रं च शङ्खचक्रम् समाहारद्वन्द्वः, शङ्खचक्रेण सह वर्तते, सशङ्खचक्रः, तस्मिन्, सहपूर्वपदबहुव्रीहिः
मुरभिदि= मुरं भिनत्ति, उपपदसमासः मुरभिद्, तस्मिन्
हरि-चरण-स्मरण-अमृतेन= हरेः चरणम् ६तत्, तस्य स्मरणम् ६तत्, स्मरणम् अमृतमिव उपमानोत्तरपदकर्मधारयः, तेन

***
॥ ॐ नमो भगवते वासुदेवाय ॥