Sunday, April 21, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 4

 



॥ ॐ नमो भगवते वासुदेवाय ॥

संसारदाहदहनाकुलभीकरोरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य।
त्वत्पादपद्मसरसीं शरणागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! To me, all my body hairs singed badly by the fierce swirls of deadly fire arising from the conflagration called worldliness, come to the cool lake of Your lotus feet, be so kind and save me with Your helping hand!

Notes: This is a more direct statement of the fact that blazing fire is singeing Ādi Śankara. Even here, we must understand that he is making the plea not for himself but on our behalf. Natural phenomena like wildfire and cool lakes were common in those times. Not so in our urban jungles anymore!

व्याकरणांशाः
संसारदाहदहनाकुलभीकरोरुज्वालावलीभिरतिदग्धतनूरुहस्य।
त्वत्पादपद्मसरसीं शरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः, अति दग्ध-तनु-ऊरुहस्य त्वत् पाद-पद्म-सरसीम्, शरण-आगतस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
दहन+आकुल,ज्वाला-आवलीभिः, तनु+ऊरुहस्य, शरण-आगतस्य, कर-अवलम्बम् = अकः सवर्णे दीर्घः
आवलीभिः+अति= ससजुषो रुः
त्वत्+पाद= झलां जशोऽन्ते, खरि च
सरसीम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः अति दग्ध-तनु-ऊरुहस्य त्वत् पाद-पद्म-सरसीम् शरण-आगतस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! To me, all my body hairs singed badly by the fierce swirls of deadly fire arisen from the conflagration called worldliness, come to the cool lake of Your lotus feet, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः = ई, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अति = अव्ययम्
दग्ध-तनु-ऊरुहस्य, शरण-आगतस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
त्वत् पाद-पद्म-सरसीम् = ई, स्त्री, ३.१, अम्, अमि पूर्वः
लक्ष्मी-नृसिंह = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः= ज्वालानां आवल्यः, ६तत्, ताभिः। आकुला भीकरा ज्वाला, कर्मधारयः। संसारः एव दाह दहनम् (कर्मधारयः) अवधारणापूर्वपदकर्मधारयः, तस्य आवली, ६तत्
दग्ध-तनु-ऊरुहस्य= तनोः ऊरुहः, ६तत्। दग्धः ऊरुहः कर्मधारय। आरुहः यस्य सः, तस्य बहुव्रीहिः।
शरणम् आगतः= द्वितीयातत्पुरुषः, कर्तरी क्त कृदन्तः, तस्य
त्वत् पाद-पद्म-सरसीम्= पादं पद्ममिव=उपमानोत्तरपदकर्मधारयः। पद्मानां सरसी, ६तत्, ताम्। तव पादपद्म, ६तत्।
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥