Saturday, April 6, 2024

Sri Mukundamala - 32



॥ ॐ नमो भगवते वासुदेवाय ॥

दारा वाराकरवरसुता ते तनूजो विरिञ्चिः 
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्माया जगदविकलं तावकी देवकी ते 
माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥३२॥
Translation: Oh, Lord, Your wife is the Goddess Lakṣmī, daughter of the ocean, Your son is Brahma, Your panegyrists are the Vedas, Your servants are the gods. Your grace is the granting of Mukti. This entire creation is Your Māyā, Your mother is Queen Devakī. Your dear friend is Arjuna, son of Indra. Other than these, I know not Your people!
Notes:  The poet is trying to know the Lord better. he knows Mukunda is Bhagavān Nārāyaṇa i.e.,  Kṛṣṇa, and lists all the relatives of Bhagavān. Finally, he confesses he does not know anything more. Indeed, who can really know Bhagavān in our empirical sense?


व्याकरणांशाः
दारा वाराकरवरसुता ते तनूजो विरिञ्चिः
स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्माया जगदविकलं तावकी देवकी ते
माता मित्रं बलरिपुसुतस्त्वय्यतोऽन्यन्न जाने ॥३२॥
दारा, वाराकर-वर-सुता, ते, तनूजः, विरिञ्चिः, स्तोता, वेदः, तव, सुर-गणः, भृत्य-वर्गः, प्र-सादः, मुक्तिः, माया, जगत्, अविकलम्, तावकी, देवकी, ते, माता, मित्रम्, बलरिपुसुतः,त्वयि, अतः, अन्यत्, न, जाने
सन्धयः
दाराः+ वारा = ससजुषो रुः, भोभगोरघोअपूर्वस्य योऽशि, हलि सर्वेषाम्
तनूजः+विरिञ्चिः, सुर-गणः+भृत्य-वर्गः= ससजुषो रुः, हशि च, आद्गुणः
विरिञ्चिः+स्तोता, वेदः+तव, बलरिपुसुतः+त्वयि= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
भृत्य-वर्गः+प्र-सादः= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
मुक्तिः+माया= ससजुषो रुः
अविकलम्, मित्रम्= मोऽनुस्वारः
जगत्+अविकलम्= झलां जशोऽन्ते
त्वयि+अतः= इको यणचि
अतः+अन्यत्= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
आकाङ्क्षा-अन्वयः
दारा वाराकर-वर-सुता ते तनूजः विरिञ्चिः स्तोता वेदः तव सुर-गणः भृत्य-वर्गः प्र-सादः मुक्तिः माया जगत् अविकलम् तावकी देवकी ते माता मित्रम् बलरिपुसुतः त्वयि अतः अन्यन् न जाने
Oh, Lord, Your wife is the Goddess Lakṣmī, daughter of the ocean, Your son is Brahma, Your panegyrists are the Vedas, Your servants are the gods. Your grace is the granting of Mukti. This entire creation is Your Māyā, Your mother is Queen Devakī. Your dear friend is Arjuna, son of Indra. Other than these, I know not Your people!
सुबन्तप्रक्रिया
दाराः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वाराकर-वर-सुता, माया= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
ते = युष्मद्, ६.१, ङस्, अन्वादेशे तेमयावेकवचनस्य
तनूजः, वेदः, सुर-गणः भृत्यवर्गः, प्रसादः, बलरिपुसुतः= अ, पुं, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
विरिञ्चिः = इ, पुं, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्तोता = ऋ, पुं, १.१, सुँ, ऋदुशनस्पुरुदंसोऽनेहसां च, अप्तृन्तृच्स्वसृनप्तृनेष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
तव = युष्न्मद्, ६.१, ङस्, युषमद्समद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
मुक्तिः= इ, स्त्री, १.१ सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जगत् = त्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते, वाऽअवसाने
अविकलम्, मित्रम् = अ, नपुं, १.१ सुँ, अतोऽम्, अमि पूर्वः
तावकी = ई, स्त्री, १.१ सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
देवकी = = ई, स्त्री, १.१ सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
माता = ऋ, स्त्री, १.१ सुँ, ऋदुशनस्पुरुदम्सोऽनेहसां च, सर्वनामस्थाने चासम्बुद्धौ, हल्ङ्याब्भ्यो दीर्घात्सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
त्वयि = युष्मद्, ७.१, ङि, त्वमावेकवचने, अतो गुणे, योऽचि
अतः, न = अव्ययम्
अन्यत्= द्, नपुं, २.१, अम्, त्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते, वाऽअवसाने
तिङन्तप्रक्रिया
जाने = ज्ञा अवबोधने, क्र्यादिः, अनुपसर्गाज्ज्ञः वार्त्तिकम्, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
वाराकर-वर-सुता= वार्ः आकरः ६तत्, तस्य वरा सुता (कर्मधारयः) ६तत्
तनूजः=तनोर्जायते उपपद
विरिञ्चिः- विरचयति
सुर-गणः, भृत्य-वर्गः= सुरानं गणः ६तत्, भृत्यानां वर्गः, ६तत्
अविकलम् = नञ् विगता कला यस्य सः, बहुव्रीहिः,
तावकी= तव इयम् (ङीप्) - तद्धितः
बलरिपुसुतः = बलस्य रिपुः ६तत्, तस्य सुतः, ६तत्
***
॥ ॐ नमो भगवते वासुदेवाय ॥