Wednesday, March 20, 2024

Sri Mukundamala - 15

Kulaśekhara in Śrīraṅgam

॥ ॐ नमो भगवते वासुदेवाय ॥

मा द्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान् पदाब्जे
मा श्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् ।
मा स्मार्षं माधव त्वामपि भुवनपते चेतसाऽपह्नुवानान्
मा भूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि ॥१५॥
Translation: Oh, Mādhava! (I pray that) I shall not see those wretched souls who have no devotion to Your lotus feet, nor ever hear even attractive songs that have avoided reference to Your glories and instead contain worldly words and thoughts! Oh Lord of the world, may I never even remember those who have erased You from their minds! Also, birth after birth, I pray that I shall never be without opportunities to worship You!
Notes:  The life of a devotee in this world is not a bed of roses. It is difficult because he is surrounded by people and circumstances not conducive to his life of prayer and meditation. He is facing an onslaught of negativity, corruption and distractions. He therefore has no recourse but to pray to the one he has surrendered to, to give him the power to shun those negativities. Finally, he fears that he may be denied the opportunity to worship the Lord, which is the worst situation for him to be in! So this plaintive cry. Meera symbolises this state. 
व्याकरणांशाः
मा द्राक्षं क्षीणपुण्यान् क्षणमपि भवतो भक्तिहीनान् पदाब्जे
मा श्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् ।
मा स्मार्षं माधव त्वामपि भुवनपते चेतसाऽपह्नुवानान्
मा भूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि ॥१५॥
मा, द्राक्षम्, क्षीण-पुण्यान्, क्षणम्,अपि, भवतः, भक्ति-हीनान्, पद-अब्जे,मा श्रौषम्, श्राव्य-बन्धम्, तव, चरितम्, अपास्य, अन्यद्-आख्यान-जातम्, मा-स्मार्षम्, माधव, त्वाम्, अपि, भुवन-पते, चेतसा, अपह्नुवानान्, मा, भूवम्, त्वत् -सपर्या-व्यति-कर-रहितः, जन्म-जन्म-अन्तरे, अपि
सन्धयः
द्राक्षम्, श्रौषम्, श्राव्य-बन्धम्, स्मार्षम्, भूवम्= मोऽनुस्वारः
भवतः+भक्ति-हीनान्, रहितः+जन्म= ससजुषो रुः, हशि च, आद्गुणः
पद+अब्जे, अपास्य+अन्यद्, चेतसा+अपह्नुवानान्, जन्म+अन्तरे = अकः सवर्णे दीर्घः
अन्तरे+अपि= एङः पदान्तादति
आकाङ्क्षा-अन्वयः
माधव! क्षीण-पुण्यान् भवतः पद-अब्जे भक्ति-हीनान् क्षणम् अपि मा द्राक्षम्, श्राव्य-बन्धम् तव चरितम् अपास्य अन्यद्-आख्यान-जातम् मा श्रौषम्, भुवन-पते, त्वाम् चेतसा अपह्नुवानान् मा-स्मार्षम् अपि ! जन्म-जन्म-अन्तरे अपि त्वत् -सपर्या-व्यति-कर-रहितः मा भूवम् !
Oh, Mādhava! (I pray that) I shall not see those wretched souls who have no devotion to Your lotus feet, nor ever hear even attractive songs that have avoided reference to Your glories and instead contain worldly words and thoughts! Oh Lord of the world, may I never even remember those who have erased You from their minds! Also, birth after birth, I pray that I shall never be without opportunities to worship You!
सुबन्तप्रक्रिया
मा, अपि, क्षणम्= अव्ययम्
क्षीण-पुण्यान्, भक्ति-हीनान्, अपह्नुवानान् = अ, पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसोः नः पुंसि
भवतः= भवत्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पद-अब्जे, जन्म-जन्म-अन्तरे=अ, नपुं, ७.१, ङि, आद्गुणः
श्राव्य-बन्धम्, अन्यद्-आख्यान-जातम्=अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव = युष्मद्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
चरितम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
माधव=अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वाम्= युष्मद्, २.१, अम्, ङे प्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्ने दीर्घः, अमि पूर्वः
भुवन-पते= इ, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
चेतसा= स्, नपुं, ३.१, टा, वर्णमेलनम्
त्वत् -सपर्या-व्यति-कर-रहितः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मा अ- द्राक्षम् = दृश्, दृशिँर् प्रेक्षणे, भ्वादिः, परस्मैपदी, लुङ्, उत्तमपुरुषः एकवचनम् - विशेष सूत्रम् ३.३.१७५ माङि लुङ्, माङ् योगे ६.४.८४ - लुङ् प्रयोगे सर्वलकापापवादः (सि.कौ), अ लोपः
मा अ- श्रौषम् = स्प्क्षश्णेरु श्रवणे, भ्वादिः, परस्मैपदी, लुङ्, उत्तमपुरुषः एकवचनम् - विशेष सूत्रम् ३.३.१७५ माङि लुङ्, माङ् योगे ६.४.८४ - लुङ् प्रयोगे सर्वलकापापवादः (सि.कौ), आ लोपः
मा अ- स्मार्षम् = स्मृ चिन्तायाम्, भ्वादिः, परस्मैपदी, लुङ्, उत्तमपुरुषः एकवचनम् - विशेष सूत्रम् ३.३.१७५ माङि लुङ्, माङ् योगे ६.४.८४ - लुङ् प्रयोगे सर्वलकापापवादः (सि.कौ), अ लोपः
मा अ- भूवम् = भू सत्तायाम्, भ्वादिः, परस्मैपदी, लुङ्, उत्तमपुरुषः एकवचनम् - विशेष सूत्रम् ३.३.१७५ माङि लुङ्, माङ् योगे ६.४.८४ - लुङ् प्रयोगे सर्वलकापापवादः (सि.कौ), अ लोपः
समासाः, तद्धिताः, कृदन्ताः
अपास्य= अप+असु क्षेपणे, ल्यबन्त-अव्ययम्, कृदन्तः
क्षीण-पुण्यान्= क्षीणम् पुण्यम् कर्मधारयः, यस्य, तान् बहुव्रीहिः
भक्ति-हीनान्= भक्त्या हीनः ३तत्, तान्
पद-अब्जे= पदम् अब्जमिव कर्मधारयः, तस्मिन्
श्राव्य-बन्धम्= श्राव्यं बन्धम् कर्मधारयः, तत्
अन्यद्-आख्यान-जातम्= अन्यस्य आख्यानम् ६तत्, तं जातम् २तत्, तत्
माधव= मायाः (लक्ष्म्याः) धवः पतिः, हे, ६तत्
भुवन-पते= भुवनस्य पतिः, हे ६तत्
अपह्नुवानान्=अप + ह्नु--शानच् कृदन्तः (चोरयति)
त्वत् -सपर्या-व्यति-कर-रहितः= तव सपर्या ६तत्, तस्मिन् व्यतिकरः ७तत्, तेन रहितः ३तत्
जन्म-जन्म-अन्तरे= जन्मनः जन्म, अन्यत् जन्म, मयूरव्यंसकादि, तस्मिन्
***
॥ ॐ नमो भगवते वासुदेवाय ॥