Tuesday, January 16, 2024

Shloka 65 - Sri Varadarajastava




        Click on the image to open:


प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि शान्तिलक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥६५॥
T:  Oh, Lord Śrī Varadarāja,  matching in radiance, charm, and colour are the rubies shining in Your gold necklace called Prālambikā.  Oh, Lord, Your lady consort Devī Lakṣmī rests on her couch, i.e. Your chest, and these rubies look like little decorative pillows for her to lean on.
Explanation: Śāntilakṣmī, the Lord's divine consort (literally it means the lady resting), makes herself comfortable on the Lord's chest as her couch. On either side are the glittering red ruby pillows for her to rest on. These are embedded in the gold necklace whose technical name is Prālambikā. This is Upamālaṅkāra. ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिका  states the Amarakośa defining the necklace made of gold with gems strung together and worn on the broad chest as Prālambikā.

व्याकरणांशाः
मूलम्
प्रालम्बिकामुपगतास्तव पद्मरागाः प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि शान्तिलक्ष्म्याः क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥६५॥
पदच्चेदः
प्रालम्बिकाम्, उपगताः, तव, पद्मरागाः, प्रति-अग्र-घर्मकर-मण्डल-निर्वि-शेषाः, पर्यङ्कके, वरद, वक्षसि, शान्ति-लक्ष्म्याः, क्रीडा-उप-बर्ह-तिलकाः, इव, पार्श्व-भाजः
सन्धयः
पद्मरागाः= ससजुषो रुः, खरवसानयोर्विसतर्जनीयः, कुप्वोः कुप्वोः ≍क≍पौ च
प्रति-अग्र-घर्मकर-मण्डल-निर्वि-शेषाः, पार्श्व-भाजः= ससजुषो रुः, खरवसानयोर्विसतर्जनीयः
उपगताः+तव= ससजुषो रुः, खरवसानयोर्विसतर्जनीयः, विसर्जनीयस्य सः
प्रति+अग्र=इको यणचि
क्रीडा+उप= आद्गुणः
क्रीडा-उप-बर्ह-तिलकाः+ इव= ससजुषो रुः, भोभगोअघोअपूर्वस्य योऽशि, लोपः शाकल्यस्य
आकाङ्क्षा-अन्वयः
वरद! तव प्रालम्बिकाम् उपगताः पद्मरागाः प्रति-अग्र-घर्मकर-मण्डल-निर्वि-शेषाः पर्यङ्कके वक्षसि शान्ति-लक्ष्म्याः क्रीडा-उप-बर्ह-तिलकाः इव पार्श्व-भाजः
Translation
Oh, Lord, the ruby stones encrusted in the gold necklace on Your chest emit red beams of light like the rising sun. They appear like ornamental pillows for goddess Lakshmi resting on the couch of Your chest to lean on, on either side!
सुबन्तप्रक्रिया
प्रालम्बिकाम् = आ, स्त्री, २.१, अम्, कः सवर्णे दीर्घः
उपगताः, पद्मरागाः, प्रति-अग्र-घर्मकर-मण्डल-निर्वि-शेषाः, क्रीडा-उप-बर्ह-तिलकाः= अ, पुं, १.३, जस्, अकः सवर्णे दीर्घः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तव= युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
पर्यङ्कके = अ, पुं, ७.१, ङि, आद्गुणः
वरद= अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः
वक्षसि= स्, नपुं, ७.१, ङि, वर्णमेलनम्
शान्ति-लक्ष्म्याः= आण्नद्याः, आटश्च, ैको यणचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
इव= अव्ययम्
पार्श्व-भाजः= ज्, पुं, १.३, जस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
वरद= वरं ददाति, सः, हे, २तत्
प्रालम्बिकाम्=प्र+आङ्+लम्बिका, ताम्, उपगताः प्रादि
पद्मरागाः=पद्मस्य इव रागोऽस्य, ते, उपमानपूर्वपदबहुव्रीहिः
प्रति-अग्र-घर्मकर-मण्डल-निर्वि-शेषाः = प्रत्यग्रः घर्मकरः, कर्मधारयः, तस्य मण्डलःम, ६तत्, तस्मात् निर्विशेषआः, ५तत्
शान्ति-लक्ष्म्याः= शान्त्यौ स्थिता लक्ष्मीः, मध्यमपदलोपी ७तत्, तस्याः
क्रीडा-उप-बर्ह-तिलकाः=क्रीडायां ...७तत्, उपबर्हाः तिलकाः, कर्मधारयः
पार्श्व-भाजः= पार्श्वे भाजः, ७तत्