Wednesday, March 6, 2024

Sri Mukundamala - 5




 ॥ ॐ नमो भगवते वासुदेवाय ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे 
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि 
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥५॥

Translation: I have no eagerness for adherence to the prescribed duties of Varṇa and Āśrama. I have no interest in hoarding wealth. I have no weaknesses for hedonistic pleasures. Oh Supreme Lord, let life flow following my past Karmas! This is, however, my considered request: let my unwavering Bhakti be for Your two lotus feet birth after birth!
Notes: The devotee, Kulaśekhara, now explains his state of mind to the Lord Mukunda. He is not interested in following Dharmic rituals and practices (as they only build up the ego and promote ostentation). He has no attraction for wealth or pleasures of the flesh. His sense of detachment is driven by a mature understanding that everything that happens in one's life is the result of past Karmas and one need not ever push the river and incur more Karma in the process. Only such a mind as Kulaśekhara's can turn to true prayer which is neither bargaining nor blackmailing Bhagavān. So the true devotee has a simple plea. He wishes to have everlasting devotion to the Lord, birth after birth. How true it is that a Meera or a Kabir or a Kulaśekhara never prays for liberation, even when Mukunda wants to grant it! They know how superior is the life of true Bhakti to the empty state of "Nirvāṇa" which actually means the blowing out of a candle!

व्याकरणांशाः
नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥५॥
पदच्चेदः
न,आस्था, धर्मे, न, वसु-निचये, न, एव, काम-उप-भोगे, यत्, यत्, भव्यम्, भवतु, भगवन् ,पूर्व-कर्म-अनुरूपम्, एतत्, प्रार्थ्यम्, मम, बहु-मतम्, जन्म-जन्म-अन्तरे, अपि, त्वत्-पाद-अम्भोरुह- युग-गता, निश्चला, भक्तिः,अस्तु
सन्धयः
न+आस्था,कर्म+अनुरूपम्, जन्म+अन्तरे= अकः सवर्णे दीर्घः
न+एव= वृद्धिरेचि
काम+उप-भोगे=आद्गुणः
यत्+यत्+भव्यम्=झलां जशोऽन्ते
अन्तरे+अपि= एङः पदान्तादति
निस्+चला= स्तोः श्चुना श्चुः
भक्तिः+अस्तु= ससजुषो रुः
आकाङ्क्षा-अन्वयः
न आस्था धर्मे न वसु-निचये न एव काम-उप-भोगे। भगवन्, यत् यत् पूर्व-कर्म-अनुरूपम् भव्यम् भवतु। एतत् मम बहु-मतम् प्रार्थ्यम्। जन्म-जन्म-अन्तरे अपि त्वत्-पाद-अम्भोरुह- युग-गता निश्चला भक्तिः अस्तु।
I have no eagerness for adherence to the prescribed duties of Varṇa and Āśrama. I have no interest in hoarding wealth. I have no weaknesses for hedonistic pleasures. Oh Supreme Lord, indeed I feel let life flow as per my past Karmas. But this is, however, my considered request. Let my unwavering Bhakti be for Your two lotus feet birth after birth.
सुबन्तप्रक्रिया
न, अपि, बहु, एव= अव्ययम्
आस्था= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
धर्मे, वसु-निचये, काम-उप-भोगे = अ, पुं, ७१., ङि, वर्णमेलनम्
यत्, एतत्= यद्/एतद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
भव्यम्, पूर्व-कर्म-अनुरूपम्, प्रार्थ्यम्, बहु-मतम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
भगवन् = त्, पुं, १.१ सम्बोधनम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
मम=अस्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ण्गसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
जन्म-जन्म-अन्तरे= अ, नपुं, ७.१, ङि, वर्णमेलनम्
त्वत्-पाद-अम्भोरुह- युग-गता, निश्चला= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
भक्तिः= इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
भवतु= भू, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
अस्तु = अदादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
वसु-निचये= वस्तुनां निचयः, ६तत्, तस्मिन्
काम-उप-भोगे= कामस्य उपभोगः, ६तत्, तस्मिन्
भगवन् = भगः अस्य अस्ति, तद्धितः, हे = ऐश्वर्यश्च समग्रश्च वीर्यश्च यशसश्श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरिणः॥ -श्रीविष्णुपुराणम् ६.५.७४
पूर्व-कर्म-अनुरूपम्= पूर्वं कर्म कर्मधारयः, पूर्वकर्मस्य रूपम्, ६तत्, तमनुसृत्य अव्ययीभावः
जन्म-जन्म-अन्तरे= जन्मश्च, अन्यजन्मश्च (मयूरव्यंसकादि)समाहारद्वन्द्वः, तस्मिन्
त्वत्-पाद-अम्भोरुह- युग-गता= पादं अम्भिरुहमिव उपमानकर्मधारयः, पादयोः युगम्, ६तत्, तव.. युगम् ६तत्, तस्मिन् गता, ७तत्
***
 ॥ ॐ नमो भगवते वासुदेवाय ॥