Friday, January 19, 2024

Shloka 68 - Sri Varadarajastava




        Click on the image to open:
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नामूर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥६८॥
T:  Oh, Supreme Lord, On either side, by Your two shoulders, is shining the beautiful garland that appears like the milky foam of waves rising from the river of lustre that forms Your chest.
 Explanation:  The thick necklace of white pearls worn by the Lord Śrī Varadarāja is placed between the Lord's chest and shoulders. The Lord's chest is a river of lustre. The pearls appear, therefore, like the white foam of waves splashing up from the banks of the river of light.  This is Smaraṇālaṅkāra.

व्याकरणांशाः
मूलम्
उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नामूर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥६८॥
पदच्चेदः
उत्-प्रेक्षयति, अधि-भुज-अन्तरम्, उल्लसन्ती, पार्श्व-द्वये, परम-पूरुष, हार-माला, तत्रत्य-कान्ति-सरितः, तरलैः, प्रणुन्नाम्, ऊर्मि-उत्करैः, उभयतः,सित-फेन-पङ्क्तिम्
सन्धयः
उत्-प्रेक्षयति+अधि-भुज-अन्तरम्=इको यणचि
अधि-भुज+अन्तरम्= अकः सवर्णे दीर्घः
तत्रत्य-कान्ति-सरितः+तरलैः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः
ऊर्मि+उत्करैः=इको यणचि
उत्करैः+उभयतः= ससजुषो रुः
उत्-प्रेक्षयति, अधि-भुज-अन्तरम्, उल्लसन्ती, पार्श्व-द्वये, परम-पूरुष, हार-माला, तत्रत्य-कान्ति-सरितः, तरलैः, प्रणुन्नाम्, ऊर्मिः, उत्करैः, उभयतः,सित-फेन-पङ्क्तिम्
तरलैः+ प्रणुन्नाम्= ससजुषो रुः, खरवसानयोर्विसर्जनीयः, कुप्वोः ≍क≍पौ च
आकाङ्क्षा-अन्वयः
परम-पूरुष! पार्श्व-द्वये अधि-भुज-अन्तरम् उल्लसन्ती हार-माला तत्रत्य-कान्ति-सरितः तरलैः प्रणुन्नाम् ऊर्मि-उत्करैः उभयतः सित-फेन-पङ्क्तिम् उत्-प्रेक्षयति
Translation
Oh, Supreme Lord, On either side over Your shoulders, the dangling thick necklace of white pearls appears to be the white foam formed by huge waves rising on either bank in the river of lustre that is Your broad chest!
सुबन्तप्रक्रिया
अधि-भुज-अन्तरम्= अ, नपुं २.१, अम्, अतोऽम्,आमि पूर्वः
उल्लसन्ती= ई, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
पार्श्व-द्वये= अ, नपुं, ७.१, ङि, आद्गुणः
परम-पूरुष=अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
हार-माला= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्
तत्रत्य-कान्ति-सरितः= त्, स्त्री, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तरलैः, ऊर्म्युत्करैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
प्रणुन्नाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
उभयतः= अव्ययम्
सित-फेन-पङ्क्तिम् = आ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
उत्प्रेक्षयति= उद्+प्र+ईक्षयति=ईक्ष्, भ्वादि, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
अधि-भुज-अन्तरम्=भुजयोः अन्तरम् ६तत्, अन्तरे, अधिभुजान्तरम् अव्ययीभावः
उल्लसन्ती= उद् लसति, स्त्री उपपदसमासः शतृ
पार्श्व-द्वये, द्वयोः पार्श्वयोः समाहारः= पार्श्वद्वयम् द्विगु, तस्मिन्
परम-पूरुष= परमः पूरुषः कर्मधारयः
हार-माला= हारस्य माला ६तत्
तत्रत्य-कान्ति-सरितः= तत्रत्या कान्तिः, कर्मधारयः, तस्य सरित्, तस्याः ६तत्
प्रणुन्नाम्= प्र+णुद्, क्ता क्रोदन्त= प्रणुन्ना, ताम् उपपदसमासः
ऊर्मि-उत्करैः= ऊर्म्योः उत्करः, तैः ६तत्
सित-फेन-पङ्क्तिम् = फेनस्य पङ्क्तिः, ६ तत्, सिता पङ्क्तिः कर्मधारयः, ताम्