व्याकरणांशाः |
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्थुभं | | | | | |
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । | | | | | |
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं | | | | | |
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०९ ॥ | | | | | |
कस्तूरी-तिलकम्, ललाट-फलके, वक्षः-स्थले, कौस्थुभम्, नास+अग्रे, नव-मौक्तिकम्, कर-तले, वेणुम्, करे, कङ्कणम्, सर्वाङ्गे, हरिचन्दनम्, च, कलयन्, कण्ठे, च, मुक्तावलिम्, गोपस्त्री-परि-वेष्टितः, विजयते, गोपाल-चूडामणिः |
सन्धयः | | | | | |
कस्तूरी-तिलकम्, कौस्थुभम्, नव-मौक्तिकम्, वेणुम्, हरिचन्दनम्, मुक्तावलिम् = मोऽनुस्वारः |
वक्षः-स्थले = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि |
गोपस्त्री-परि-वेष्टितः + विजयते = ससजुषो रुः, हशि च, आद्गुणः |
गोपाल-चूडामणिः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
आकाङ्क्षा-अन्वयः | | | | |
गोपाल-चूडामणिः कस्तूरी-तिलकम् ललाट-फलके वक्षः-स्थले कौस्थुभम् नास+अग्रे नव-मौक्तिकम् कर-तले वेणुम् करे कङ्कणम् सर्वाङ्गे हरिचन्दनम् च कण्ठे च मुक्तावलिम् कलयन् गोपस्त्री-परि-वेष्टितः विजयते |
That crest-jewel of cowherds, Śrīkṛṣṇa, sporting the Kastūrītilaka on his forehead, Kaustubha gem on his chest, the pearl ornamemnt at the end of his nose (an ancient adornment), a bamboo flute in his hand, bracelets on his wrists, anointed with red sandal paste all over, a beautiful pearl necklace around his neck, and surrounded by Gopīs is resplendent! |
सुबन्तप्रक्रिया | | | | | |
कस्तूरी-तिलकम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः |
ललाट-फलके = अकारान्त पुं, ७.१, ङि, आद्गुणः |
वक्षः-स्थले= अकारान्त नपुं, ७.१, ङि, आद्गुणः |
कौस्थुभम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः |
नास+अग्रे= अकारान्त पुं, ७.१, ङि, आद्गुणः |
नव-मौक्तिकम् = अकारान्त नपुं, २.१ अम्, अमि पूर्वः |
कर-तले= अकारान्त नपुं, ७.१, ङि, आद्गुणः |
वेणुम् = उकारान्त पुं, २.१ अम्, अमि पूर्वः |
करे= अकारान्त पुं, ७.१, ङि, आद्गुणः |
कङ्कणम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः |
सर्वाङ्गे= अकारान्त पुं, ७.१, ङि, आद्गुणः |
हरिचन्दनम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः |
च = अव्ययम् |
कण्ठे= अकारान्त पुं, ७.१, ङि, आद्गुणः |
मुक्तावलिम्= इकारान्त स्त्री, २.१ अम्, अमि पूर्वः |
गोपस्त्री-परि-वेष्टितः = अकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
कलयन् = तकारान्त पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः |
गोपाल-चूडामणिः= इकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
तिङन्तप्रक्रिया | | | | |
विजयते = वि+ जि जये भ्वादिः, अकर्मकः, अनिट्, परस्मैपदी-> आत्मनेपदी वि उपसर्गयोगे, लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
कलयन् = कल गतौ, सङ्ख्याने च, चुरादिः, शानच् कृदन्तः, प्रथमा विभक्तिः, एकवचनम्, कलयत्. |
कस्तूरी-तिलकम् = कस्तूर्याः तिलकः, तम्, ६तत् |
ललाट-फलके = ललाटस्य फलकः, तस्मिन् ६तत् |
वक्षः-स्थले= वक्षसः स्थलं, तस्मिन्, ६तत् |
नास+अग्रे= नासस्य अग्रः, तस्मिन् ६तत् |
नव-मौक्तिकम् = नवं, मौक्तिकम्, तम्, कर्मधारयः |
कर-तले= करस्य तलम्, तस्मिन्, ६तत् |
गोपस्त्रीपरिवेष्टितः = गोपानां स्त्रियः ६तत्, ताभिः परिवेष्टितः ३तत् |