Monday, January 8, 2024

Shloka 57 - Sri Varadarajastava





        Click on the image to open:

नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन तस्यैष किं नु महिमा परिशीलनस्य ॥५७॥
T: Oh, Lord Śrī Varadarāja, the golden yellow silk cloth tied around Your beautiful waist is the inspiration for Varavarṇinī - meaning beautiful ladies who fall in love with You as well as the very colour yellow. Clearly, both find their inspiration only in Your beautiful waist! 
Explanation: The word Varavarṇinī has two meanings. The first is a beautiful damsel. The other is the golden yellow colour of turmeric. Amarakośa enumerates, निशाह्वा काञ्चनी पीता हरिद्रा वरवर्णिनी as synonyms of turmeric yellow. The word Rāga in Sanskrit means both colour and amorous attraction. The poet is cleverly using the double meaning in Śleṣa Alaṅkāra here.
व्याकरणांशाः
मूलम्
नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन तस्यैष किं नु महिमा परिशीलनस्य ॥५७॥
पदच्चेदः
नाथ, त्वया, परिहितम्, वरवर्णिनीनाम्, रागस्य, यत्, वसनम्, आस्पदताम्, बिभर्ति, सौन्दर्य-सार-निलयेन, कटी-तटेन, तस्य, एषः, किम्, नु, महिमा, परिशीलनस्य
सन्धयः
परिहितम्, वरवर्णिनीनाम्, आस्पदताम्, किम्= मोऽनुस्वारः
यत्+वसनम्= झलां जशोऽन्ते
तस्य+एषः=वृद्धिरेचि
एषः+किम्= एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
आकाङ्क्षा-अन्वयः
नाथ! त्वया परिहितम् यत् वसनम् वरवर्णिनीनाम् रागस्य आस्पदताम् बिभर्ति सौन्दर्य-सार-निलयेन कटी-तटेन तस्य परिशीलनस्य एषः नु महिमा किम्?
Translation
Oh, Lord! The yellow silk garment worn around Your waist seems to inspire both the amorous love of beautiful damsels as well as the golden yellow colour itself! Is it perhaps the proximity of the cloth to Your beautiful waist (as You are home to all beauty) t that is causing this effect?
सुबन्तप्रक्रिया
नाथ= अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
त्वया= युष्मद्, पुं, ३.१, टा, त्वमावेकवचने, अतो ग़ुने, योऽचि
परिहितम्, वसनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
वरवर्णिनीनाम्= ई, स्त्री, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
रागस्य= अ, पुं, ६.१, ङस्, टाण्गसिङसामिनात्स्याः
यत् = यद्, सर्वनाम, १.१, सुँ, स्वमोर्नपुंसकात्, झलां जशोऽन्ते
आस्पदताम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
सौन्दर्य-सार-निलयेन, कटी-तटेन=अ, पुं, ३.१, टा, टाङसिङसामिनात्स्याः, आद्गुणः
तस्य= तद्, सर्वनाम, ६.१, ङस्, त्यदादीनामः, अतो गुणे, टाङसिङसामिनात्स्याः
एषः= एतद्, पुं, १.१, सुँ, त्यदादीनामः, अतो गुणे, तदोः सः सावनन्त्ययोः, आदेशप्रत्यययोः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किम्, नु=अव्ययम्
महिमा= आ, स्त्री, १.१, सुँ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्
परिशीलनस्य= अ, नपुं, ६.१, ङस्, टाङसिण्गसामिनात्स्याः
तिङन्तप्रक्रिया
बिभर्ति= भृ, जुहोत्यादि, पर्स्स्मैपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
परिहितम्= प्रादिसमासः
सौन्दर्य-सार-निलयेन=सौदर्यस्य सारः, तस्य निलयः, तेन, षष्ठीतत्पुरुषः
परिशीलनस्य=परि+शीलनम्, प्रादिस्मासः, तस्य