Monday, April 8, 2024

Sri Mukundamala - 35




Melukote Śrī Celuvanārāyaṇa
॥ ॐ नमो भगवते वासुदेवाय ॥

नमामि नारायणपादपङ्कजम्
करोमि नारायणपूजनं सदा।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥३५॥
Translation: I bow down to Nārāyaṇa's lotus feet; I worship the Lord always; I chant the holy and purifying name of Nārāyaṇa; I meditate on the Eternal Principle of Nārāyaṇa!
Notes: This is the witness in the devotee remarking on his state of mind. 


व्याकरणांशाः
नमामि नारायणपादपङ्कजम्
करोमि नारायणपूजनं सदा।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥३५॥
नमामि, नारायणपादपङ्कजम्, करोमि, नारायणपूजनम्, सदा,वदामि, नारायणनाम, निर्मलम्, स्मरामि, नारायणतत्त्वम्, अव्ययम्
सन्धयः
नारायणपूजनं, निर्मलं= मोऽनुस्वारं
आकाङ्क्षा-अन्वयः
नमामि नारायणपादपङ्कजम् करोमि नारायणपूजनम् सदावदामि नारायणनाम निर्मलम् स्मरामि नारायणतत्त्वम् अव्ययम्
I bow down to Nārāyaṇa's lotus feet; I worship the Lord always; I chant the holy and purifying name of Nārāyaṇa; I meditate on the Eternal Principle of Nārāyaṇa!
सुबन्तप्रक्रिया
नारायणपादपङ्कजम्, नारायणपूजनम्, निर्मलम्, नारायणतत्त्वम्, अव्ययम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
सदा = अव्ययम्
नारायणनाम= न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
तिङन्तप्रक्रिया
नमामि= णमँ प्रह्वत्वे शब्दे च, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
करोमि=डुकृञ् करणे, तनादिः परस्मै(उभय)पदी, लट्, उत्तमपुरुषः, एकवचनम्
वदामि = वदँ व्यक्तायां वाचि, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
स्मरामि = स्मृ आध्याने, भ्वादिः परस्मैपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
नारायणपादपङ्कजम्= पादः पङ्कजमिव, उपमानकर्मधारयः, नारायणस्य पादपङ्कजम्, ६तत्, तत्
नारायणपूजनम्= नारायणस्य पूजनम्, तत्, ६तत्
नारायणनाम= नारायणस्य नाम, तत्, ६तत्
निर्मलम्= मलं नास्ति यस्य, नञ् बहुव्रीहिः, तत्
नारायणतत्त्वम्= नारायण इति तत्त्वम् सम्भावनाकर्मधारयः, तत्
अव्ययम् = व्ययः नास्ति यस्य, नञ्बहुव्रीहिः, तत्
उत्-हर्तुम्= उत्+हृ, तुमुन्, कृदन्तः, अव्ययम्
हरे= हरतीति भवम् हरिः उपपद, हे
पुरुषोत्तमः= पुरुषाणाम् उत्तमः ६तत्



***
॥ ॐ नमो भगवते वासुदेवाय ॥