Wednesday, March 13, 2024

Sri Mukundamala - 8


Śrī Śārṅgapāṇī Temple, Kumbhakonam

॥ ॐ नमो भगवते वासुदेवाय ॥

चिन्तयामि हरिमेव सन्ततं मन्दमन्दहसिताननाम्बुजं ।
नन्दगोपतनयं परात्परं नारदादिमुनिवृन्दवन्दितम् ॥ ८॥
Translation: I constantly meditate only on Hari, my Lord with that soft and slight smile on His lotus face, the beloved son of Nandagopa of Gokula, the Supreme Lord beyond all, worshipped devoutly by assemblies of great sages starting with Nārada!
Notes:  Kulaśekhara discloses in this verse that he has transcended his physical and existential limitations and begun to meditate only on Hari. He recalls with supreme delight the sport and pastimes of the cowherd boy and His divine smile that plays on His lotus-like face. Kulaśekhara envies the great sages like Nārada who are constantly praying to Hari. This is the best condition for any devotee to be in!!!

व्याकरणांशाः
चिन्तयामि हरिमेव सन्ततं मन्दमन्दहसिताननाम्बुजं।
नन्दगोपतनयं परात्परं नारदादिमुनिवृन्दवन्दितम् ॥ ८॥
पदच्चेदः
चिन्तयामि, हरिम्,एव, सन्ततम्, मन्द-मन्द-हसित-आनन-अम्बुजम्, नन्द-गोप-तनयम्, परात्, परम्, नारद-आदि-मुनि-वृन्द-वन्दितम्
सन्धयः
सन्ततम्, मन्द-मन्द-हसित-आनन-अम्बुजम्, नन्द-गोप-तनयम्= मोऽनुस्वारः
नारद+आदि= अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
मन्द-मन्द-हसित-आनन-अम्बुजम् नन्द-गोप-तनयम् परात् परम् नारद-आदि-मुनि-वृन्द-वन्दितम् हरिम् एव सन्ततम् चिन्तयामि
I constantly meditate only on Hari, my Lord with that soft and slight smile on His lotus face, the beloved son of Nandagopa of Gokula, the Supreme Lord beyond all, worshipped devoutly by assemblies of great sages starting with Nārada!
सुबन्तप्रक्रिया
हरिम्= इ, पुं, २.१, अम्, अमि पूर्वः
एव, सन्ततम् = अव्ययम्
मन्द-मन्द-हसित-आनन-अम्बुजम्, नन्द-गोप-तनयम्, नारद-आदि-मुनि-वृन्द-वन्दितम्, परम्= अ, पुं, २.१, अम्, अमि पूर्वः
परात्= अ, पुं, ५.१, ङसिँ, टाङसिङसामिनात्स्याः, अकः सवर्णे दीर्घः
तिङन्तप्रक्रिया
चिन्तयामि= चिन्त्, चुरादिः, परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
मन्द-मन्द-हसित-आनन-अम्बुजम्= मन्दं मन्दं हसितम् आननम्=कर्मधारयः, आननम् अम्बुजमिव=उपमानकर्मधारयः, आननाम्बुजम् यस्य सः, तम् = बहुव्रीहिः
नन्द-गोप-तनयम्= नन्दः इति गोपः=कर्मधारयः, तस्य तनयः= ६तत्, तम्
नारद-आदि-मुनि-वृन्द-वन्दितम्= नारदः आदिः यस्य सः= नारदादिः, नारदादिः मुनयः=कर्मधारयः, तेषां वृन्दम्, ६तत्, तेन वन्दितः ३तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥