Tuesday, March 5, 2024

Sri Mukundamala -4


 ॥ ॐ नमो भगवते वासुदेवाय ॥

नाऽहं वन्दे तवचरणयोर्द्वन्द्वमद्वन्दहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नाऽपनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नाऽपि रन्तुं 
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥४॥

Translation: Oh, Lord Hari! I worship Your two feet not to negate this world of dualities through liberation: nor for avoiding my being dipped in the deadly boiling oil cauldrons in hell; nor indeed to enjoy the company of lissome heavenly damsels; but I pray so that I shall enshrine You in the mansion of my heart and remember You always!
Notes: The devotee, Kulaśekhara, asks not for freedom from the miseries of this dualistic world. He does not want to avoid hellish punishment. He does not also covet the company of heavenly women of pleasure. He simply wants, birth after birth, to enshrine and cherish the Lord in his heart. This shows the purity of his mind. Such a devotee is sure to receive the Lord's grace!
व्याकरणांशाः
नाऽहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्दहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नाऽपनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नाऽपि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥४॥
पदच्चेदः
न, अहम्, वन्दे, तव, चरणयोः, र्द्वन्द्वम्, अ-द्वन्द-हेतोः, कुम्भीपाकम्, गुरुम्, अपि, हरे, नारकम्, न, अप-नेतुम्, रम्या, रामा, मृदु-तनु-लता, नन्दने, न,अपि, रन्तुम्, भावे, भावे, हृदय-भवने, भावयेयम्, भवन्तम्
सन्धयः
न+अहम्, न+अप-नेतुम्, न+अपि= अकः सवर्णे दीर्घः
चरणयोः+र्द्वन्द्वम् = ससजुषो रुः
अ-द्वन्द-हेतोः+कुम्भीपाकम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
अहम्, कुम्भीपाकम्, नारकम्, रन्तुम्, भावयेयम्= मोऽनुस्वारः
रम्यारामामृदु-तनु-लताः+नन्दने= भो भगो अघो अपूर्वस्य योऽशि, हलि सर्वेषाम्
आकाङ्क्षा-अन्वयः
हरे! तवचरणयोः र्द्वन्द्वम् अ-द्वन्द-हेतोः न अहम् वन्दे, न गुरुम् नारकम् कुम्भीपाकम् अप-नेतुम् अपि, न नन्दने रम्यारामामृदु-तनु-लताः रन्तुम् अपि, भावे भावे हृदय-भवने भवन्तम् भावयेयम्
Oh, Lord Hari! I worship Your two feet not to negate this world of dualities through liberation: nor for avoiding my being dipped in the deadly boiling oil cauldrons in hell; nor indeed to enjoy the company of lissome heavenly damsels; but I pray so that I shall enshrine You in the mansion of my heart and remember You always!
सुबन्तप्रक्रिया
न, अपि = अव्ययम्
अहम् = अस्मद्, १.१, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
चरणयोः= अ, नपुं, ६.२, ओस्, ओसि च, एचोऽयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
र्द्वन्द्वम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अ-द्वन्द-हेतोः= उ, पुं, ५.१, ङसिँ, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कुम्भीपाकम्, नारकम् = अ, पुं, २.१, अम्, अमि पूर्वः
गुरुम् = उ, पुं, २.१, अम्, अमि पूर्वः
हरे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
रम्यारामामृदु-तनु-लताः= आ, स्त्री, २.३, शस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नन्दने, भावे = अ, पुं, ७.१, ङि, वर्णमेलनम्
हृदय-भवने = अ, नपुं, ७.१, ङि, वर्णमेलनम्
भवन्तम् = त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थानेऽधातोः, नश्चापदान्तस्य झलि, अनुस्वारस्य ययि परसवर्णः
तिङन्तप्रक्रिया
वन्दे = वन्द्, भ्वादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
भावयेयम्= भू, चुरादिः, परस्मैपदी, विधिलिङ्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अप-नेतुम् = अप+नी, तुमुन्, कृदन्तः
रन्तुम् = रम्, तुमुन्, कृदन्तः
अ-द्वन्द-हेतोः= न द्वन्द्वम् नञ् तत्पुरुषः, तस्य हेतुः, तस्मात् ६तत्
कुम्भीपाकम् = कुम्भ्याम् उखायां पाक इव पाकः उपमानपूर्वपदकर्मधारयः, पाकः यत्र= बहिव्रीहिः , तम्
नारकम्= नरकस्य अयम्, तद्धितः, तम्
रम्या, रामा, मृदु-तनु-लता= रम्यते यस्याम् सा, बहुव्रीहिः, रम् कर्तरि घञ् कृदन्तः, मृदू तनुः लता इव, कर्मधारयः
न, अहम्, वन्दे, तव, चरणयोः, र्द्वन्द्वम्, अ-द्वन्द-हेतोः, कुम्भीपाकम्, गुरुम्, अपि, हरे, नारकम्, न, अप-नेतुम्, रम्या, रामा, मृदु-तनु-लता, नन्दने, न,अपि, रन्तुम्, भावे, भावे, हृदय-भवने, भावयेयम्, भवन्तम्
हृदय-भवने= हृदयमेव भवनम्, अवधारणापूर्वपदकर्मधारयः, तस्मिन्
***
 ॥ ॐ नमो भगवते वासुदेवाय ॥