Tuesday, January 23, 2024

Shloka 74- Sri Varadarajastava





        Click on the image to open:

ऐन्द्रोपलप्रभमधो भुजदण्डनालमेकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोरुत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥७४॥
T:  Oh, Lord, Your two upper hands, illumined by the blue sapphire gem-like lustre of Your arms, hold in one hand, the Cakra, and in the other, the swan called Śaṅkha. Is it possible, therefore, not to imagine those two hands as the divine lotuses arising from the ocean of blue lustre? 
Explanation: The Lord's two mighty arms are like giant lotus stems of blue sapphire-like lustre. At the end of those arms, one of the two hands holds the Cakra. The word Cakra also means the bird Cakravāka, and it seems the bird is sitting on a blue lotus. In the other hand is held the Śaṅkha or conch. Like the Śaṅkha, the swan is sparkling white. These two birds are seated on two lotuses. This visualisation is well understood and therefore the poet feels no difficulty in imagining the Lord's two hands to be two lotuses rising from the ocean of blue sapphire-lustre. This is also Utprekṣā.

व्याकरणांशाः
मूलम्
ऐन्द्रोपलप्रभमधो भुजदण्डनालमेकत्र चक्रमपरत्र च शङ्खहंसम् ।
दृष्ट्वा कथं न कलयेमहि कान्तिसिन्धोरुत्फुल्लपद्मयुगमूर्ध्वकरद्वयं ते ॥७४॥
पदच्चेदः
ऐन्द्रोपल-प्रभम्, अधः, भुज-दण्ड-नालम्, एकत्र, चक्रम्, अपरत्र, च, शङ्ख-हंसम्, दृष्ट्वा, कथम्, न, कलयेमहि, कान्ति-सिन्धोः, उत्फुल्ल-पद्म-युग-मूर्ध्व-कर-द्वयम्, ते
सन्धयः
ऐन्द्रोपल-प्रभमधः+भुज-दण्ड-नालम्= ससजुषो रुः, हशि च
कथम्, उत्फुल्ल-पद्म-युग-मूर्ध्व-कर-द्वयम् = मोऽनुस्वारः
कान्ति-सिन्धोः+उत्फुल्ल-पद्म-युग-मूर्ध्व-कर-द्वयम्= ससजुषो रुः
आकाङ्क्षा-अन्वयः
ऐन्द्रोपल-प्रभम् अधः भुज-दण्ड-नालम् एकत्र चक्रम् अपरत्र च शङ्ख-हंसम् दृष्ट्वा कथम् न कलयेमहि कान्ति-सिन्धोः उत्फुल्ल-पद्म-युग-मूर्ध्व-कर-द्वयम्
Translation
Oh, Lord! Illumined from below with a blue sapphire glow of Your two arms, one of the hands holds the Cakra, and the other holds the the swan-like Śaṅkha. Seeing this, therefore, how can one not perceive Your two upper hands as two lotuses rising from the blue sapphire ocean?
सुबन्तप्रक्रिया
अधः, च, कथम्, न, एकत्र, अपरत्र= अव्ययम्
ऐन्द्रोपल-प्रभम्, भुज-दण्ड-नालम्, उत्फुल्ल-पद्म-युगम् , ऊर्ध्व-कर-द्वयम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
चक्रम्, शङ्ख-हंसम्= अ, पुं, २.१, अम्, अमि पूर्वः
कान्ति-सिन्धोः= उ, पुं, ६.१, ङस्, घेर्ङिति, ङसिण्गसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
ते = युष्मद्, ६.१, ङस्, अन्वादेशे द्वितीयम् रूपम्, तेमयवेकवचनस्य
तिङन्तप्रक्रिया
कलयेमहि= कल, चुरादिः, परस्मैपदी (उभय), आशीर्लिङ्, उत्तमपुरुषः, बहुवचनम्
समासाः, तद्धिताः, कृदन्ताः
ऐन्द्रोपल-प्रभम्= इन्द्रस्य अयम् ऐन्द्रः (तद्धित), ऐन्द्रः उपलः कर्मधारयः, तस्य प्रभा, ६तत्, प्रभा यस्य तत्= बहुव्रीहिः
भुज-दण्ड-नालम्= भुजः दण्डः इव, कर्मधारयः, तस्य नालः ६तत्, नालः यस्य तत्, बहुव्रीहिः
शङ्ख-हंसम्= शङ्खः हंस इव कर्मधारयः, हंसः/चक्रः यस्य तत्=बहुव्रीहिः
कान्ति-सिन्धोः = कान्तेः सिन्धुः, तस्य ६तत्
उत्फुल्ल-पद्म-युगम् = उत्फुल्लम् पद्मम् कर्मधारयः, तयोः युगम् ६तत्
ऊर्ध्व-कर-द्वयम्= ऊर्ध्वौ करौ द्वौ तयोः समाहारः - द्विगुः