Saturday, April 13, 2024

Sri Mukundamala - 39


॥ ॐ नमो भगवते वासुदेवाय ॥

क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये। 
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥३९॥
Translation: To the Lord whose beautiful body is decorated with star-like drops of water sprinkled by the waves of the Milky Ocean, who is lying in Yoganidra comfortably on the bed formed by the Adishesha snake, who is the beloved consort of Lakṣmī, who destroyed the demon Madhu to recover the Vedas, our prayers!

Listen to this rendered so beautifully by Sangeetha Kalanidhi Bombay Jayashri here!


Notes: This is an expression of poetic ecstasy as the devotee meditates on the Lord.
व्याकरणांशाः
क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥३९॥
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये,भोगि-भोग-शयनीय-शायिने, माधवाय, मधु-विद्विषे, नमः
सन्धयः
शीकर+आसार= अकः सवर्णे दीर्घः
नमः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये भोगि-भोग-शयनीय-शायिने माधवाय मधु-विद्विषे नमः
To the Lord whose beautiful body is decorated with star-like drops of water sprinkled by the waves of the Milky Ocean, who is lying in Yoganidra comfortably on the bed formed by the Adishesha snake, who is the beloved consort of Lakṣmī, who destroyed the demon Madhu to recover the Vedas, our prayers!
सुबन्तप्रक्रिया
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये = इ, स्त्री, ४.१, ङे, (विकल्पेन) घेर्ङिति, एचोऽयवायावः
भोगि-भोग-शयनीय-शायिने = न्, पुं, ४.१, ङे, वर्णमेलनम्
माधवाय =अ, पुं, ४.१, ङे, ङेर्यः, सुपि च
मधु-विद्विषे = ष्, पुं, ४.१, ङे, वर्णमेलनम्
नमः = नमस् अव्ययम्
तिङन्तप्रक्रिया
अस्तु अध्याहारः = असँ भुवि, अदादिः परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
क्षीर-सागर-तरङ्ग-शीकर-आसार-तारकित-चारु-मूर्तये= चारु मूर्तिः कर्मधारयः, क्षीरसागरस्य तरङ्गाः, तैः उत्वादितः शिकरः आसारः (कर्मधारयः), ३तत् मध्यमपदलोपी, तेन तारकिता चारु मूर्तिः, ३तत्, मूर्तिः यस्य सः, मूर्तिः, तस्मै
भोगि-भोग-शयनीय-शायिने= भोगिनः भोगम् शयनम् ६तत्, कर्मधारयः, तस्मिन् शेते इति शायिन् कृदन्तः, तस्मै
माधवाय= मायाः धवः ६तत्, तस्मै
मधु-विद्विषे= मधोः विद्विष् ६तत्, तस्मै

***
॥ ॐ नमो भगवते वासुदेवाय ॥