Tuesday, April 2, 2024

Sri Mukundamala -28


॥ ॐ नमो भगवते वासुदेवाय ॥

नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये 
स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति।
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं 
सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥२८॥

Translation: Whilst our supreme Lord, the sole authority over the three worlds, accessible through even mental worship, willing to give us even His supreme abode, i.e. Vaikuṇṭha, i.e. Nārāyaṇa is there, we run after serving some petty, mean chief of a few villages who can give us only trivia. Alas, how wretched and pitiable are we!
Notes:  The poet marvels at our stupidity. We chase petty men who give us pittances out of disdainful mercy. They are unbelievably insignificant compared to Lord Nārāyaṇa who is easily pleased by true devotion and will give all of Himself to us, and we don't see that as our better option!

व्याकरणांशाः
नाथे नः पुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये
स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति।
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूका वराका वयम् ॥२८॥
नाथे, नः, पुरुष-उत्तमे, त्रि-जगताम्, एक-अधिपे, चेतसा, सेव्ये, स्वस्य, पदस्य, दातरि, सुरे, नारायणे, तिष्ठति, यम्, कञ्चित्, पुरुष-अधमम्, कतिपय-ग्राम-ईशम्, अल्प-अर्थदम्, सेवायै. मृगयामहे. नरम्, अहो, मूकाः, वराकाः, वयम्
सन्धयः
पुरुष-उत्तमे,ग्राम-ईशम्= आद्गुणः
नः+ पुरुष= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
एक+अधिपे, अल्प+अर्थदम्= अकः सवर्णे दीर्घः
यम्, अधमम्, अर्थदम्= मोऽनुस्वारः
कञ्चित्= मोऽनुस्वारः, अनुस्वारस्य ययि परसवर्णः
आकाङ्क्षा-अन्वयः
नाथे नः पुरुष-उत्तमे त्रि-जगताम् एक-अधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति,यम् कञ्चित् पुरुष-अधमम् कतिपय-ग्राम-ईशम् अल्प-अर्थदम् नरम् सेवायै मृगयामहे! अहो वयम् मूकाः वराकाः!
Whilst our supreme Lord, the sole authority over the three worlds, accessible through even mental worship, willing to give us even His supreme abode, i.e. Vaikuṇṭha, i.e. Nārāyaṇa is there, we run after serving some petty, mean chief of a few villages who can give us only trivia. Alas, how wretched and pitiable are we!
सुबन्तप्रक्रिया
नाथे, पुरुषोत्तमे, एकाधिपे, सेव्ये, सुरे, नारायणे = अ, पुं, ७.१ (सति सप्तमी), ङि, आद्गुणः
नः = अस्मद्, ६.३, आम्, अन्वादेशे बहुवचने वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
त्रि-जगताम्= त्, नपुं, ६.३, आम्, वर्णमेलनम्
चेतसा = स्, नपुं, ३.१, टा, वर्णमेलनम्
स्वस्य, पदस्य = अ, नपुं, ६.१, ङस्, टाङसिण्गसामिनात्स्याः
दातरि = ऋ, पुं, ७.१, ङि, ऋतो ङिसर्वनामस्थानयोः, वर्णमेलनम्
तिष्ठति = त्, पुं, ७.१, ङि, वर्णमेलनम्
यम् = यद्, पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
कञ्चित् = कम् +चित् (अव्ययम्)\ कम् = पुं, २.१, अम्, त्यदादीनामः, अतो गुणे, अमि पूर्वः
पुरुष-अधमम्, कतिपयग्रामेशम्, अल्पार्थदम्, नरम् = अ, पुं, २.१, अम्, अमि पूर्वः
सेवायै = आ, स्त्री, ४.१, ङे, याडापः, वृद्धिरेचि
अहो = अव्ययम्
मूकाः, वराकाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
वयम् = अस्मद्, १.३, जस्, ङेप्रथमयोरम्, यूयवयौ जसि, अतो गुणे, शेषे लोपः
तिङन्तप्रक्रिया
मृगयामहे = मृग अन्वेषणे, चुरादिः, परस्मैपदी, लट्, उत्तमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
पुरुष-उत्तमे= पुरुषाणाम् उत्तमः, तस्मिन्, ६तत्
त्रि-जगताम्= त्रयाणां जगतां समाहारः त्रिजगत् द्विगुः. तेषाम्
एक-अधिपे= एकः (अधि+पाति इति पः, कृदन्तः, प्रादिः) अधिपः कर्मधारयः, तस्मिन्
नारायणे= नराणां समूहः नारम्, तदयनमस्य, नाराः ईयन्ते अनेन, नराज्जातानि तत्त्वानि अयनमस्य इति वा, तस्मिन्
पुरुष-अधमम्= पुरुषाणाम् अधमः, तम्, ६तत्.
कतिपय-ग्राम-ईशम्= कतिपयानि ग्रामानि कर्मधारयः, तेषाम् ईशः, तम्, ६तत्.
अल्पार्थदम् = अल्पः अर्थः कर्मधारयः, अल्पार्थं ददाति उपपद, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥