Thursday, March 7, 2024

Sri Mukundamala - 6







॥ ॐ नमो भगवते वासुदेवाय ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६॥

Translation: Oh Lord, You who can end the hellish life by Your mere will! As You wish, let me live either in heaven, or on earth, or in hell! But surely,  shall meditate, even at death's door, on Your feet that put the autumnal lotus blooms to shame by their beauty!
Notes:  Now Kulaśekhara wants to make it crystal clear to the Lord Mukunda: Mukunda is the overlord of Karma dispensation, just as He can grant liberation, even from hell that one falls into as punishment for one's sins. But here, the devotee says that his fate, determined by his Karmas, may take him to heaven, hell, or rebirth on this earth. He doesn't care about it! All that he commits to is that he shall think of the Lord's lotus feet at the moment of his death. That should be sufficient redemption in all ways!
व्याकरणांशाः
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६॥
पदच्चेदः
दिवि, वा, भुवि, वा, मम,अस्तु, वासः, नरके, वा, नरक-अन्तक, प्रकामम्, अवधीरित-शारद-अरविन्दौ, चरणौ, ते, मरणे,अपि, चिन्तयामि
सन्धयः
मम+अस्तु, नरक+अन्तक, शारद+अरविन्दौ= अकः सवर्णे दीर्घः
वासः+नरके= ससजुषो रुः, हशि च, आद्गुणः
मरणे+अपि= एङः पदान्तादति
आकाङ्क्षा-अन्वयः
नरक-अन्तक! प्रकामम् दिवि वा भुवि वा नरके वा मम वासः अस्तु! ते अवधीरित-शारद-अरविन्दौ चरणौ मरणे अपि चिन्तयामि।
Oh Lord who can end the hellish life by Your mere will, as You wish, let me live either in heaven, or on earth, or in hell! In Your feet that in comparison put the wintry lotus blooms to shame by their beauty, shall I constantly meditate, even at death's door!
सुबन्तप्रक्रिया
दिवि = व्, स्त्री, ७.१, ङि, वर्णमेलनम्
वा, प्रकामम्, अपि= अव्ययम्
भुवि = ऊ, स्त्री, ७.१, ङि, अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, वर्णमेलनम्
मम = अस्मद्, ६.१,ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
वासः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नरके= अ, पुं, ७.१, ङि, वर्णमेलनम्
नरक-अन्तक= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
अवधीरित-शारद-अरविन्दौ, चरणौ= अ, पुं, २.१, औट्, वृद्धिरेचि
ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
मरणे = अ, नपुं, ७.१, ङि, वर्णमेलनम्
तिङन्तप्रक्रिया
अस्तु = अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
चिन्तयामि =चिन्त्, चुरादिः, परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नरक+अन्तक=नरकस्य अन्तः ६तत्, नकरान्तः एन सः, कप्, बहुव्रीहिः. हे
प्रकामम्= प्रकृष्टः कामः, प्रकामः कर्मधारयः, प्रकाममनुसृत्य = प्रकामम्, अव्ययीभावः
अवधीरित-शारद-अरविन्दौ= शारदस्य (कालस्य) अरविन्दम् ६तत्, अरविन्दम् अवद्ःइरितं येन सः, अवधीरितशारदारविन्दः, तौ (द्वितीया), बहुव्रीहिः
***
॥ ॐ नमो भगवते वासुदेवाय ॥