Monday, April 8, 2024

Sri Mukundamala - 34

(9th century CE Chola Bronze, MOMA)

॥ ॐ नमो भगवते वासुदेवाय ॥

स त्त्वं प्रसीद भगवन् कुरु मय्यनाथे
विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनमिग्नमनन्तदीनं उद्धर्थुं अर्हसि हरे पुरुषोत्तमोऽसि ॥३४॥
Translation: You, Oh Lord, are the One indeed, please be gracious! Oh, Viṣṇu, please show mercy on this destitute me, after all are You not the Most Compassionate One?! Lord, You are called Puruṣottama, the Supreme Being! So You should save me, the one fully drowned in the ocean of Samsara and infinitely pitiable.
Notes: Such desperate prayers to the Lord are typical of the devotee who feels wretched and lost, unable to cope with the world. If anyone thinks he is so intellectually strong that nothing in this worldly life, sickness, loss, bereavement, hunger, insult and so on, can deter him, he is a certifiable fool. As long as one lives in this world, and has a body and mind, the experience of sorrow and misery is inescapable.  Here is what Shakespeare says:

I pray thee peace, I will be flesh and blood;
For there was never yet philosopher
That could endure the toothache patiently,
However they have writ the style of gods,
And made a push at chance and sufferance.                                         
(MUCH ADO ABOUT NOTHING ACT 5, SCENE 1, 31–38)

सः, त्वम्, प्रसीद, भगवन्, कुरु, मयि, अनाथे, विष्णो, कृपाम्, परम-कारुणिकः, किल, त्वम्, संसार-सागर- नमिग्नम्, अनन्त-दीनम्, उत्-हर्तुम्, अर्हसि, हरे, पुरुषोत्तमः, असि
सन्धयः
सः+त्वम्= एतत्तदोः सुलोपोकोरनञ्समासे हलि
मयि+अनाथे= इको यणचि
कृपाम्, दीनम्, उत्-हर्तुम्= मोऽनुस्वारः
परम-कारुणिकः+ किल= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
उत्+हर्तुम्= झलां जशोऽन्ते
पुरुष+उत्तम= आद्गुणः
पुरुषोत्तमः+असि = ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
आकाङ्क्षा-अन्वयः
सः त्वम् प्रसीद भगवन्! विष्णो कुरु मयि अनाथे कृपाम्! परम-कारुणिकः किल त्वम्! हरे पुरुषोत्तमः असि! संसार-सागर-नमिग्नम् अनन्त-दीनम् उत्-हर्तुम् अर्हसि
You, Oh Lord, are the One indeed, please be gracious! Oh, Viṣṇu, please show mercy on this destitute me, after all are You not the Most Compassionate One?! Lord, You are called Puruṣottama, the Supreme Being! So You should save me, the one fully drowned in the ocean of Samsara and infinitely pitiable.
सुबन्तप्रक्रिया
सः = तद् सर्वनाम, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्वम् = युष्मद्, १.१, सुँ, ङेः प्रत्मपयोरम्, त्वाहौ सौ, अतो गुणे, शेषे लोपः
भगवन् = त्, पुं, १.१ सम्बोधनम्, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, संयोगान्तस्य लोपः
मयि = अस्मद्, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
अनाथे = अ, पुं, ७.१, ङि, आद्गुणः
विष्णो = उ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रवात् सम्बुद्धेः
कृपाम् = आ, स्त्री, २.१, अम्, अमि पुर्वः
परम-कारुणिकः, पुरुषोत्तमः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किल = अव्ययम्
संसार-सागर- नमिग्नम्, अनन्त-दीनम् = अ, पुं, २.१, अम्, अमि पूर्वः
उत्-हर्तुम् = अव्ययम्
हरे = इ, पुं, १.१ सम्बोधनम्, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
प्रसीद = प्र+ षदॢँ विशरणगत्यवसादनेषु, भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
कुरु = डुकृञ् करणे, तनादिः परस्मैपदी (उभय), लोट्, मध्यमपुरुषः, एकवचनम्
अर्हसि = अर्हँ पूजायाम्, भ्वादिः परस्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
असि = असँ भुवि, अदादिः परस्मैपदी, लट्, मध्यममपुरुषः, एकवचन्म्
समासाः, तद्धिताः, कृदन्ताः
भगवन्= भगः अस्य अस्ति (मतुप्) तद्धितः, हे
अनाथे= नास्ति नाथः यस्य बहुव्रीहिः, तस्मिन्
विष्णो= विशति सर्वभूतानि विशन्ति सत्वभूतान्यस्मिन् इति वा, सम्बोधनम्
परम-कारुणिकः= परमः कारुणिकः (करुणा शीलमस्य), ठक्
संसार-सागर- नमिग्नम्= संसारः एव सागरः अवधारणाकर्मधारयः, सागरस्य निमग्नः ६तत्, तम्
अनन्त-दीनम्= न अन्तः अस्ति यस्याः अनन्ता, अनन्ता दीनता कर्मधारयः, दीनता यस्य सः बहुव्रीहिः, तम्
उत्-हर्तुम्= उत्+हृ, तुमुन्, कृदन्तः, अव्ययम्
हरे= हरतीति भवम् हरिः उपपद, हे
पुरुषोत्तमः= पुरुषाणाम् उत्तमः ६तत्
***
॥ ॐ नमो भगवते वासुदेवाय ॥