Saturday, January 13, 2024

Shloka 62 - Sri Varadarajastava




        Click on the image to open:



उल्लासयत्युदरबन्धनिबद्धदिव्यशोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगम्यनेकशतकल्पविधातृगर्भनाभ्युद्गताम्बुरुहकुण्डलपङ्क्तिशोभाम् ॥६२॥

T: Oh Lord Śrī Varadarāja, hailed as Acyuta (The Infallible), the array of lustrous sparkles from Your ruby-studded waist belt indicate that several lotus buds will emerge from Your navel in similar splendour in different aeons, to give birth to the several Brahmas!             
Explanation:  The gem- and ruby-studded girdle belt adorns the Lord's waist. The red rays of the rubies look like several lotus buds. Seeing this, the poet imagines that likewise, lustrous lotuses will emerge over the aeons from the Lord's navel to give birth to the Brahmas.
व्याकरणांशाः
मूलम्
उल्लासयत्युदरबन्धनिबद्धदिव्यशोणाश्मरश्मिकलिकावलिरच्युतैषा ।
आगम्यनेकशतकल्पविधातृगर्भनाभ्युद्गताम्बुरुहकुण्डलपङ्क्तिशोभाम्॥६२॥
पदच्चेदः
उल्लासयति,उदरबन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः, अच्युत, एषा, आगामी-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुण्डल-पङ्क्ति-शोभाम्
सन्धयः
उल्लासयति+उदरबन्ध, आगामी+अनेक, नाभि+उद्गत=इको यणचि
शोण+अश्म, उद्गत+अम्बुरुह, कलिका+आवलिः= अकः सवर्णे दीर्घः
वलिः+अच्युत= ससजुषो रुः
अच्युत+एषा=वृद्धिरेचि
आकाङ्क्षा-अन्वयः
अच्युत! एषा उदर-बन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः आगामी-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुण्डल-पङ्क्ति-शोभाम् उल्लासयति
Translation
Oh, Acyuta! This girdle belt's array of lustrous red rubies enact the appearance of hundreds of future aeons' arrays of lustrous lotuses that will rise in Your navel to give birth to the several Brahmas of those aeons.
सुबन्तप्रक्रिया
उदरबन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः = इ, स्त्री, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अच्युत= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
एषा= एतद्, स्त्री, १.१, सुँ, त्यदादीनामः, अतो गुणे, अजाद्यतष्टाप्, अकः सवर्णे दीर्घः, तदोः सः सावनन्त्ययोः, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, आदेशप्रत्ययोः
आगामी-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुण्डल-पङ्क्ति-शोभाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
उल्लासयति= अद्+लस्, भ्वादि, परस्मैपदी, णिजन्त, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
उदरबन्ध-निबद्ध-दिव्य-शोण-अश्म-रश्मि-कलिका-आवलिः = उदरे बन्धः ७तत्, बन्धे निबद्धः ७तत्, तस्मिन् स्थितः दिव्यः शोणः अश्मः ७तत्+कर्मधारयः, तस्य रश्मिः ६तत्, तस्याः कलिकाः ६तत्, तासाम् आवलिः ६तत्
आगामी-अनेक-शत-कल्प-विधातृ-गर्भ-नाभि-उद्गत-अम्बुरुह-कुण्डल-पङ्क्ति-शोभाम्= आगामी अनेक शत कल्पाः कर्मधारय, तेषु उत्पन्नाः विधातारः ७तत्, तेषां गर्भः ६तत्, गर्भस्य रूपे उद्गतः अम्बुरुहः कर्मधारयः, तेषां कुण्डलानि, ६तत्, तेषां पङ्क्तिः ६तत्, तस्य शोभा, ताम् ६तत्