Tuesday, March 12, 2024

Sri Mukundamala - 7





॥ ॐ नमो भगवते वासुदेवाय ॥

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तः अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७॥

Translation: Oh Kṛṣṇa, let the royal swan of my mind rest just now in the cage of Your lotus feet! For, at the moment of life ebbing away from my body, with my voice choked with the three humours of phlegm, air and bile ( i.e. diseased), how shall I remember You!?
Notes:  Now Kulaśekhara realises it is mere rodomontade (bluster) to assert to the Lord that he shall think of the Lord's lotus feet at the moment of his death. His thoughts would be severely hampered by a state of ill-health that precedes most cases of death. So the devotee now prays to the Lord that his mind should be caged right now in the Lord's lotus feet! This is indeed the wisest thing one can do. Bhagavān describes, in the eighth chapter of the ŚrīmadBhagavadgītā, the two paths taken by the soul - one of liberation and the other of rebirth, based on what the Jīva thinks of at his moment of death. This is in answer to the specific question of Arjuna about how to remember the Lord at the moment of death. Then the Lord says this:
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ ८-२७॥
Translation: Oh, Arjuna, hearing of these two paths of the afterlife one of which will be taken based on what the Yogī may think of at the moment of his death, the Yogi is not confused. Instead, he engages in Yoga constantly, because death can come at any moment!

व्याकरणांशाः
कृष्ण त्वदीयपदपङ्कजपञ्जरान्तः अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७॥
पदच्चेदः
कृष्ण, त्वदीय-पद-पङ्कज-पञ्जरान्तः, अद्य, एव, मे, विशतु, मानस-राज-हंसः, प्राण-प्रयाण-समये, कफ-वात-पित्तैः, कण्ठ-अवरोधन-विधौ, स्मरणम्, कुतः, ते
सन्धयः
अद्य+एव= एचोऽयवायावः
पञ्जरान्तः, हंसः= ससजुषो रुः, खरवसानयोर्विसर्जनियः
पित्तैः+कण्ठ= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
स्मरणम्= मोऽनुस्वारः
कुतः+ते = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
आकाङ्क्षा-अन्वयः
कृष्ण! अद्य एव मे मानस-राज-हंसः त्वदीय-पद-पङ्कज-पञ्जरान्तः विशतु प्राण-प्रयाण-समये कफ-वात-पित्तैः कण्ठ-अवरोधन-विधौ कुतः ते स्मरणम्
Oh Kṛṣṇa, let the royal swan of my mind rest just now in the cage of Your lotus feet! For, at the moment of life ebbing away from my body, eith my voice choked with the three humours of phlegm, air and bile ( i.e. diseased), how shall I remember You!?
सुबन्तप्रक्रिया
कृष्ण= अ, पुं, १.१, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वदीय-पद-पङ्कज-पञ्जरान्तः= अव्ययम् (तद्धितः)
अद्य, एव,कुतः = अव्ययम्
मे= अस्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
मानस-राज-हंसः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्राण-प्रयाण-समये= अ, पुं, ७.१, ङि, वर्णमेलनम्
कफ-वात-पित्तैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कण्ठ-अवरोधन-विधौ= इ, स्त्री, ७.१, ङि, अच्च घेः, वृद्धिरेचि
स्मरणम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
कुतः= अव्ययम्
ते= युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
तिङन्तप्रक्रिया
विशतु= विश्, भ्वादिः, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कृष्ण= कर्षतीति कृष्णः कृदन्तः, हे
त्वदीय-पद-पङ्कज-पञ्जरान्तः= तव इदम् त्वदीयम् (तद्धितः), पदम् वङ्कजमिव उपमानोत्तरपदकर्मधारयः, त्वदीयं पदपङ्कजम् कर्मधारयः, त्वदीयपदपङ्कजमेव पञ्जरम् -अवधारणापूर्वपदकर्मधारयः, तस्य अन्तः ६तत्
मानस-राज-हंसः= राजा हंसः कर्मधारयः, मानसः राजहंसः इव, उपमानोत्तरपदकर्मधारयः
प्राण-प्रयाण-समये= प्राणस्य प्रयाणम् ६तत्, प्रयाणस्य समयः, तस्मिन्, ६तत्
कफ-वात-पित्तैः= कफश्च वातश्च पित्तश्च = कफवातपित्ताः, तैः,इतरेतरद्वन्द्वः
कण्ठ-अवरोधन-विधौ= कण्ठस्य अवरोधनम् ६ तत्, तस्य विधिः ६तत्, तस्मिन्

***
॥ ॐ नमो भगवते वासुदेवाय ॥