Monday, January 15, 2024

Shloka 64 - Sri Varadarajastava




        Click on the image to open:


सालैरुदंशुचयरत्नललन्तिकाख्यैः स्फीतोल्लसत्कुसुमया वनमालया च ।
विभ्राजते विपुलमेतदुरस्त्वदीयमन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥
T:  Oh, Lord Śrī Varadarāja,  Your broad chest shines as the Palace Inner Chamber of Your consort Devi Lakṣmī, daughter of the Lord of the Ocean. The rays of the Lalantikā necklaces form their outer fort wall. The garland of wild blossoms surrounds it like a forest skirting the fortress.

Explanation:  Devi Lakṣmī is known to be in her abode on the Lord's chest. Thus His chest becomes her Ladies' Chamber. The jewelled necklaces surround the Lord's chest like the ramparts of her fort. Like the forest trees skirt a fortress, the garland of fragrant wild blossoms that the Lord fondly wears surrounds the necklaces. This is Rūpālaṅkāra.

व्याकरणांशाः
मूलम्
सालैरुदंशुचयरत्नललन्तिकाख्यैः स्फीतोल्लसत्कुसुमया वनमालया च ।
विभ्राजते विपुलमेतदुरस्त्वदीयमन्तःपुरं जलधिराजकुमारिकायाः ॥६४॥
पदच्चेदः
सालैः, उत्-अंशु-चय-रत्न-ललन्तिका-आख्यैः, स्फीत-उल्लसत् कुसुमया, वन-मालया, च, विभ्राजते, विपुलम्, एतत्, उरस्- त्वदीयम्, अन्तःपुरम्, जलधि-राज-कुमारिकायाः
सन्धयः
सालैः+उत्=ससजुषो रुः
उत्-अंशु=झलां जश् झशि
ललन्तिका॒आख्यैः= अकः सवर्णे दीर्घः
आख्यैः, कुमारिकायाः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्फीत+उल्लसत्=आद्गुणः
एतत्+उरस्=झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
एतत् त्वदीयम् विपुलम् उरः उत्-अंशु-चय-रत्न-ललन्तिका-आख्यैः सालैः स्फीत-उल्लसत्-कुसुमया वन-मालया च जलधि-राज-कुमारिकायाः अन्तःपुरम् विभ्राजते
Translation
Oh, Lord, this expansive chest of Yours, with fort-like wall of the bright rays rising from the jewelled necklaces, and then those full-blown blossoms of wild flowers in Your necklace forming a forested skirt of the fort, shines splendidly as the Inner Chamber of Your consort, Devi Lakṣmī, daughter of the Lord of the Ocean.
सुबन्तप्रक्रिया
सालैः, उत्-अंशु-चय-रत्न-ललन्तिका-आख्यैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
स्फीत-उल्लसत् कुसुमया, वन-मालया= आ, स्त्री, ३.१, टा, आङि चापः, एचोऽयवायावः
च = अव्ययम्
विपुलम्, त्वदीयम्, अन्तःपुरम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
एतत्= एतद्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
उरः= स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जलधि-राज-कुमारिकायाः = आ, स्त्री, ६.१, ङस्, याडापः, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
विभ्राजते= वि+भ्रा, भ्वादि, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
उत्-अंशु-चय-रत्न-ललन्तिका-आख्यैः= अद्गतः अंशुः, क़र्मधारयः, तस्य चयः ६तत्, तेन युक्तः रत्नस्य ललन्तिका त३तत्, ६तत्, ललन्तिका इति आख्या सम्भावना कर्मधारयः, तैः
स्फीत-उल्लसत्-कुसुमया= स्फीतं उल्लसितं कुसुमम् कर्मधारयः वनमालया= वनस्य माला ६तत्
जलधि-राज-कुमारिकायाः= जलधेः राजा ६तत्, तस्य कुमारिका, तस्याः ६तत्
अन्तःपुरम्= अन्तर्मध्यवर्ती पुरम् = मध्यमपदलोपी कर्मधारयः