Showing posts with label Sri Krishna Karnamritam. Show all posts
Showing posts with label Sri Krishna Karnamritam. Show all posts

Friday, August 22, 2025

Sri Krishna Karnamritam 2.108







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्थुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०८ ॥  

Meaning: That crest-jewel of cowherds, Śrīkṛṣṇa, sporting the Kastūrītilaka on his forehead, Kaustubha gem on his chest, the pearl ornament at the end of his nose (an ancient adornment), a bamboo flute in his hand, bracelets on his wrists, anointed with red sandal paste all over, a beautiful pearl necklace around his neck, and surrounded by Gopīs, is resplendent!
व्याकरणांशाः
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्थुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०९ ॥
कस्तूरी-तिलकम्, ललाट-फलके, वक्षः-स्थले, कौस्थुभम्, नास+अग्रे, नव-मौक्तिकम्, कर-तले, वेणुम्, करे, कङ्कणम्, सर्वाङ्गे, हरिचन्दनम्, च, कलयन्, कण्ठे, च, मुक्तावलिम्, गोपस्त्री-परि-वेष्टितः, विजयते, गोपाल-चूडामणिः
सन्धयः
कस्तूरी-तिलकम्, कौस्थुभम्, नव-मौक्तिकम्, वेणुम्, हरिचन्दनम्, मुक्तावलिम् = मोऽनुस्वारः
वक्षः-स्थले = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि
गोपस्त्री-परि-वेष्टितः + विजयते = ससजुषो रुः, हशि च, आद्गुणः
गोपाल-चूडामणिः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
गोपाल-चूडामणिः कस्तूरी-तिलकम् ललाट-फलके वक्षः-स्थले कौस्थुभम् नास+अग्रे नव-मौक्तिकम् कर-तले वेणुम् करे कङ्कणम् सर्वाङ्गे हरिचन्दनम् च कण्ठे च मुक्तावलिम् कलयन् गोपस्त्री-परि-वेष्टितः विजयते
That crest-jewel of cowherds, Śrīkṛṣṇa, sporting the Kastūrītilaka on his forehead, Kaustubha gem on his chest, the pearl ornamemnt at the end of his nose (an ancient adornment), a bamboo flute in his hand, bracelets on his wrists, anointed with red sandal paste all over, a beautiful pearl necklace around his neck, and surrounded by Gopīs is resplendent!
सुबन्तप्रक्रिया
कस्तूरी-तिलकम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः
ललाट-फलके = अकारान्त पुं, ७.१, ङि, आद्गुणः
वक्षः-स्थले= अकारान्त नपुं, ७.१, ङि, आद्गुणः
कौस्थुभम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः
नास+अग्रे= अकारान्त पुं, ७.१, ङि, आद्गुणः
नव-मौक्तिकम् = अकारान्त नपुं, २.१ अम्, अमि पूर्वः
कर-तले= अकारान्त नपुं, ७.१, ङि, आद्गुणः
वेणुम् = उकारान्त पुं, २.१ अम्, अमि पूर्वः
करे= अकारान्त पुं, ७.१, ङि, आद्गुणः
कङ्कणम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
सर्वाङ्गे= अकारान्त पुं, ७.१, ङि, आद्गुणः
हरिचन्दनम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः
च = अव्ययम्
कण्ठे= अकारान्त पुं, ७.१, ङि, आद्गुणः
मुक्तावलिम्= इकारान्त स्त्री, २.१ अम्, अमि पूर्वः
गोपस्त्री-परि-वेष्टितः = अकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कलयन् = तकारान्त पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः
गोपाल-चूडामणिः= इकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विजयते = वि+ जि जये भ्वादिः, अकर्मकः, अनिट्, परस्मैपदी-> आत्मनेपदी वि उपसर्गयोगे, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
कलयन् = कल गतौ, सङ्ख्याने च, चुरादिः, शानच् कृदन्तः, प्रथमा विभक्तिः, एकवचनम्, कलयत्.
कस्तूरी-तिलकम् = कस्तूर्याः तिलकः, तम्, ६तत्
ललाट-फलके = ललाटस्य फलकः, तस्मिन् ६तत्
वक्षः-स्थले= वक्षसः स्थलं, तस्मिन्, ६तत्
नास+अग्रे= नासस्य अग्रः, तस्मिन् ६तत्
नव-मौक्तिकम् = नवं, मौक्तिकम्, तम्, कर्मधारयः
कर-तले= करस्य तलम्, तस्मिन्, ६तत्
गोपस्त्रीपरिवेष्टितः = गोपानां स्त्रियः ६तत्, ताभिः परिवेष्टितः ३तत्
॥ हरिः ॐ तत् सत् ॥




PS; Attended a beautiful dance programme at BIC called Deva Nartana. The Dashavataram dance was concluded by the four dancers dancing together to this shloka! Hare Krishna!

Sunday, May 4, 2025

Sri Krishna Karnamritam 1.73





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुराननशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३ ॥  


Meaning: That phenomenon - our experiencing Bhagavān Ṣrīkṛṣṇa - is this, the ultimate good fortune showered on Vraja! How do we say this? This is how - it provokes the ultimate craving in us for this joy (nothing else as a temptation compares)...and it fulfills that craving like nothing else; it is the display of greatest cleverness on display; it is Brahma's magnum opus in creation - a perfect being; it is the most fragrant experience in terms of an ethereal fulfilment; it is the greatest example of an assembly for celebrations among living beings; and it is the manifestation of Goddess Lakshmi herself in terms of its abundance of grace and joy!

व्याकरणांशाः
चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुराननशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३ ॥
चापल्य-सीम, चपल+अनुभव+एक-सीम, चातुर्य-सीम, चतुर+आनन-शिल्प-सीम, सौरभ्य-सीम, सकल+अद्भुत-केलि-सीम, सौभाग्य-सीम, तद्, इदम्, व्रज-भाग्य-सीम
सन्धयः
चपल+अनुभव = अकः सवर्णे दीर्घः
अनुभव+एक = वृद्धिरेचि
चतुर+आनन = अकः सवर्णे दीर्घः
सकल+अद्भुत = अकः सवर्णे दीर्घः
तद्+इदम् = झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
तद् इदम् व्रज-भाग्य-सीम चापल्य-सीम चपल+अनुभव+एक-सीम चातुर्य-सीम चतुर+आनन-शिल्प-सीम सौरभ्य-सीम सकल+अद्भुअकेलि-सीम सौभाग्य-सीम
That phenomenon - our experiencing Bhagavān Ṣrīkṛṣṇa - is this, the ultimate good fortune showered on Vraja! How do we say this? This is how - it provokes the ultimate craving in us for this joy (nothing else as a temptation compares)...and it fulfills that craving like nothing else; it is the display of greatest cleverness on display; it is Brahma's magnum opus in creation - a perfect being; it is the most fragrant experience in terms of an ethereal fulfilment; it is the greatest example of an assembly for celebrations among living beings; and it is the manifestation of Goddess Lakshmi herself in terms of its abundance of grace and joy!
सुबन्तप्रक्रिया
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम्= इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
चापल्य-सीम = न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
चपल+अनुभव+एक-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
चातुर्य-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
चतुर+आनन-शिल्प-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
सौरभ्य-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
सकल+अद्भुत-केलि-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
सौभाग्य-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
व्रज-भाग्य-सीम= न्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
तिङन्तप्रक्रिया
(अस्ति) अध्याहारः = असँ भुवि, अदादिः, परस्मैपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
चापल्य-सीम = चपलस्य भावः ष्यञ् तद्धितः, तस्य सीम ६तत्
चपल+अनुभव+एक-सीम= चपलस्य अनुभवः ६तत्, तस्य ६तत् एकं सीम क.धा
चातुर्य-सीम= चतुरस्य भावः ष्यञ् तद्धितः, तस्य सीम ६तत्
चतुर+आनन-शिल्प-सीम= चत्वारि आननानि यस्य सः बहुव्रीहिः, तस्य शिल्पम् ६तत्, तस्य सीम ६तत्
सौरभ्य-सीम= सुरभेः भावः ष्यञ् तद्धितः, तस्य सीम ६तत्
सकल+अद्भुत-केलि-सीम= सकलानि अद्भुतानि क.धा, तेषां केलिः ६तत्, तस्य सीम ६तत्
सौभाग्य-सीम= सुभगस्य भावः ष्यञ् तद्धितः, तस्य सीम ६तत्
व्रज-भाग्य-सीम= व्रजस्य भाग्यः ६तत्, तस्य सीम ६तत्
॥ हरिः ॐ तत् सत् ॥

t

Thursday, May 1, 2025

Sri Krishna Karnamritam 1.72






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ १.७२ ॥ 


Meaning: That phenomenon is this - Bhagavān Ṣrīkṛṣṇa - coming near me, dark like the Tamāla tree leaves, the corners of His eyes that dart hither and thither so delightful, His ever-smiling face a mirror image of the full moon, infusing ecstatic life into the melody of the flute pressed to His mouth!


व्याकरणांशाः
तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ १.७२ ॥
तद्, इदम्, उपनतम्, तमाल-नीलम्, तरल-विलोचन-तारक+अभिरामम्, मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्, मुखरित-वेणु-विलास-जीवितम्, मे
सन्धयः
तद्+इदम् = झलां जशोऽन्ते
उपनतम्, तमाल-नीलम्, मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्, मुखरित-वेणु-विलास-जीवितम् = मोऽनुस्वारः
तारक+अभिरामम् = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
तद् इदम् उपनतम् तमाल-नीलम् तरल-विलोचन-तारक+अभिरामम् मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम् मुखरित-वेणु-विलास-जीवितम् मे
That phenomenon is this - Bhagavān Ṣrīkṛṣṇa - coming near me, dark like the Tamāla tree leaves, the corners of His eyes that dart hither and thither so delightful, His ever-smiling face a mirror image of the full moon, infusing ecstatic life into the melody of the flute pressed to His mouth!
सुबन्तप्रक्रिया
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम्= इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
उपनतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
तमाल-नीलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
तरल-विलोचन-तारक+अभिरामम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मुखरित-वेणु-विलास-जीवितम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वं
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्ब्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
तमाल-नीलम्= तमाल इव नीलः वर्णः यस्य तत्, उपमानबहुव्रीहिः
तरल-विलोचन-तारक+अभिरामम्= तरले विलोचने क.धा, विलोचनयोः तारके ६तत्, अभिरामे तारके यस्य तत्, समानाधिकरणबहुव्रीहिः
मुदित-मुदित-वक्त्र-चन्द्र-बिम्बम्= मुदितं मुदितं (अभीक्ष्ण्ये च द्विरुक्तिः) वक्त्रम् क.धा, चन्द्रस्य बिम्बम् ६तत्, चन्द्रस्यबिम्बमिव वक्त्रं यस्य तत्, उपमानबहुव्रीहिः
मुखरित-वेणु-विलास-जीवितम्= मुखरितः वेणुः क.धा, वेणोः विलासः ६तत्, विलासः यस्य तत्, बहुव्रीहिः, तत् जीवितम् क.धा
॥ हरिः ॐ तत् सत् ॥



Tuesday, April 29, 2025

Sri Krishna Karnamritam 1.71




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
किमिदमधरवीथीक्ऌप्तवंशीनिनादं
किरति नयनयोर्नः कामपि प्रेमधाराम् ।
तदिदममरवीथीदुर्लभं वल्लभं न-
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ १.७१ ॥  


Meaning: What indeed is this phenomenon - Bhagavān Ṣrīkṛṣṇa - producing those lilting tunes on the flute pressed close to those lip-pathways and spreading a strange cascade of love into our eyes. This ecstasy is rare even for those treading the path of heaven! This darling of ours is bewitching the three worlds, it is divine and yet dwells amidst us!!!???


व्याकरणांशाः
किमिदमधरवीथीक्ऌप्तवंशीनिनादं
किरति नयनयोर्नः कामपि प्रेमधाराम् ।
तदिदममरवीथीदुर्लभं वल्लभं न-
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ १.७१ ॥
किम्, इदम्, अधर-वीथी-क्ऌप्त-वंशी-निनादम्, किरति, नयनयोः, नः, काम्, अपि, प्रेम-धाराम्, तद्, इदम्, अमर-वीथी-दुर्लभम्, वल्लभम्, नः, त्रि-भुवन-कमनीयम्, दैवतम्, जीवितम्, च
सन्धयः
निनादम्, दुर्लभम्, वल्लभम्, कमनीयम्, दैवतम्, जीवितम् = मोऽनुस्वारः
नयनयोः+नः = ससजुषो रुः
तद्+इदम् = झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
अधर-वीथी-क्ऌप्त-वंशी-निनादम् किरति नयनयोः नः काम् अपि प्रेम-धाराम् तद् इदम् अमर-वीथी-दुर्लभम् वल्लभम् नः त्रि-भुवन-कमनीयम् दैवतम् जीवितम् च किम् इदम् ?
What indeed is this phenomenon - Bhagavān Ṣrīkṛṣṇa - producing those lilting tunes on the flute pressed close to those lip-pathways and spreading a strange cascade of love into our eyes. This ecstasy is rare even for those treading the path of heaven! This darling of ours is bewitching the three worlds, it is divine and yet dwells amidst us!!!???
सुबन्तप्रक्रिया
किम् = किम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम् = इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
अधर-वीथी-क्ऌप्त-वंशी-निनादम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
नयनयोः = अ, नपुं, ६.२, ओस्, सुपि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः = अस्मद्, पुं, ६.३, आम्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
काम् = का, स्त्री, २.१, अम्, अमि पूर्वः
अपि = अव्ययम्
प्रेम-धाराम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
तद् = तद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम्= इदम्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
अमर-वीथी-दुर्लभम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
वल्लभम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
नः = अस्मद्, पुं, ६.३, आम्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्रि-भुवन-कमनीयम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
दैवतम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
जीवितम् = अ, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
च = अव्ययम्
तिङन्तप्रक्रिया
किरति
समासाः, तद्धिताः, कृदन्ताः
अधर-वीथी-क्ऌप्त-वंशी-निनादम् = अधरयोः वीथी ६तत्, वीथीं कॢप्ता वंशी २तत्+क.धा, वंश्याः निनादं तत्, ६तत्
प्रेम-धाराम्= प्रेमस्य धारा, ताम् ६तत्
अमर-वीथी-दुर्लभम् = अमराणां वीथी ६तत्, वीथ्यां दुर्लभं ७तत्


॥ हरिः ॐ तत् सत् ॥


Sunday, April 27, 2025

Sri Krishna Karnamritam 1.70



॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

पशुपालबालपरिषद्विभूषणः
शिशुरेष शीतलविलोललोचनः।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते ॥ १.७० ॥


Meaning: This urchin - Bhagavān Ṣrīkṛṣṇa - the ornament adorning the assembly of Gopa boys tending the cattle, His eyes casting cool looks, His gentle smile drenching His moon-like face casting its radiance, stimulates my heart as He dips into it!

व्याकरणांशाः
पशुपालबालपरिषद्विभूषणः
शिशुरेष शीतलविलोललोचनः।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते ॥ १.७० ॥
पशु-पाल-बाल-परिषद्+विभूषणः, शिशुः+एषः, शीतल-विलोल-लोचनः, मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा, मदयन्+मदीय-हृदयम्, विगाहते
सन्धयः
परिषद्+विभूषणः= झलां जशोऽन्ते
शिशुः+एषः = ससजुषो रुः
एषः+शीतल = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
स्मित+आर्द्र = अकः सवर्णे दीर्घः
पशु-पाल-बाल-परिषद्+विभूषणः, शिशुः+एषः, शीतल-विलोल-लोचनः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
मदयन्+मदीय-हृदयम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
एषः पशु-पाल-बाल-परिषद्+विभूषणः शीतल-विलोल-लोचनः शिशुः मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा मदयन्+मदीय-हृदयम् विगाहते
This urchin - Bhagavān Ṣrīkṛṣṇa - the ornament adorning the assembly of Gopa boys tending the cattle, His eyes casting cool looks, His gentle smile drenching His moon-like face casting its radiance, stimulates my heart as He dips into it!
सुबन्तप्रक्रिया
पशु-पाल-बाल-परिषद्+विभूषणः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शिशुः = उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
एषः = एतद्, पुं, १.१, सुँ, तदोः सः सावनन्त्ययोः, त्यदादीनामः, अतो गुणे, ससजुषो रुः, खरवसानयोर्विसर्जनीयः, आदेशप्रत्यययोः
शीतल-विलोल-लोचनः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा = द्, स्त्री, ३.१, टा, वर्णमेलनम्
मदयन् = त्, पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
मदीय-हृदयम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पुर्वः
तिङन्तप्रक्रिया
विगाहते = वि+गाहूँ विलोडने, भ्वादिः आत्मनेपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
पशु-पाल-बाल-परिषद्+विभूषणः = पशून् पालयन्ति पशुपालाः उपपद, पालाः बालाः क.धा, तेषां परिषद् ६तत्, परिषदः विभूषणः ६तत्
शीतल-विलोल-लोचनः= शीतलं विलोलं लोचनं यस्य सः, समानाधिकरणबहुव्रीहिः
मृदुल-स्मित+आर्द्र-वदन+इन्दु-संपदा = मृदुलं स्मितम् क.धा, स्मितेन आर्द्रं वदनं (क.धा) ३तत्, वदनमिन्दुरिव उपमान क.धा, तस्य संपद् ६तत्, तया
मदयन् = मदयति शतृ कृदन्तः
मदीय-हृदयम् = मम इति मदीयम् तद्धितः, मदीयं हृदयम्, तत् क.धा
॥ हरिः ॐ तत् सत् ॥


Wednesday, April 23, 2025

Sri Krishna Karnamritam 1.69







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति ॥ १.६९ ॥  

Meaning: This phenomenon - Bhagavān Ṣrīkṛṣṇa - with shoulders swaying (while playing the flute), eyes spreading their sportive look, a melting smile making His face a dewy lotus, at the same time looking like a reflection of the moon, His anklets and waistbands full of jingling bells, His head adorned with peacock feathers - this cool phenomenon which is a veritable delectable dessert, is coming to me!

व्याकरणांशाः
आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलि
शीतं विलोचनरसायनमभ्युपैति ॥ १.६९ ॥
आन्दोलित+अग्रभुजम्,आकुल-नेत्र-लीलम्, आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्, शिञ्जान-भूषण-शतम्, शिखि-पिञ्छ-मौलि, शीतम्, विलोचन-रसायनम्, अभ्युपैति
सन्धयः
आन्दोलित+अग्रभुजम् = अकः सवर्णे दीर्घः
स्मित+आर्द्रवदन+अम्बुज = अकः सवर्णे दीर्घः
शिञ्जान-भूषण-शतम्, शीतम् = मोऽनुस्वारः
अभि+उप = इको यणचि
उप+एति = वृद्धिरेचि
आकाङ्क्षा-अन्वयः
आन्दोलित+अग्रभुजम् आकुल-नेत्र-लीलम् आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम् शिञ्जान-भूषण-शतम् शिखि-पिञ्छ-मौलि शीतम् विलोचन-रसायनम् अभ्युपैति
This phenomenon - Bhagavān Ṣrīkṛṣṇa - with shoulders swaying (while playing the flute), eyes spreading their sportive look, a melting smile making His face a dewy lotus, at the same time looking like a reflection of the moon, His anklets and waistbands full of jingling bells, His head adorned with peacock feathers - this cool phenomenon which is a veritable delectable dessert, is coming to me!
सुबन्तप्रक्रिया
आन्दोलित+अग्रभुजम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
आकुल-नेत्र-लीलम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
शिञ्जान-भूषण-शतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
शिखि-पिञ्छ-मौलि = इ, नपुं, १.१, सुँ, स्वमोर्नपूम्सकात्
शीतम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
विलोचन-रसायनम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
अभ्युपैति = अबि+उप+ इण् गतौ, अदादिः, परस्मैपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
आन्दोलित+अग्रभुजम् = अग्रं भुजम् क.धा, आन्दोलितम् अग्रभुजम् क.धा, यस्य तत्, बहुव्रीहिः
आकुल-नेत्र-लीलम्= आकुलं लेत्रं क.धा, नेत्रस्य लीला यस्य तत्, बहुव्रीहिः
आर्द्र-स्मित+आर्द्रवदन+अम्बुज-चन्द्र-बिम्बम्= आर्द्रं स्मितम् क.धा, स्मितेन आर्द्रं वदनं ३तत्, क.धा, वदनम् अम्बुजमिव उपमानोत्तर क.धा, चन्द्रस्य बिम्बम् ६तत्, बिम्बमिव उपमानोत्तर क.धा, यस्य तत्, बहुव्रीहिः
शिञ्जान-भूषण-शतम्= भूषणानि शतानि तेषां समाहारः द्विगुः, शिञ्जानं भूषणशतम् यस्य तत्, बहुव्रीहिः
शिखि-पिञ्छ-मौलि = शिखेः पिन्छानि ६तत्, शिखिपिञ्छानि मौलौ यस्य तत्, व्यधिकरणबहुव्रीहिः
विलोचन-रसायनम्= विलोचनाय रसायनम् ४तत्

॥ हरिः ॐ तत् सत् ॥


Tuesday, April 22, 2025

Sri Krishna Karnamritam 1.68







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः ॥ १.६८ ॥  
Meaning: This precocious boy - Bhagavān Ṣrīkṛṣṇa - milks for our eyes a feast of delight by His constantly darting eyes, His face innocently scanning in all directions, His rustic cowherd dress appropriate for Vraja, the village of cowherds, and matching ornaments (His garland of wild flowers, a few peakcock feathers in His tied up hair...)!

व्याकरणांशाः
बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः ॥ १.६८ ॥
बालः+अयम्, आलोल-विलोचनेन, वक्त्रेण, चित्रीकृत-दिङ्मुखेन, वेषेण, घोष+उचित-भूषणेन, मुग्धेन, दुग्धे, नयन+उत्सवम्, नः
सन्धयः
बालः+अयम् = ससजुषो रुः & अतो रोरप्लुतादप्लुते & आद्गुणः & एङः पदान्तादति
घोष+उचित = आद्गुणः
नयन+उत्सवम् = आद्गुणः
नः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
अयम् बालः आलोल-विलोचनेन वक्त्रेण मुग्धेन चित्रीकृत-दिङ्मुखेन घोष+उचित-भूषणेन वेषेण (च) नः नयन+उत्सवम् दुग्धे
This precocious boy - Bhagavān Ṣrīkṛṣṇa - milks for our eyes a feast of delight by His constantly darting eyes, His face innocently scanning in all directions, His rustic cowherd dress appropriate for Vraja, the village of cowherds, and matching ornaments (His garland of wild flowers, a few peakcock feathers in His tied up hair...)!
सुबन्तप्रक्रिया
बालः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अयम् = इदम्, पुं, १.१, सुँ, इदमो मः, इदोऽ पुंसि, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
आलोल-विलोचनेन = अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
वक्त्रेण= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः, अट्कुप्वाङ्नुम्व्यवायेऽपि
चित्रीकृत-दिङ्मुखेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
वेषेण =अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, अट्कुप्वाङ्नुम्व्यवायेऽपि
घोष+उचित-भूषणेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
मुग्धेन= अ, नपुं, ३.१, टा, टाङसिङसामिनात्स्याः
नयन+उत्सवम् = अ, पुं, २.१, अम्, अतोऽम्
नः = युष्मद्, पुं, ६.३, आम्, आमि सर्वनाम्नः सुट्, साम आकम्, शेषे लोपः, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
दुग्धे = दुहँ प्रपूरणे अदादिः, आत्मनेपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
आलोल-विलोचनेन = आलोलं लोचनम् क.धा, तेन
चित्रीकृत-दिङ्मुखेन=अचित्रितं चित्रितं कृतं - चित्रीकृतम् मुखम् - क.धा। दिशां चित्रीकृतं मुखम् ६तत्
घोष+उचित-भूषणेन= उचितं भूषणम् क.धा, घोषस्य उचितभूषणम्, ६तत्, तेन
नयन+उत्सवम् = नयनस्य उत्सवम् ६तत्, तम्

॥ हरिः ॐ तत् सत् ॥