Tuesday, January 23, 2024

Shloka 75- Sri Varadarajastava





        Click on the image to open:

चन्द्रार्कचारुतरशङ्खरथाङ्गशोभासम्भाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥७५॥
T:  Oh, Lord Śrī Varadarāja,  I behold Your two sides lit up by Śaṅkha and Cakra that glow like the moon and the sun, a combination of day and night! The various pearls glitter on Your being like stars! I now understand that this delightful form of Yours, is indeed the manifestation of the Mahāpuruṣa!

Explanation:  In the Puruṣa Sūktam of the Ṛgveda, day and night are depited as the two sides of the Supreme Being, and stars His manifestation. अहो रात्रे पार्श्वे नक्ष्त्राणि रूपम्  is the Mantra invoked by the poet here as he pens this stanza. Lord Śrī Varadarāja is holding in His two hands Śaṅkha and Cakra. Śaṅkha is symbolic of the moon and Cakra, of the sun. The multitude of pearls adorning the Lord are indicative of the stars. Thus, Lord Śrī Varadarāja is verily the Mahāpuruṣa described in the Puruṣa Sūktam, as we see day and night, sun and moon and even the stars.

व्याकरणांशाः
मूलम्
चन्द्रार्कचारुतरशङ्खरथाङ्गशोभासम्भाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् ।
नक्षत्रदृश्यनवमौक्तिकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥७५॥
पदच्चेदः
चन्द्र-अर्क-चारु-तर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवसात्मक-पार्श्व-युग्मम्, नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपम्, मन्ये, महापुरुष-रूपधरम् भवन्तम्
सन्धयः
चन्द्र+अर्क= अकः सवर्णे दीर्घः
नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपम्, महापुरुष-रूपधरम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
चन्द्र-अर्क-चारु-तर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवसात्मक-पार्श्व-युग्मम् नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपम् मन्ये महापुरुष-रूपधरम् भवन्तम्
Translation
Oh, Lord! The beautiful representation of the moon and the sun by Your Śaṅkha and Cakra that also symbolise the night and day on either side of Yours, and the starry vision of the beautiful pearl necklaces on Your form convince me You are the Mahāpuruṣa described in the Puruṣa Sūktam!
सुबन्तप्रक्रिया
चन्द्र-अर्क-चारु-तर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवसात्मक-पार्श्व-युग्मम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
महापुरुष-रूपधरम्= अ, पुं, २.१, अम्, अमि पूर्वः
भवन्तम्= त्, पुं, २.१, अम्, उगिदचां सर्वनामस्थाने चाधातोः
तिङन्तप्रक्रिया
मन्ये= मन्, दिवादिः, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
चन्द्र-अर्क-चारु-तर-शङ्ख-रथाङ्ग-शोभा-सम्भाव्य-रात्रि-दिवसात्मक-पार्श्व-युग्मम् = चन्द्रश्च अर्कश्च चन्द्रार्कौ(द्वन्द्वः) तौ इव शङ्खस्च रथङ्गश्च शङ्खरथङ्गौ (द्वन्द्व) कर्मधारयः, तयोः शोभा ६तत्, शोभां सम्भाव्य रत्रिदिवसौ (द्वन्द्वः)तयोः आत्मकम् ६तत्, तद् पार्श्वयुग्मम् (द्विगु) कर्मधारयः
नक्षत्र-दृश्य-नव-मौक्तिक-हारि-रूपम् मन्ये = नक्षत्र इव दृश्यते नव मौक्तिक हारः कर्मधारयः (मध्यमपदलोपी), हारः यस्य सः, बहुव्रीहिः, तस्य रूपम् ६तत्
महापुरुष-रूपधरम्= महापुरुषस्य रूपम् ६तत्, तं धरति रूपधरः उपपदसमासः, तम्