Tuesday, March 19, 2024

Sri Mukundamala - 14





॥ ॐ नमो भगवते वासुदेवाय ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले 
दारावर्ते तनयसहजग्राहसङ्घाकुले च।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् 
पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥१४॥
Translation: Oh, gracious boon-giving Lord of the three worlds! To us who are drowning in this ocean called Saṃsāra, which is full of the waters called sense-craving, with high waves raised in rows by the wind called lust, with whirlpools called the wife/sexual partner, with schools of sharks in the form of children, siblings and relatives, PLEASE give us the boat of Bhakti to Your lotus feet!
Notes:  We have been using the term, "the ocean of worldliness". What does it mean? This shloka explains it. This world that we see and experience is entirely through the lens of our desires and cravings. So the reality is highly subjective. The first force that buffets us is lust. It is famously stated that lust is a trick played on all species by Nature to perpetuate itself. Lust is such a force that almost none escapes it unless we receive the Guru's or Almighty's grace. The logical result is family - my people, my wife and so on. All strong bonds that tie us down. The craving for wealth, name, fame and so on is only in the hope we can share and enjoy all that in the company of our near and dear ones - forgetting that human life is but a soap bubble ready to burst anytime making us lose all that we are attached to! Naturally, the devotee becomes desperate and prays for Bhakti. Bhakti then becomes a kind of boat to navigate the waters of Saṃsāra. We are in the world, with ostensibly all attachments, but, really, we are safe and detached. Why? Because our life is one full of Bhakti, whose power has been extolled in all the verses before. 
व्याकरणांशाः
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥१४॥
तृष्णा-तोये, मदन-पवन-उद्धूत-मोह-ऊर्मि-माले, दारा-वर्ते, तनय-सहज-ग्राह-सङ्घ-आकुले, च, संसार-आख्ये, महति, जलधौ, मज्जताम्, नः,त्रिधामन्, पाद-अम्भोजे, वरद, भवतः, भक्ति-नावम्, प्रयच्छ
सन्धयः
पवन+उद्धूत, मोह+ऊर्मि=आद्गुणः
दारा+आवर्ते, सङ्घ-आकुले, संसार-आख्ये, , पाद-अम्भोजे=अकः सवर्णे दीर्घः
मज्जताम्, भक्ति-नावम् = मोऽनुस्वारः
नः+त्रिधामन्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
भवतः+भक्ति= ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
वरद, त्रिधामन्! तृष्णा-तोये मदन-पवन-उद्धूत-मोह-ऊर्मि-माले दारा-वर्ते तनय-सहज-ग्राह-सङ्घ-आकुले च संसार-आख्ये महति जलधौ मज्जताम् नः भवतः पाद-अम्भोजे भक्ति-नावम् प्रयच्छ
Oh, gracious boon-giving Lord of the three worlds! To us who are drowning in this ocean called Saṃsāra, which is full of the waters called sense-craving, with high waves raised in rows by the wind called lust, with whirlpools called wife/sexual partner, with schools of sharks in the form of children,siblings and relatives, PLEASE give us the boat of Bhakti to Your lotus feet!
सुबन्तप्रक्रिया
तृष्णा-तोये, मदन-पवन-उद्धूत-मोह-ऊर्मि-माले, दारा-आवर्ते, तनय-सहज-ग्राह-सङ्घ-आकुले, पाद-अम्भोजे= अ,नपुं, ७.१, ङि, आद्गुणः
च = अव्ययम्
संसार-आख्ये= अ, पुं, ७.१, ङि, आद्गुणः
महति= त्, पुं, ७.१, ङि, वर्णमेलनम्
जलधौ= इ, पुं, ७.१, ङि, अच्च घेः, अच्च घेः, वृद्धिरेचि
मज्जताम्=त्, पुं, ६.३, आम्, वर्णमेलनम्
नः= अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ
त्रिधामन्= न्, १.१ सम्बोधनम्, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, न ङिसम्बुद्ध्योः
वरद= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
भवतः= त्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
भक्ति-नावम्= औ, स्त्री, २.१, अम्, एचोऽयनायावः
तिङन्तप्रक्रिया
प्रयच्छ = प्र+ दाण् दाने, भ्वादिः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
तृष्णा-तोये= तृष्णा एव तोयम् , अवधारणाकर्मधारयः, यस्य सः जलधिः बहुव्रीहिः, तस्मिन्
मदन-पवन-उद्धूत-मोह-ऊर्मि-माले= मदनः एव पवनः, अवधारणाकर्मधारयः, तेन उद्धूत्म्, ३तत्, मोह एव ऊर्मिः, अवधारणाकर्मधारयः, ऊर्मेः माला, ६तत्, माला , यस्य सः जलधिः बहुव्रीहिः, तस्मिन्
दारा-आवर्ते= दारा एव आवर्तः, अवधारणाकर्मधारयः, यस्य सः जलधिः बहुव्रीहिः, तस्मिन्
तनय-सहज-ग्राह-सङ्घ-आकुले= तनयश्च, सहजश्च= द्वन्द्वः, तौ एव ग्राहौ, अवधारणाकर्मधारयः, ग्राहस्य सङ्घः ६तत् आकुलः, कर्मधारयः, यस्य सः जलधिः बहुव्रीहिः, तस्मिन्
संसार-आख्ये= संसार इति आख्यः कर्मधारयः
जलधौ= जलानि धीयन्तेऽत्र ७ तत्, तस्मिन्
त्रिधामन्= त्रीणि धामनि द्विगु, त्रिधाम यस्य सः, हे, बहुव्रीहिः
पाद-अम्भोजे= पादमम्भोजमिवुपमानकर्मधारयः, तस्मिन्
वरद= वरं ददाति, उपपद, हे
भक्ति-नावम्= भक्तिः एव नौ, ताम्, अवधारणा-कर्मधारयः

***
॥ ॐ नमो भगवते वासुदेवाय ॥