Friday, March 29, 2024

Sri Mukundamala - 24


॥ ॐ नमो भगवते वासुदेवाय ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनो श्रीकृष्णदिव्यौषधम् ॥२४॥

Translation: Oh, mind! Take this medicine -the supreme medicine for eradicating delusory attachments to 'I and mine", the tonic that inculcates the spirit of a true ascetic, the medicine that torments our enemies (inner and outer), the medicine heralded in three worlds for its unique life-giving properties, the medicine that fosters the utmost wellbeing of a devotee, the preventive that destroys the fear of worldliness and its bondage, finally conferring our supreme wellbeing - the divine medicine called Śrī Kṛṣṇa!!!
Notes: The devotee continues his dialogue, this time with his mind. For it is the mind that controls the tongue, and calculates what is for its supreme good. The two words, Śreyas and Preyas, are important for a seeker to understand. Whereas all the worldly pleasures and hopes and aspirations come under Preyas, that is "pleasant", they may not be necessarily "good" i.e. Śreyas. In this and the previous verse, the value of Japa is shown to be supremely good. That is निश्श्रेयस्. All the pleasures of the world are in the category of Preyas and may drag the devotee down to worldly bondage. Bhakti with discipline on the other hand confers the supreme good. The power of the Lord's name on the devotee's lips and on his mind chanted constantly is incomparable and infallible in bringing the ultimate good to the devotee.


व्याकरणांशाः
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधं
दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयःप्राप्तिकरौषधं पिब मनो श्रीकृष्णदिव्यौषधम् ॥२४॥
व्यामोह-प्रशम-औषधम्, मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम्, दैत्य-इन्द्र-आर्ति-कर-औषधम्, त्रि-भुवने, सञ्जीवन-एक-औषधम्, भक्त-अति-अन्त हित-औषधम्, भव-भय-प्रध्वंसन-एक-औषधम्, श्रेयः-प्राप्ति-कर-औषधम्, पिब, मनः, श्री-कृष्ण-दिव्य-औषधम्॥२४॥
सन्धयः
औषधम् (ending in अनुस्वार)= मोऽनुस्वारः
प्रशम+औषधम्, सञ्जीवन+एक+औषधम्, हित+औषधम्, कर+औषधम्, दिव्य+औषधम्= वृद्धिरेचि
मनः+वृत्ति= ससजुषो रुः, हशि च, आद्गुणः
प्रवृत्ति+औषधम्, अति+अन्त=इको यणचि
दैत्य+इन्द्र= आद्गुणः
इन्द्र+आर्ति, भक्त-अति= अकः सवर्णे दीर्घः
श्रेयः+प्राप्ति= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
मनः व्यामोह-प्रशम-औषधम् मुनि-मनोवृत्ति-प्रवृत्ति-औषधम् दैत्य-इन्द्र-आर्ति-कर-औषधम् त्रि-भुवने सञ्जीवन-एक-औषधम् भक्त-अति-अन्त-हित-औषधम् भव-भय-प्रध्वंसन-एक-औषधम् श्रेयः-प्राप्ति-कर-औषधम् श्री-कृष्ण-दिव्य-औषधम् पिब
Oh, mind! Take this medicine -the supreme medicine for eradicating delusory attachements to 'I and mine", the tonic that inculcates the spirit fo a true ascetic, the medicine that torments our enemies (inner and outer), the medicine heralded in three worlds for its unique life-giving properties, the medicine that fosters the utmost wellbeing of a devotee, the preventive that destroys the fear of worldliness and its bondage, finally conferring our supreme wellbeing - the divine medicine called Śrī Kṛṣṇa!!!
सुबन्तप्रक्रिया
व्यामोह-प्रशम-औषधम् (so also all words ending in औषधम्) = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
त्रि-भुवने = अ, नपुं, ७.१, ङि, आद्गुणः
मनः= स्, नपुं, १.१ सम्बोधनम्, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
पिब = पा पाने, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
व्यामोह-प्रशम-औषधम्, व्यामोहं प्रशमति प्रशमनम् उपपद, प्रशमनम् औषधम् कर्मधारयः, तत्
मुनि-मनः-वृत्ति-प्रवृत्ति-औषधम्= मनसः वृत्तिः मनोवृत्तिः ६तत्, मुनेः मनोवृत्तिः ६तत्, ताम् प्रवर्तयति उपपद, प्रवृत्तिः नाम औषधम् कर्मधारयः, तत्
दैत्य-इन्द्र-आर्ति-कर-औषधम्=दैत्यानां इन्द्रः ६तत्, तस्य आर्तिः ६तत्, तां करोति, उपपद, करम् औषधम् कर्मधारयः, तत्
त्रि-भुवने= त्रयाणां भुवनानं समाहारः त्रिभुवनम् द्विगु, तस्मिन्
सञ्जीवन-एक-औषधम्= सञ्जीवनं इति ख्यातं एकं औषधम् कर्मधारयः (मध्यमपदलोपी)
भक्त-अति-अन्त हित-औषधम्= अतिक्रान्तोऽन्तः कर्मधारयः, भक्तस्य हितम् ६तत्, अत्यन्तं हितम् कर्मधारयः, हितं औषधम्, कर्मधारयः, तत्
भव-भय-प्रध्वंसन-एक-औषधम्= भवात् भयः ५तत्, तं प्रध्वंसयति उपपद, दप्रध्वंसनम् एकं औषधम् कर्मधारयः, तत्
श्रेयः-प्राप्ति-कर-औषधम्= श्रेयसः प्राप्तिः ६तत्, प्राप्तिं करोति, उपपदम्, करं औषधम्, तत् कर्मधारयः
श्री-कृष्ण-दिव्य-औषधम्= दिव्यम् औषधम् कर्मधारयः, श्रिया सह कृष्णः श्रीकृष्णः (३तत्) श्रीकृष्न इति दिव्यौषधम् सम्भावनाकर्मधारयः, तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥