Monday, March 18, 2024

Sri Mukundamala - 13

Muktinath, Gandaki River, Nepal

॥ ॐ नमो भगवते वासुदेवाय ॥

भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मास्मगाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥१३॥
Translation: Oh, my reasoning mind, thinking,"how should I cross over this intractable deep ocean of worldliness", do not resort to despair. Your devotion placed in the One (Hari) with His lotus eyes, the one who is the Destroyer of hell, iscertainly sufficient alone to make you cross this ocean!
Notes: The devotee does not let his mind think itself into despondency, looking at the enormity of crossing this ocean of worldliness described already. After all, Bhakti is supremely powerful, and it is the Lord who takes the devotee across the ocean, nothing else!

व्याकरणांशाः
भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मास्मगाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥१३॥
भवजलधिम्, अगाधम्, दुस्तरम्, निस्तरेयम्, कथम्, अहम्, इति, चेतः, मा स्म गाः, कातरत्वम्, सरसिजदृशि, देवे, तावकी, भक्तिः,एका, नरक-भिदि, निषण्णा, तारयिष्यति, अवश्यम्
सन्धयः
अगाधम्, दुस्तरम्, निस्तरेयम्= मोऽनुस्वारः
चेतः+ मा= ससजुषो रुः, हशि च, आद्गुणः
भक्तिः+एका= ससजुषो रुः
तारयिष्यति+अवश्यम्= इको यणचि
आकाङ्क्षा-अन्वयः
चेतः!अगाधम् दुस्तरम् भवजलधिम् अहम् कथम् निस्तरेयम् इति कातरत्वम् मा स्म गाः! सरसिजदृशि नरक-भिदि देवे तावकी निषण्णा भक्तिः एका अवश्यम् तारयिष्यति!
Oh, my reasoning mind, thinking,"how should I cross over this intractable deep ocean of worldliness", do not resort to despair. Your devotion placed in the One (Hari) with His lotus eyes, the Destroyer of hell, is alone sufficient to make you cross this ocean, certainly!
सुबन्तप्रक्रिया
भवजलधिम् = इ, पुं, २.१, अम्, अमि पूर्वः
अगाधम्, दुस्तरम्= अ, पुं, २.१, अम्, अमि पूर्वः
कथम्, इति, मा, स्म, अव्श्यम्, = अव्ययम्
अहम्= अस्मद्, १.१, सुँ, ङेप्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
चेतः= स्, नपुं, १.१ सम्बोधनम्, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कातरत्वम्= अ, नपुं, २.१,अम्, अतोऽम्, अमि पूर्वः
सरसिजदृशि= श्, पुं, ७.१, ङि, वर्णमेलनम्
देवे= अ, पुं, ७.१, ङि, आद्गुणः
तावकी= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
भक्तिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एका= आ, सर्वनाम, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
नरक-भिदि= द्, पुं, ७.१, ङि, वर्णमेलनम्
निषण्णा= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तिङन्तप्रक्रिया
निस्तरेयम्= निस्, तॄ तॄ प्लवनतरणयोः, भ्वादिः, परस्मैपदी, विधिलिङ्, उत्तमपुरुषः, एकवचनम्
मा स्म गाः= मा+स्म+ ई इण् गतौ, अदादिः, परस्मैपदी, लुङ्, मध्यमपुरुषः, एकवचनम् (३.३.१७५ माङि लुङ्, ६.४.७४ न माङयोगे)
तारयिष्यति= तॄ प्लवनतरणयोः, भ्वादिः, परस्मैपदी, णिजन्तः, लृट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
भवजलधिम्= भव एव जलधिः, तम् अवधारनाकर्मधारयः
दुस्तरम्= दुःखेन तरितम् दुस् + तॄ (प्लवनतरणयोः)'खल्' (३-३-१२६), तम्
सरसिजदृशि= सरसि जायते (उपपद) सरसिजमिव दृश् उपमानपूर्वपदकर्मधारयः, सरसिजदृश् यस्य सः, बहुव्रीहिः, तस्मिन्

***
॥ ॐ नमो भगवते वासुदेवाय ॥