Saturday, March 30, 2024

Sri Mukundamala -25


॥ ॐ नमो भगवते वासुदेवाय ॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं 
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंसृतीः विजयते देवस्स नारायणः ॥२५॥


Translation: Our supreme Lord is Nārāyaṇa. Glory be to Him! Without constant remembrance of His lotus feet, whatever we do is a total waste. For example, chanting all the Vedas perfectly is futile like a cry lost in the forest. Carrying out taxing rituals to attain the fruits promised in scriptural injunctions will only burn our body fat. Strict conduct of Homas and Yajñas is like pouring ghee into ashes. Plunging into holy waters or falling at the feet of holy men has no lasting benefit, just as the elephant after a fine cleansing bath in the lake splashes mud all over his body!
Notes:  The message is that all scriptural injunctions, rituals, austerities, and visits to holy places and men are all meaningless and ineffective unless and until one develops Bhakti towards the Lord in devotion without demand and practises all these activities as an offering to the Lord.

व्याकरणांशाः
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंसृतीः विजयते देवस्स नारायणः ॥२५॥
आम्नाय-अभ्यसनानि, अरण्यरुदितम्, वेदव्रतानि, अन्वहम्, मेदस्-छेद-फलानि, पूर्त-विधयः, सर्वे, हुतम्, भस्मनि, तीर्थानाम्, अवगाहनानि, च, गज-स्नानम्, विना, यत्, पद-द्वन्द्व-अम्भस्-रुह- संसृतीः, विजयते, देवः, सः, नारायणः
सन्धयः
आम्नाय-अभ्यसनानि=अकः सवर्णे दीर्घः
अनु+अहम्=इको यणचि
मेदस्-छेद-फलानि=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
अरण्यरुदितम्, अन्वहम्, हुतम्, गज-स्नानम्= मोऽनुस्वारः
पूर्त-विधयः+ सर्वे=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
यत्+पद=झलां जशोऽन्ते, खरि च
अम्भस्+रुह=ससजुषो रुः, हशि च, आद्गुणः
देवः+सः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
सः+ नारायणः = एतत्तदोःसुलोपोकोरनञ्समासे हलि
संसृतीः, नारायणः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
देवः सः नारायणः विजयते यत् पद-द्वन्द्व-अम्भस्-रुह- संसृतीः विना आम्नाय-अभ्यसनानि अरण्यरुदितम्, वेदव्रतानि अन्वहम् मेदस्-छेद-फलानि, पूर्त-विधयः सर्वे हुतम् भस्मनि, तीर्थानाम् अवगाहनानि च गज-स्नानम्
Our supreme Lord is Nārāyaṇa. Glory be to Him! Without constant remembrance of His lotus feet, whatever we do is a total waste. For example, chanting all the Vedas perfectly is futile like a cry lost in the forest. Carrying out taxing rituals prescribed for attaining the fruits promised in scriptural injunctions will only burn our body fat. Strict conduct of Homas and Yajñas is like pouring ghee into ashes. Plunging into holy waters or falling at the feet of holy men is without any lasting benefit, just as the elephant after a fine cleansing bath in the lake splashes mud all over his body!
सुबन्तप्रक्रिया
आम्नाय-अभ्यसनानि, वेदव्रतानि, मेदस्-छेद-फलानि, अवगाहनानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, लशक्वतद्धिते, तस्य लोपः, नपुंसकस्य झलचः, स्र्वनामस्थाने चासम्बुद्धौ
अरण्यरुदितम्, हुतम्, गज-स्नानम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अन्वहम्, च, अन्वहम् = अव्ययम्
पूर्त-विधयः = इ, पुं, १.३, जस्, जसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सर्वे = अ, सर्वनाम, पुं, १.३, जस्, जसः शी, लशक्वतद्धिते, तस्य लोपः, आद्गुणः
भस्मनि = भस्मन्, न्, नपुं, ७.१, ङि, वर्णमेलनम्
तीर्थानाम् = अ, नपुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
यत् = यद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वा शरि
पद-द्वन्द्व-अम्भस्-रुह- संसृतीः = इ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
देवः, नारायणः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
सः = तद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विजयते = वि+ जि जये, भ्वादिः, उपसर्गयोजनेन आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
आम्नाय-अभ्यसनानि= आम्नायानाम् अभ्यसनम्, तानि, ६तत्
अरण्यरुदितम्= अरण्यस्य रोदनम्, ६तत् (अरण्ये इति अर्थः)
वेदव्रतानि= वेदानं व्रतानि, ६तत्
अन्वहम्= अहनि अहनि अन्वहम्, अव्ययीभावः
मेदस्-छेद-फलानि= मेदसः छेदः, ६तत्, छेदः फलम्, कर्मधारयः, तानि
पूर्त-विधयः= पूर्तस्य विधयः, ६तत्
गज-स्नानम्= ग्णजस्य स्नानम्, ६तत्
पद-द्वन्द्व-अम्भस्-रुह- संसृतीः= पदयोः द्वन्द्वम्, ६तत्, पदद्वन्द्वम्, अम्भसि रुहम्, ७तत्, पदद्वन्द्वम् अबम्भोरुहमिव, कर्मधारयः, तस्य संसृतयः, ताः ९द्वितीयाबहुवचनम्), ६तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥