व्याकरणांशाः |
हे लोकाश्शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञास्समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः। |
अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधम् वितनुते निर्वाणमात्यन्तिकम् ॥१७॥ |
हे, लोकाः, शृणुत, प्रसूति-मरण-व्याधेः, चिकित्साम्, इमाम्, योगज्ञाः, समुदाहरन्ति, मुनयः, याम्, याज्ञवल्क्य-आदयः, अन्तर्ज्योतिः, अमेयम्, एकम्, अमृतम्, कृष्ण-आख्यम्पी, आपीयताम्, तत्पीतम्, परम-औषधम्, वितनुते, निर्वाणम्, आत्यन्तिकम् |
सन्धयः | | | | | |
लोकाः+शृणुत, व्याधेः+चिकित्साम्=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः |
इमाम्, याम्, अमृतम्,आपीयताम्, तत्पीतम्= मोऽनुस्वारः |
योगज्ञाः+समुदाहरन्ति=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः |
मुनयः+याम्= ससजुषो रुः, हशि च, आद्गुणः |
याज्ञवल्क्य+आदयः, कृष्ण+आख्यम्= अकः सवर्णे दीर्घः |
परम+औषधम्=वृद्धिरेचि |
आकाङ्क्षा-अन्वयः | | | | |
हे लोकाः! इमाम् प्रसूति-मरण-व्याधेः चिकित्साम् याम् योगज्ञाः मुनयः याज्ञवल्क्य-आदयः समुदाहरन्ति शृणुत! अन्तर्ज्योतिः अमेयम् एकम् अमृतम् कृष्ण-आख्यम् आपीयताम्!इमाम् तत्पीतम् परम-औषधम् वितनुते निर्वाणम् आत्यन्तिकम् |
Oh, people who have seen this world, come and listen to what is the supreme medicine for the ill of the birth-and-death cycle, discovered and expounded by great Yogi ascetics like Sage Yājñavalkya! The Inner Light, the inestimable singular ambrosia called Kṛṣṇa should be consumed (as meedicine)! Once this supreme medicine is consumed, it confers the ultimate liberation! |
सुबन्तप्रक्रिया | | | | |
हे लोकाः =अ, पुं, १.३ सम्बोधनम्, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
प्रसूति-मरण-व्याधेः= इ, पुं,६.१, ङस्, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
चिकित्साम्= आ, स्त्री, २.१, अम्, अमि पूर्वः |
इमाम्= इदम् सर्वनामस्थान स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, दश्च, अमि पूर्वः |
योगज्ञाः= अ, पुं, १.३ जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मुनयः, याज्ञवल्क्य-आदयः=इ, पुं, १.३, जस्, जसि च, एचोऽयनायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
याम्= यद्, सर्वनाम स्त्री, २.१, अम्, त्यदादीनामः, अतो गुणे, आजाद्यतष्टाप्, अकः सवर्णे दीर्घः, अमि पूर्वः |
अन्तर्ज्योतिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
अमेयम्, एकम्, अमृतम्, कृष्णाख्यम्, निर्वाणम्, आत्यन्तिकम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः |
तत्पीतम्, परम-औषधम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
शृणुत= श्रु, श्रवणे, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, बहुवचनम् |
वितनुते= वि+तनुते, तनुँ विस्तारे, तनादिः, आत्मनेपदी(उभय), लट्, प्रथमपुरुषः, एकवचनम् |
समुदाहरन्ति= सम्+उद्+आङ्+हृञ् हरणे, भ्वादिः, परस्मैपदी (उभय), लट्, प्रथमपुरुषः, एकवचनम् |
आपीयताम्= आङ्+पा पाने,भ्वादिः, भावकर्मणोः, आत्मनेपदी, लोट्, प्रथमपुरुषः, बहुवचनम् |
समासाः, तद्धिताः, कृदन्ताः | | | |
प्रसूति-मरण-व्याधेः=प्रसूतिश्च मरणं च, प्रसूतिमरणम्, समाहारद्वन्द्वम्, तस्य व्याधिः, तस्य ६तत् |
याज्ञवल्क्य-आदयः= याज्ञवल्क्यः आदिः यस्य सः, ते, समानाधिकरणबहुव्रीहिः |
अन्तर्ज्योतिः= अन्तः सती ज्योतिः, उपपदसमासः |
अमेयम्= न मातुं शक्यः, तम् - नञ् तत्पुरुषः कृदन्तः |
हे, लोकाः, शृणुत, प्रसूति-मरण-व्याधेः, चिकित्साम्, इमाम्, योगज्ञाः, समुदाहरन्ति, मुनयः, याम्, याज्ञवल्क्य-आदयः, अन्तर्ज्योतिः, अमेयम्, एकम्, अमृतम्, कृष्ण-आख्यम्पी, आपीयताम्, तत्पीतम्, परम-औषधम्, वितनुते, निर्वाणम्, आत्यन्तिकम् |
हे, लोकाः, शृणुत, प्रसूति-मरण-व्याधेः, चिकित्साम्, इमाम्, योगज्ञाः, समुदाहरन्ति, मुनयः, याम्, याज्ञवल्क्य-आदयः, अन्तर्ज्योतिः, अमेयम्, एकम्, अमृतम्, कृष्ण-आख्यम्पी, आपीयताम्, तत्पीतम्, परम-औषधम्, वितनुते, निर्वाणम्, आत्यन्तिकम् |
अमृतम्=न म्रियन्तेऽनेन बहिव्रीहिः |
कृष्ण-आख्यम् = कृष्ण इति आख्यातम् कर्मधारयः |
हे, लोकाः, शृणुत, प्रसूति-मरण-व्याधेः, चिकित्साम्, इमाम्, योगज्ञाः, समुदाहरन्ति, मुनयः, याम्, याज्ञवल्क्य-आदयः, अन्तर्ज्योतिः, अमेयम्, एकम्, अमृतम्, कृष्ण-आख्यम्पी, आपीयताम्, तत्पीतम्, परम-औषधम्, वितनुते, निर्वाणम्, आत्यन्तिकम् |
परम-औषधम्= परमं औषधम् कर्मधारयः |
आत्यन्तिकम् = अन्तस्य अत्ययः यस्य तत् कप् बहुव्रीहिः |