Friday, January 12, 2024

Shloka 61 - Sri Varadarajastava




        Click on the image to open:

कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतद् भूयात् सदैव मम भूतिकरं मुरारे ॥६२॥

T: Oh, Murāri, Lord Śrī Varadarāja, as if to prepare for creating in the long term many Brahmas that will rule different universes, the lotus born out of Your navel has a surfeit of pollen dust- Rajas. May the lotus always confer on me riches! 
Explanation:  Lord Brahma, the creator, symbolises the essence of Rajas, the creative energy. Brahma is born out of the lotus in the Lord Mahā Viṣṇu's navel. Over the aeons, many Brahmas will be created to manifest different worlds. In the poet's imagination, the raw material is the Rajas or pollen dust in the lotus. He sees the lotus full of pollen in the Lord's navel. Since the lotus is also a symbol of prosperity (Devi Lakṣṃī), the poet now makes a plea that the lotus may confer great prosperity on him. This figure of speech is called Phalotprekṣālaṅkāra.

व्याकरणांशाः
मूलम्
कल्पान्तरेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् ।
नाभिह्रदे समुदितं नलिनं तवैतद् भूयात् सदैव मम भूतिकरं मुरारे ॥६२॥
पदच्चेदः
कल्प-अन्तरेषु, विततिम्, कमल-आसनानाम्, भूयः, अपि, कर्तुम्, इव, भूरि ,रजः, दधानम्, नाभिह्रदे, समुदितम्, नलिनम्, तव,एतत्, भूयात्, सदा, एव, मम, भूतिकरम्, मुरारे
सन्धयः
कल्प-अन्तरेषु, कमल-आसनानाम्= अकः सवर्णे दीर्घः
विततिम्, कमल-आसनानाम्, समुदितम्, नलिनम्, भूतिकरम् =मोऽनुस्वारः
भूयः+अपि= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः, एङः पदान्तादति
रजः= ससजुषो रुः, अतो रोरप्लुतादप्लुते, आद्गुणः
तव+एतत्, सदा+एव= वृद्धिरेचि
आकाङ्क्षा-अन्वयः
मुरारे! तव नाभिह्रदे एतत् नलिनम् कल्प-अन्तरेषु कमल-आसनानाम् भूयः अपि विततिम् कर्तुम् इव भूरि रजः दधानम् समुदितम् सदा एव मम भूतिकरम् भूयात्
Translation
Oh, Murāri, arising out of the lake of Your navel is this lovely lotus, ready with copious pollen Rajas in order to create many Brahmas over the aeons. May this lotus confer great riches on me!
सुबन्तप्रक्रिया
कल्प-अन्तरेषु= अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
विततिम्= इ, स्त्री, २.१, अम्, अमि पूर्वः
कमल-आसनानाम्= अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
भूयः, अपि, इव, एव, सदा, भूरि = अव्ययम्
रजः =स्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दधानम्, नलिनम्, समुदितम्= अ, नपुं, २.१,म्, अतोऽम्, अमि पूर्वः
नाभिह्रदे=अ, पुं, ७.१, आद्गुणः
तव= युष्मद्, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
एतत् = एतद्, सर्वनाम, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, वाऽवसाने
मम= अस्मद्, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
भूतिकरम्= अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मुरारे= इ, पुं, १.१ सम्बोधनम्, सुँ. ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
तिङन्तप्रक्रिया
उपैतु= उप+इण्, अदादि, परस्मैपदी, लोट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
कर्तुम् = कृ, तुमुन्
भूयात् = भू, भ्वादि, परस्मैपदी, विधिलिङ्, प्रथमपुरुषः, एकवचनम्
कल्पानतरेषु= मयूरव्यम्सकादि
कमलासनानाम्= कमलमेव आसनम् (अवधारणापूर्वपदकर्मधारयः), कमलासनं यस्य सः, तेषाम्, समानाधिकरणबहुव्रीहिः
भूतिं करोति= भूतिकरम्, उपपदसमासः