Monday, April 22, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 5

 




॥ ॐ नमो भगवते वासुदेवाय ॥

संसारकूपमतिघोरमगाधमूलं
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! To me, having fallen into the deadly and bottomless pit of Saṃsāra, filled with hundreds of venomous snakes called sorrows, wretched, now at Your feet for mercy, Lord, be so kind and save me by Your helping hand!
Notes: The imagery of a man who has fallen into a disused deep well full of snakes with no hope of escape unless the Lord shows mercy is often cited in devotional scriptures. Therefore prayer is the only recourse for a man stuck in worldliness. 

व्याकरणांशाः
संसारकूपमतिघोरमगाधमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥
संसार-कूपम्, अतिघोरम्, अगाध-मूलम्, संप्राप्य, दुःख-शत-सर्प-समाकुलस्य, दीनस्यम् देव, कृपया, पदम्, आगतस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-वलम्बम्
सन्धयः
कर-अवलम्बम् = अकः सवर्णे दीर्घः
अगाधमूलम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! संसार-कूपम् अतिघोरम् अगाध-मूलम् संप्राप्य दुःख-शत-सर्प-समाकुलस्य दीनस्यम् देव कृपया पदम् आगतस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! To me, fallen into the deadly and bottomless pit of Saṃsāra, filled with hundreds of venomous snakes called sorrows, wretched, now at Your feet for mercy, Lord, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-कूपम्, अतिघोरम्, अगाध-मूलम् = अ, पुं, २.१, अम्, अमि पूर्वः
संप्राप्य = अव्ययम्
दुःख-शत-सर्प-समाकुलस्य, दीनस्य, आगतस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
कृपया = आ, स्त्री, ३.१, टा, आङि चापः, एचोऽयवायावः
पदम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
लक्ष्मी-नृसिंह, देव = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-कूपम्= संसार इति कूपम् सम्भावनापूर्वपदसमासः, तम्
अतिघोरम्= अति घोरः, कर्मधारयः, तम्
अगाध-मूलम्= अगाधः मूलः यस्य सः, तम् उपमानबहुव्रीहिः, तम्
संप्राप्य= सम्+प्रा+आपॢँ व्याप्तौ, स्वादिः, परस्मैपदी, ल्यबन्त कृदन्तः
दुःख-शत-सर्प-समाकुलस्य= दुःखानि एव शत सर्पाः, अवधारणापूर्वपद कर्मधारयः, तैः समाकुलः ३तत्, तस्य
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥