Friday, January 5, 2024

Shloka 54 - Sri Varadarajastava



        Click on the image to open:

सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥५४॥                    
T: Manmatha is ambidextrous (shooting arrows from both his left and right hands). He sees, oh Lord, Your two legs (from the waist down) and mistakes them for his left and right quivers! He places his arrows around Your legs to see them glitter in the lustre of the gold and gem-studded ornaments already adorning Your legs. He is delighted seeing how matchingly beautiful they appear there.           
Explanation:  The Lord's legs are brilliant like the quivers of the God of Love, Manmatha.  The ornaments called Kaṭaka adorning the leg shine like Manmatha's arrows. This makes the poet imagine that perhaps, Manmatha has come and placed his arrows around the Lord's legs, to see whether they match and enhance the beauty of the Lord's legs.  The poet explains that primarily, Manmatha, the ambidextrous archer, must have mistaken the Lord's legs for his own left and right quivers. 

व्याकरणांशाः
मूलम्
सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्घे तव स्वशरधी इति सन्दिहानः ।
आलोकतेऽङ्घ्रिकटकोद्गतरुक्छलेन न्यस्याभितो निजशराननुरूपभावम् ॥५४॥
पदच्चेदः
सव्य-अपसव्य-शरमोक्षकृत्,इक्षुधन्वा, जङ्घे, तव, स्वशरधी, इति, सन्दिहानः, आलोकते, अङ्घ्रि -कटक-उद्गत-रुक्-छलेन न्यस्य, अभितः, निज-शरान्, अनुरूपभावम्
सन्धयः
सव्य+अपसव्य, न्यस्य+अभितः= अकः सवर्णे दीर्घः
आलोकते+अङ्घ्रि =एङः पदान्तादति
कटक+उद्गत=आद्गुणः
अभितः= ससजुषो रुः, हशि च, आद्गुणः
सन्दिहानः=ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
(नाथ), सव्य-अपसव्य-शरमोक्षकृत् इक्षुधन्वा तव जङ्घे स्वशरधी इति सन्दिहानः अङ्घ्रि -कटक-उद्गत-रुक्-छलेन अभितः निज-शरान् न्यस्य अनुरूपभावम् आलोकते!
Translation
Oh Lord! The one capable of releasing arrows from both left and right hands, Manmatha the God of Love with his set of arrows and bow, mistaking Your two legs to be his quivers, places, alongside the lustrous Kaṭaka ornaments adorning Your legs, his own arrows, eager to see how they resemble each other in brilliance.
सुबन्तप्रक्रिया
सव्य-अपसव्य-शरमोक्षकृत् = त्, पुं, १.१, सुँ, हल्न्याब्भ्यो दीर्घात् सुतिस्यप्कृतम् हल्, झलां जशोऽन्ते, वाऽवसाने
इक्षुधन्वा=न्, पुं, १.१, सुँ, सर्वनामस्थाने चासम्बुद्धौ, हल्ङ्याब्भ्यो दीर्घात् सुतिस्यप्कृतं हल्, नलोपः प्रातिपदिकान्तस्य
जङ्घे = आ, स्त्री, १.२, औ, औङ्ग आपः, आद्गुणः
तव= युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
स्वशरधी=इ, स्त्री, १.२, औ, प्रथमयोः पूर्वसवर्णः
इति, अभितः= अव्ययम्
सन्दिहानः=अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अङ्घ्रि -कटक-उद्गत-रुक्-छलेन=अ, पुं, १.३, टा, टाङसिङसामिनात्स्याः, आद्गुणः
निज-शरान् =अ, पुं, २.३, शस्, प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि
अनुरूपभावम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
आलोकते= आङ्+लोक्, भ्वादिः, आत्मनेपदी, लट्, प्रथमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
सव्य-अपसव्य-शरमोक्षकृत् = सव्यश्च असव्यश्च=सव्यासव्यम् ९समाहारद्वन्द्व, सव्यासव्यं शरं मोक्षं करोति=द्वितीयातत्पुरुषः, उपपदसमासः
इक्षुधन्वा= एक्षुः एव धनुः सयस्य सः, इक्षुधन्वन् बहुव्रीहिः
स्वशरधी= स्वस्य शरधी= स्वशरधी, षष्ठीतत्पुरुषः
सन्दिहानः=सं + दिह + शानच्
अङ्घ्रि -कटक-उद्गत-रुक्-छलेन=अङ्घ्रेः कटकम् ६तत्, तेन उद्गतं रुक्,३तत्, कर्मधारयः. तस्य छलेन, ६तत्
निज-शरान्= निजः, शरः, तान्=कर्मधारयः , अनुरूपं भावम्, तम् = कर्मधारयः रूपं अनुसृत्य=अनुरूपम्= अव्ययीभावः