Friday, April 5, 2024

Sri Mukundamala - 31



॥ ॐ नमो भगवते वासुदेवाय ॥

इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लतसन्धिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढदुर्मते निरामयं कृष्णरसायनं पिब ॥३१॥
Translation: Oh, Dull and Perverted Mind! This body is, after all, definitely subject to continuous decay, with loosening joints and beaten by age, wear and tear, and so bound to fall one day. So why do you torment it with medicines in the hope of defeating Nature? Better that you constantly drink in the nectar of Bhagavān Kṛṣṇa's name that has no deleterious effects!
Notes:  This verse has to be understood well. The poet is not against a healthy body which will surely serve him in his devotional life. He is also not against medicines and cures. He just reminds himself that labouring to avert disease and old age as the sole purpose of life is stupid. One should prioritise the life of prayer as it confers the supreme state of bliss through that infallible concoction called the Lord's name!

व्याकरणांशाः
इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लतसन्धिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढदुर्मते निरामयं कृष्णरसायनं पिब ॥३१॥
इदम्, शरीरम्, परिणाम-पेशलम्, पतति, अवश्यम्, श्लत-सन्धि-जर्जरम्, किम्, औषधैः, क्लिश्यसि, मूढ, दुर्मते, निरामयम्, कृष्ण-रसायनम्, पिब
सन्धयः
इदम्, शरीरम्, परिणाम-पेशलम्, अवश्यम्, निरामयम्, कृष्ण-रसायनम् = मोऽनुस्वारः
पतति+अवश्यम्= इको यणचि
आकाङ्क्षा-अन्वयः
मूढ दुर्मते! इदम् परिणाम-पेशलम् श्लत-सन्धि-जर्जरम् शरीरम् अवश्यम् पतति! किम् औषधैः क्लिश्यसि? निरामयम् कृष्ण-रसायनम् पिब!
Oh, Dull and Perverted Mind! This body is, after all, definitely subject to continuous decay, with loosening joints and beaten by age, wear and tear and so bound to fall one day. So why do you torment it with medicines in the hope of defeating Nature? Better that you constantly drink in the nectar of Bhagavān Kṛṣṇa's name that has no deleterious effects!
सुबन्तप्रक्रिया
इदम् = म्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्
शरीरम्, परिणाम-पेशलम्, श्लत-सन्धि-जर्जरम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
अवश्यम् = अव्ययम्
किम् = अव्ययम्
औषधैः = अ, नपुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूढ =अ. पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
दुर्मते = इ, पुं, सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
निरामयम्, कृष्ण-रसायनम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
पतति = पत्ऌँ गतौ, भ्वादिः, परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
क्लिश्यसि = क्लिशँ उपतापे दिवादिः परस्मैपदी (आर्ष), लट्, मध्यमपुरुषः, एकवचनम्
पिब = पा पाने, भ्वादिः परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
परिणाम-पेशलम् = परिणामेन पेशं लाति तत्, उपपद
श्लत-सन्धि-जर्जरम्= श्लतः सन्धिः कर्मधारयः, सन्धिना जर्जरम् ३तत्, तत्
निरामयम्= नास्ति आमयम् अस्य = निरामयम्
कृष्ण-रसायनम्= कृष्ण नाम रसायनम् सम्भावनाकर्मधारयः, तत्

***
॥ ॐ नमो भगवते वासुदेवाय ॥