Saturday, April 6, 2024

Sri Mukundamala - 33



॥ ॐ नमो भगवते वासुदेवाय ॥

कृष्णो रक्षतु नो जगत्रयगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं 
कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥३३॥
Translation: May Śrī Kṛṣṇa, the Preceptor of the three worlds, protect us; I bow down to Śrī Kṛṣṇa; By Śrī Kṛṣṇa were the eternal enemies destroyed; to that Śrī Kṛṣṇa our obeisance be; by Śrī Kṛṣṇa alone was this universe lifted from its morass; I am a servant of Śrī Kṛṣṇa; In Śrī Kṛṣṇa rests all this manifestation; oh Śrī Kṛṣṇa! Please protect me!
Notes:  The devotee has become Śrī Kṛṣṇa-centric. He depends on the Lord totally. This quality of faith is always rewarded. That is the spirit of the Śrīmadbhagavadgītā Śloka 9.22 wherein the Lord says, 
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९-२२॥
"Those who are single-pointedly devoted to Me shall be cared for by Me in the here and hereafter!"


व्याकरणांशाः
कृष्णो रक्षतु नो जगत्रयगुरुः कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं
कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम् ॥३३॥
कृष्णः, रक्षतु, नः, जगत्रयगुरुः, कृष्णम्, नमस्यामि, अहम्, कृष्णेन,अमरशत्रवः, विनिहताः, कृष्णाय, तस्मै, नमः, कृष्णात्, एव, समुत्थितम्, जगत्, इदम्, कृष्णस्य, दासः, अस्मि, अहम्, कृष्णे, तिष्ठति, सर्वम्, एतत्, अखिलम्, हे, कृष्ण, रक्षस्व, माम्
सन्धयः
कृष्णः+रक्षतु, नः+जगत्रयगुरुः, अमरशत्रवः+ विनिहताः= ससजुषो रुः, हशि च, आद्गुणः
दासः+अस्मि= ससजुषो रुः, अतोरोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
जगत्रयगुरुः+कृष्णम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
कृष्णम्, अहम्,समुत्थितम्, इदम्, अहम्, अखिलम्= मोऽनुस्वारः
नमस्यामि+अहम्, अस्मि+अहम्= इको यणचि
कृष्णेन+अमरशत्रवः= अकः सवर्णे दीर्घः
कृष्णात्+एव, जगत्+इदम्, एतत्+अखिलम्= झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
कृष्णः रक्षतु नः जगत्रयगुरुः कृष्णम् नमस्यामि अहम् कृष्णेनअमरशत्रवः विनिहताः कृष्णाय तस्मै नमः कृष्णात् एव समुत्थितम् जगत् इदम् कृष्णस्य दासः अस्मि अहम् कृष्णे तिष्ठति सर्वम् एतत् अखिलम् हे कृष्ण रक्षस्व माम्
May Śrī Kṛṣṇa, the Preceptor of the three worlds, protect us; I bow down to Śrī Kṛṣṇa; By Śrī Kṛṣṇa were the eternal enemies destroyed; to that Śrī Kṛṣṇa our beisance be; By Śrī Kṛṣṇa alone was this universe lifted from its morass; I am a servant of Śrī Kṛṣṇa; In Śrī Kṛṣṇa rests all this manifestation; oh Śrī Kṛṣṇa! Please protect me!
सुबन्तप्रक्रिया
कृष्णः = अ, पुं, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
नः = अशम्द्, ६.३, आम्, (अन्वादेशे) बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जगत्रयगुरुः= उ, पुं, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कृष्णम् = अ, पुं, २.१, अम्, अमि पूर्वः
अहम् = अस्मद्, १.१, सुँ, ङे प्रथमयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
कृष्णेन = अ, पुं, ३.१, टा, ताङसिङसामिनात्स्याः, आद्गुणः
अमरशत्रवः= उ, पुं, १.३, जस्, जसि च, एचोऽयनायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विनिहताः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कृष्णाय = अ, पुं, ४.१, ङे, ह्रस्वस्य गुणः, ङेर्यः, सुपि च
तस्मै = तद्, सर्वनामस्थान पुं, ४.१, ङे, त्यदादीनामः, अतो गुणे, सर्वनाम्नः स्मै
नमः = अव्ययम्
कृष्णात् = अ, पुं, ५.१, ङसिँ, टाङसिण्गसामिनात्स्याः, अकः सवर्णे दीर्घः
एव = अव्ययम्
समुत्थितम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
जगत् = त्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
इदम् = इदम् सर्वनाम, नपुं, १.१, सुँ , स्वमोर्नपुंसकात्
कृष्णस्य = अ, पुं, ६.१, ङस्, टाङसिण्गसामिनात्स्याः
दासः =अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
कृष्णे = अ, पुं, ७.१, ङि, आद्गुणः
सर्वम् = अ, नपुं, १.१ सुँ, अतोऽम्, अमि पूर्वः
एतत् = द्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
अखिलम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
हे = अव्ययम्
कृष्ण = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
माम् = अस्मद्, २.१, अम्, ङे प्रथमयोरम्, त्वमावेकवचने, अतो गुणे, द्वितीयायां च, अकः सवर्ने दीर्घः, अमि प्पूर्वः
तिङन्तप्रक्रिया
रक्षतु = रक्षँ पालने, भ्वादिः परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
नमस्यामि = नमस्, नामधातुः, चुरादिः, परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
अस्मि = सँ भुवि, अदादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचन्म्
तिष्ठति = ष्ठा गतिनिवृत्तौ, भ्वादिः, परस्मैपदी, प्रथमपुरुषः, एकवचनम्
रक्षस्व =रक्ष्ँ पालने, भ्वादिः, आत्मनेपदी आर्षः, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कृष्णः= कर्षतीति कृष्णः, कृदन्तः
जगत्रयगुरुः = त्रयाणं जगतां समाहारः, जगत्रयम्, द्विगुः, जगत्रयस्य गुरुः ६तत्
अमरशत्रवः=अमराः शत्रवः कर्मधारयः
विनिहताः = वि+नि+हन्, कर्मणि कृदन्तः क्त
समुत्थितम् = सम्+ उद्+ ष्ठा कर्मणि क्त कृदन्तः
***
॥ ॐ नमो भगवते वासुदेवाय ॥