Wednesday, March 27, 2024

Sri Mukundamala - 22



॥ ॐ नमो भगवते वासुदेवाय ॥

भक्तापायभुजङ्गगारुडमणिः त्रैलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥२२॥
Translation: May that Supreme Jewel capable of warding off any danger in this world for a true devotee (like the Gāruḍamaṇi - the supreme antidote for snakebite), indeed the One who is the Supreme Protector for the denizens in the three worlds, the Only One who can bring the shower of grace to quench the yearning of Gopīs like the nascent raindrops in the sky quenching the thirst of Cātaka birds that settle for nothing else, the Jewel standard for beauty, the one Jewel who adorns exclusively the ample bosom (heart) of His beloved consort Rukmiṇī, the Lord who is the Supreme Crest jewel of gods as well as the Jewel i.e. Śrī Kṛṣṇa lording over Gopālas in Gokula, confer on us our true wellbeing and prosperity!
Notes: Gems and jewels hold a fascination and attraction for all of us for their beauty and rarity, and even carry mystical symbolism in our Dharma. Here the devotee says that the only Jewel or Gem he needs is the Lord Himself, with His omnipotence, beauty, lovability and grace. 

व्याकरणांशाः
भक्तापायभुजङ्गगारुडमणिः त्रैलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥२२॥
भक्त-अपाय-भुजङ्ग-गारुड-मणिः, त्रैलोक्य-रक्षा-मणिः, गोपी-लोचन-चातक-अम्बुद-मणिः, सौन्दर्य-मुद्रा-मणिः, यः, कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः, श्रेयः, देव-शिखा-मणिः, दिशतु, नः, गोपाल-चूडामणिः
सन्धयः
भक्त+अपाय, चातक+अम्बुद = अकः सवर्णे दीर्घः
-मणिः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यः+ कान्ता= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
श्रेयः+देव-शिखा-मणिः, नः+गोपाल-चूडामणिः= ससजुषो रुः, हशि च, आद्गुणः
द्वन्द्व+एक=एचोऽयवायावः
आकाङ्क्षा-अन्वयः
भक्त-अपाय-भुजङ्ग-गारुड-मणिः त्रैलोक्य-रक्षा-मणिः गोपी-लोचन-चातक-अम्बुद-मणिः सौन्दर्य-मुद्रा-मणिः यः कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः श्रेयः देव-शिखा-मणिः दिशतु नः गोपाल-चूडामणिः
May that Supreme Jewel capable of warding off any danger in this world for a true devotee (like the Gāruḍamaṇi - the supreme antidote for snakebite), indeed the One who is the Supreme Protector for the denizens in the three worlds, the Only One who can bring the shower of grace to quench the yearning of Gopīs like the nascent raindrops in the sky quenching the thirst of Cātaka birds that settle for nothing else, the Jewel standard for beauty, the one Jewel who adorns exclusively the ample bosom (heart) of His beloved consort Rukmiṇī, the Lord who is the Supreme Crest jewel of gods as well as the Jewel i.e. Śrī Kṛṣṇa lording over Gopālas in Gokula, confer on us our true wellbeing and prosperity!
सुबन्तप्रक्रिया
-मणिः (all words ending with मणिः)= इ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यः = यद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
श्रेयः = स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः = अस्मद्, ६.३, आम्, अन्वादेशे बहुवचनस्य वस्नसौ
तिङन्तप्रक्रिया
दिशतु = दिशँ अतिसर्जने, तुदादिः, परस्मैपदी, (उभय), लोट्, प्रत्हमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
भक्त-अपाय-भुजङ्ग-गारुड-मणिः= भुजङ्ग इव अपायः (उपमान कर्मधारयः), तस्य निर्मूलने गारुडः मणिः (कर्मधारयः), मध्यमपदलोपी, भक्तस्य साहाय्ये मणिः ६तत् (मणिरिव मम ईष्टः कर्मधारयः)
त्रैलोक्य-रक्षा-मणिः= त्रिलोकानां यत् तद्धितः, तस्य रक्षा ६तत्, रक्षा नाम मणिः, कर्मधारयः
गोपी-लोचन-चातक-अम्बुद-मणिः= गोपीनां लोचनानां कृते मणिः (६तत्) चातकस्य कृते अम्बुद इव (कर्मधारयः), कर्मधारयः (मणिरिव मम ईष्टः कर्मधारयः)
सौन्दर्य-मुद्रा-मणिः= सौदर्यस्य मापने उपयुक्ता मुद्रा मणिः, मध्यमपदलोपी, (मणिरिव मम ईष्टः कर्मधारयः)
कान्ता-मणि-रुक्मिणी-घन-कुच-द्वन्द्व-एक-भूषा-मणिः= कान्ता एव मणिः कर्मधारयः, मणिः रुक्मिणी, कर्मधारयः, तस्याः ६तत् घनं कुचद्वन्द्वम् कर्मधारयः (द्वयोः कुचयोः समाहारः कुचद्वन्द्वम् द्विगु), तस्य कृते एका भूषा मणिः कर्मधारयः (मणिरिव मम ईष्टः कर्मधारयः)
देव-शिखा-मणिः = शिखायाः मणिः ६तत्, देवानां शिखामणिः ६तत्, (मणिरिव मम ईष्टः कर्मधारयः)
गोपाल-चूडामणिः= गां पालयति, उपपद, गोपालानां ६तत् चूडायाः मणिः ६तत् (मणिरिव मम ईष्टः कर्मधारयः)
***
॥ ॐ नमो भगवते वासुदेवाय ॥