Monday, March 4, 2024

Sri Mukundamala -3

 



॥ ॐ नमो भगवते वासुदेवाय ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥३॥

Translation: Oh, Mukunda! Touching down with my forehead, I beg of You, exclusively, this boon alone- By Your compassion, may I have undistracted remembrance of Your lotus feet, constantly, and birth after birth!
Notes: The devotee, Kulaśekhara, now prays to Mukunda. What is his prayer? Not worldly gain. Not lordship over the world of men and matter. Not even liberation! In fact, he prays exclusively, plaintively, for only the constant remembrance of the Lord's lotus feet in utter devotion. For, a devotee knows deep within that constant immersion in the Love of the Lord exceeds even Mukti as it is but an empty state when shorn of the Love of God.  The word Avismṛti has to be understood as the freedom from worldly thoughts and attachments which detract one from constant immersion in the remembrance of the Lord. As Kabir says, "What is the use of constantly uttering the Lord's name on your lips, turning the rosary beads, when the mind is busy wandering all over the marketplace?" The poet stresses that he does not mind being born again and again in Samsāra, as long as he has by Mukunda's grace the constant, undistracted, remembrance of the Lord's lotus feet. 

व्याकरणांशाः
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥३॥
पदच्चेदः
मुकुन्द, मूर्ध्ना, प्रणिपत्य, याचे, भवन्तम्, एकान्तम्, इयन्तम्, अर्थम्, अविस्मृतिः, त्वत्-चरण-अरविन्दे, भवे, भवे, मे, अस्तु, भवत्-प्रसादात्
सन्धयः
अविस्मृतिः+त्वत्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
त्वत्+चरण= झलां जश् झशि, स्तोः श्चुना स्च्चुः
चरण +अरविन्दे= अकः सवर्णे दीर्घः
भवत्+प्रसादात्=झलां जश् झाशि, खरि च
मे+अस्तु= एङः पदान्तादति
आकाङ्क्षा-अन्वयः
मुकुन्द! मूर्ध्ना प्रणिपत्य, भवन्तम् एकान्तम् इयन्तम् अर्थम् याचे = भवत्-प्रसादात् त्वत्-चरण-अरविन्दे अविस्मृतिः भवे भवे मे अस्तु
Oh, Mukunda! Touching down with my forehead, I beg of You, exclusively, this boon alone- By Your compassion, may I have undistracted remembrance of Your lotus feet, constantly, and birth after birth!
सुबन्तप्रक्रिया
मुकुन्द = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मूर्ध्ना= न्, पुं, ३.१, टा, अल्लोपोऽनः, वर्णमेलनम्
भवन्तम्, इयन्तम्= त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
एकान्तम्= अव्ययः
अर्थम्= अ, पुं, २.१, अम्, अमि पूर्वः
अविस्मृतिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वत्-चरण-अरविन्दे, भवे= अ, नपुं, ७.१, ङि, वर्णमेलनम्
मे = अस्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
भवत्-प्रसादात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः
तिङन्तप्रक्रिया
याचे= याच्, भ्वादिः, आत्मनेपदी (उभय), लट्, उत्तमपुरुषः, एकवचनम्
अस्तु = अस्, अदादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
प्रणिपत्य = अव्ययः, प्र+नि+पत्, ल्यबन्तः
मुकुन्द= मुकं ददाति, उपपदसमासः, हे
अविस्मृतिः= विरुद्धा स्मृतिः कर्मधारयः, नञ् विस्मृतिः = नञ्तत्पुरुषः
त्वत्-चरण-अरविन्दे= तव चरणम् ६तत्, त्वत्चरणम् अरविन्दमिव उपमानोत्तरपदकर्मधारयः, तस्मिन्
मुकुन्द, मूर्ध्ना, प्रणिपत्य, याचे, भवन्तम्, एकान्तम्, इयन्तम्, अर्थम्, अविस्मृतिः, त्वत्-चरण-अरविन्दे, भवे, भवे, मे, अस्तु, भवत्-प्रसादात्
भवत्-प्रसादात्= भवतः प्रसादः, तस्मात् ६तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥